| YouTube Channel

चर्म्म (carmma)

 
शब्दसागरः
English
चर्म्म
n.
(-र्म्मं) A shield: see चर्म्मन्. चर्म साधनतया अस्ति अस्य अच् टिलोपः
Yates
English
चर्म्म (र्म्म) 1.
n.
Leather
a shield.
Wilson
English
चर्म्म
n.
(-र्म्म) A shield: see चर्म्मन्.
शब्दकल्पद्रुमः
Sanskrit
चर्म्म, [न्]
क्ली,
(चर + “सर्व्वधातुभ्यो मनिन् ।”उणां ४१५ इति मनिन् ।) इन्द्रियविशेषः ।चाम इति भाषा
तत्पर्य्यायः त्वक् २असृग्धरा कृत्तिः अजिनम् देहचर्म्म ६रक्ताधारः रोमभूमिः शरीरावरणम् ।इति राजनिर्घण्टः
असृग्वरा १० इतिभरतधृतसर्व्वधरः
(यथा, भागवते १६ ।“निर्भिन्नान्यस्य चर्म्माणि लोकपालोऽनिलो-ऽविशत्
”)शरीरावरकं शस्त्रम् ढाल इति भाषा
तत्-पर्य्यायः फलकः फलम् इत्यमरः ।८ ९०
फरम् चर्म्मम् इति भरतः
*
तस्य लक्षणं यथा, युक्तिकल्पतरौ ।“शरीरावरकं शस्त्रं चर्म्म इत्यभिधीयते ।तत् पुनर्द्विविधं काष्ठचर्म्मसम्भवभेदतः
शरीरावरकत्त्वञ्च लघुता दृढता तथा ।दुर्भेद्यतेति कथिता चर्म्मणां गुणसंग्रहः
स्वल्पता गुरुता चैव मृदुता सुखभेद्यता ।विरुद्धवर्णता चेति चर्म्मणां दोषसंग्रहः
सितो रक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः ।ब्रह्मादिजातिभेदेन चर्म्मणां वर्णनिर्णयः
चित्रवर्णस्तु सर्व्वेषां सर्व्वदैवोपपद्यते
*
ब्रह्मचारिधार्य्यकृष्णसारचर्म्म इत्यमरः ।४७
(यथा, मनुः ४१ ।“कार्ष्णरौरववास्तानि चर्म्माणि ब्रह्मचारिणः
”)
वाचस्पत्यम्
Sanskrit
चर्म्म
न०
चर्म्म साधनतया अस्त्यस्य अच् टिलोपः चर्म्म-निर्म्मिते फलके(ढाल) भरतः