| YouTube Channel

चर्म्मी (carmmI)

 
शब्दकल्पद्रुमः
Sanskrit
चर्म्मी, [न्]
पुं,
(चर्म्म शरीरावरकं शस्त्रविशेषो-ऽस्त्यस्य चर्म्म + इनिः ।) चर्म्मधारियोद्धा ।ढाली इति भाषा
तत्पर्य्यायः फलक-पाणिः (यथा, महाभारते २७ ३१ ।“श्यामं बृहन्तं तरुणं चर्म्मिणामुत्तमं रणे ।नकुलं ते वने दृष्ट्वा कस्मात् मन्युर्न वर्द्धते
”चर्म्म त्वक् अस्त्यस्येति ।) भूर्जवृक्षः इत्य-मरः ४६
(यथा, सुश्रुते चिकित्-सितस्थाने ११ अः “चर्म्मिवृक्षगिरिकर्णिका-शीतशिवनिचुलदाडिमाजकर्णहरिवृक्षराजाद-नगोपघोण्टाविकङ्कतेषु वा यवान्नविकारांश्चसेवेत
”) भृङ्गरिटिः मोचा इति शब्द-रत्नावली