| YouTube Channel

चर्व (carva)

 
शब्दसागरः
English
चर्व r. 1st and 10th cls. (चर्वति चर्वयति-ते) To eat, to chew, to masticate.
भ्रा-पर-सक-सेट् चुरा उभ०
Wilson
English
चर्व r. 1st and 10th cls. (चर्वति चर्व्वयति) To eat, to chew, to
masticate.
Shabdartha Kaustubha
Kannada
चर्व -अदने (भ्वा० पर० सक० से०) चर्वति
पदविभागः - > धातुः
कन्नडार्थः - > ಅಗಿದು ತಿನ್ನು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चर्व्
मूलधातुः:
चर्व
धात्वर्थः:
अदने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चर्वति
धातुप्रदीपः
Sanskrit
चर्वँ चर्व अदने
- चर्वति चर्वा चर्वितम् ।।579।।
शब्दकल्पद्रुमः
Sanskrit
चर्व्व, कि भक्षे इति कविकल्पद्रुमः
(चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) कि, चर्व्वयति चर्व्वतितण्डुलं बालकः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
चर्व भक्षणे दन्तैश्चूर्णने (चिवान) या चुरा०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् चर्वयति--ते चर्वति अचचर्वत्--तअचर्वीत् चर्वयां बभूव आस चक्रे चचर्व चर्वणं चर्वणाचर्वितः रसास्वादव्यापारे चर्वणशब्दे दृश्यम्
क्षीरतरङ्गिणी
Sanskrit
चर्वँ चर्व अदने
- चर्वति चर्वितः चार्वाकः चुरादौ चर्वयति अर्ब बर्ब इत्योष्ठ्यान्त्यौ 565
धातुवृत्तिः
Sanskrit
चर्वँ चर्व (अर्थः) अदने
( चर्वतीत्यादि चवर्घयति देवदत्तं ) "निगरणचलने'' इति नित्यं परस्मैपदम् "गतिबुद्धी'' इति प्रयोज्यस्य कर्मत्वम् 571
कृदन्तरूपमाला
Sanskrit
1 {@“चर्व अदने”@} 2 अस्यापि धातोः सर्वाण्यपि रूपाणि कर्बतिवत् 3 बोध्यानि।
अस्य धातोः भक्षणार्थत्वेन ण्यन्तात् ‘निगरणचलनार्थेभ्यश्च’ 4 इति शतैव।
तु शानजिति विशेषः।
प्रासङ्गिक्यः
01
=>
(५०९)
02
=>
(१-भ्वादिः-५७९। सक। सेट्। पर।)
03
=>
(१७३)
04
=>
(१-३-८७)