| YouTube Channel

चर्च्चरी (carccarI)

 
शब्दकल्पद्रुमः
Sanskrit
चर्च्चरी,
स्त्री,
(चर्च्च + बाहुलकात् अरन् ततोगौरादित्वात् ङीष् ।) गीतभेदः चर्च्चरी गीत-भेदे केशभित्करशब्दयोरिति रुद्रः
हर्ष-क्रीडेति सुभूतिः कापटिकानां सादरवचनंतौर्य्यत्रिकञ्चेत्यन्ये वसन्तसमयक्रीडेत्येके इत्य-मरटीकायां भरतः
हर्षक्रीडावाक् तत्-पर्य्यायः चर्भटी इति हेमचन्द्रः
(यथा, रत्नावल्याम् अङ्के “अये ! मघुरमभि-हन्यमानमृदुमृदङ्गानुगतसङ्गीतमधुरः पुरःपौराणामुच्चरति चर्च्चरीध्वनिः
एतदुदा-हरणं यथा, विक्रमोर्व्वश्याम् अङ्के ।अनन्तरे चर्च्चरीत्युक्त्वा, --“गन्धोन्मादितमधुकरगीतै-र्वाद्यमानैः परभृततूर्य्यैः ।प्रसरितपवनोद्बेल्लितपल्लवनिकरःसुललितविविधप्रकारैर्नृत्यति कल्पतरुः
”वर्णवृत्तविशेषः यथा, शब्दार्थचिन्तामणौ ।“हारयुक्तसुवर्णकङ्कणपाणिशङ्खविराजितापादनूपुरसङ्गता सुपयोधरद्वयभूषिता ।शोभिता बलयेन पिङ्गलपन्नगाधिपवर्णिताचर्च्चरीतरुणीव चेतसि चाकसीति सुसङ्गता
”)