| YouTube Channel

चर्म्मन् (carmman)

 
शब्दसागरः
English
चर्म्मन्
n.
(-र्म्म)
1. Skin, hide, bark, &c.
2. A shield.
3. A student's hide,
usually that of an antelope.
E.
चर् to go, to obstruct, Unadi affix
मनिन्.
Yates
English
चर्म्मन् (र्म्म) 1.
n.
Skin or hide
a
shield
student's carpet.
Wilson
English
चर्म्मन्
n.
(-र्म्म)
1 Skin, hide, bark, &c.
2 A shield.
3 A student's hide, usually that of an antelope.
E.
चर to go, to obstruct, Uṇādi affix मनिन्.
वाचस्पत्यम्
Sanskrit
चर्म्मन्
न०
चर--मनिन् देहावरिकायां त्वचि, इन्द्रियभेदेयेन स्पर्श उपलभ्यते तस्मिन् फलके (ढाल) ।“त्वगिन्द्रियन्तु वायवीयं यथाह “देहव्यापि त्वगिन्द्रियम्”भाषा० तस्य तथात्वं सि० मु० समर्थितं यथा “शरीरव्यापकं स्पर्शग्राहकमिन्द्रियं तच्च वायवीयं रूपादिषुमव्ये स्पर्शस्यैव व्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्यव्यञ्जकव्यजनवातवत्” मनसा त्वग्योगोज्ञानसामान्ये कारणंयथाह तत्रैव “त्वचोयोगो मनसा ज्ञानकारणम्”“त्वङ्मनःसंयोगो ज्ञानसामान्ये कारणमित्यर्थः किं तत्रप्रमाणे सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्त्तमानेनमनसा ज्ञानाजननमिति ननु सुषुप्तिकाले किं ज्ञानंभविष्यति अनुभवरूपं स्मरणरूपं वा नाद्यः अनुभव-सामग्र्यभावात्तथाहि चाक्षुषादिप्रत्यक्षे चक्षुरादिनासह मनःसंयोगस्य हेतुत्वात् तदमावादेव चाक्षुषादि-प्रत्यक्ष, ज्ञानादेरभावादेव मानसप्रत्यक्षं, ज्ञानाद्यभावेच नात्मनोऽपि प्रत्यक्षमिति व्याप्तिज्ञानाभावात् नानु-मितिः, सादृश्यज्ञानाभावात् नोपमितिः, पदज्ञानाभावात्न शाब्दबोधः, इत्यनुभवसामग्र्यभावात्, नानुभवः ।उद्बोधकाभावाच्च स्मरणम् मैवं सुषुप्तिप्राक्कालोत्-पन्नेच्छादिव्यक्तेस्तत्सम्बन्धेनात्मनश्च प्रत्यक्षप्रसङ्गात् तदती-न्दियत्वे मानामावात् सुषुप्तिप्राक्काले निर्विकल्पमेव जायतइत्यत्रापि प्रमाणाभावात् अथ ज्ञानमात्रे त्वङ्मनःसंयोगस्य यदि कारणत्वं तदा रासनचाक्षुषादिप्रत्यक्ष-काले स्पार्शनप्रत्यक्षं स्यात् विषयेन्द्रियसंयोगस्यविषयत्वक्संयोगस्थ तदा सत्त्वात् परस्परप्रतिबन्धा-देकमपि वा स्यादिति अत्र केचित् पूर्व्वोक्तयुक्त्यात्वङ्मनोयोगस्य हेतुत्वे सिद्धे चाक्षुषादिसामग्र्याःस्पार्शनादिप्रतिबन्धकत्वमनुभवानुरोधात् कल्प्यते इति ।अन्ये तु सुषुप्त्यनुरोधात् चर्म्ममनःसंयोगस्य ज्ञान-हेतुत्वं कल्प्यं चाक्षुषादिप्रत्यक्षकाले त्वचि मनः-संयोगाभावान्न स्पार्शनप्रत्यक्षमिति वदन्ति” चर्म्मत्व-चोर्भेद इति तु रहस्यम् त्वचश्च सप्तविधा यथाह सुश्रुतः“तस्य ख्यल्वेवस्प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्यक्षीरस्येव सान्तानिकाः सप्त त्वचो भवन्ति तासां प्रथमा-ऽवभासिनी नाम या सर्व्ववर्णानवभासयति पञ्चविधाञ्चछायां प्रकाशयति सा व्रीहेरष्टादशभागप्रमाणा सिध्मपद्म-कण्टकाधिष्ठाना, द्वितीया लोहिता नाम षोद्धशभाग-प्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठाना, तृतीया श्वेतानाम द्वादशभागप्रमाणा चर्म्मदलाजगल्लीमशकाधिष्ठाना, चतुर्थी ताम्रा नामाष्टभागप्रमाणा विविधकिलासकुष्ठाधिष्ठाना, पञ्चमी वेदिनी नाम ब्रीहिपञ्चभागप्रमाणाकुष्ठविसर्पाधिष्ठाना, षष्ठी रोहिणी नाम व्रीहिप्रमाणाग्रन्थ्यपच्यर्वुदश्लीपद गलगण्डाधिष्ठाना, सप्तमी मांसधरानाम व्रीहिद्वयप्रमाणा भगन्दरविद्रध्यर्शोऽधिष्ठाना” यदे-तत्प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु ललाटसूक्ष्मा-ङ्गाङ्घ्रादिषु यतो वक्ष्यत्युदरेषु व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येदिति” ।फलकविवृत्तियु क्तिकल्पतरौ यथा“शरीरावरकं शस्त्रं चर्म्म इत्यभिधीयते तत्पुन-र्द्विविधं काष्ठचर्म्मसम्भवभेदतः शरीरावरकत्वञ्चलघुता दृढता तथा दुर्भेद्यतेति कथितश्चर्मणां गुण-संग्रहः सितोरक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः ।ब्रह्मादिजातिभेदेन चर्म्मणां वर्ण निर्णयः चित्रवर्णस्तुसर्वेषां सर्व्वदैवोपपद्यते” इति भोजदेवः