| YouTube Channel

चर्य्या (caryyA)

 
शब्दकल्पद्रुमः
Sanskrit
चर्य्या,
स्त्री,
(चर + “गदमदचरयमश्चानुपसर्गे ।”३ १०० इति यत् स्त्रियां टाप् ।)ईर्य्यापथस्थितिः इत्यमरः ३६
नियमापरित्यागः ईर्य्यते गुरोः शास्त्रो-पासनया ज्ञायते ईर्य्या सा ध्यानधारणादिःतस्याः पन्था उपायः तत्र व्रतिनां या स्थिति-रवस्थानमपरित्यागः सा इति भरतः
(यथा, महाभारते ३२६ ।“चर्य्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः
”)गमनम् अदनम् आचरणम् इति मुग्धबो-धटीकायां दुर्गादासः
(यथा, मनुः ३२ ।“आसां महर्षिचर्य्याणां त्यक्त्वान्यतमया तनुम्
”सेवा यथा, हेः रामायणे २९ १५ ।“वनवासस्य शूरस्य मम चर्य्या हि रोचते
”त्रि, अनुष्ठेयः आचरणीयः यथा, मनुः ।“षट्त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकं व्रतम्
”)
वाचस्पत्यम्
Sanskrit
चर्य्या स्त्री चर--“परिचय्यापरिसर्य्येत्यादि” पा० परीत्यस्या-विवक्षातः भावे क्यप् आचारमात्रे “वनवासस्य शूरस्यमम चर्य्या हि रीचते” रामा० अ० २९ १५ गतौ“चर्य्यायां हयमुत्सृष्टम्” भा० आ० ६३७ श्लो० ।२ ईर्य्यापथस्थितौ परित्राजकादीनां व्रतानुष्ठाने नियमापरित्यामे “गदमदचरेत्यादि” पा० कर्मणि यत् ।४ अनुष्ठेये आचरणीये
त्रि०
“षट्त्रिंशदाब्दिकं चर्य्यं गुरौयवादिकं व्रतम्” मनुः भावे यत् अवश्यचरणे
न०