| YouTube Channel

चरीच्छृदा (carIcchRdA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“उ छृदिर् दीप्तिदेवनयोः”@} 2 ‘छृदी सन्दीपने वा णौ छर्दयेच्छर्दतीत्युभे।
छृन्ते छृणत्तीति पदे दीप्तिदेवनयोः श्नमि।।’ 3 इति देवः।
‘देवनम् = क्रीडाविजिगीषादि।
दीप्तिवमनयोः इत्येके।’ इति धातुका- व्यव्याख्याने 4।
5 छर्दकः-र्दिका, छर्दकः-र्दिका, 6 चिच्छर्दिषकः-षिका-चिच्छृत्सकः त्सिका, 7 चरीच्छृदकः-दिका
छर्दिता-त्री, छर्दयिता-त्री, चिच्छर्दिषिता-चिच्छृत्सिता-त्री, चरीच्छृदिता-त्री
8 छृन्दन्-ती, छर्दयन्-न्ती, चिच्छर्दिषन्-चिच्छृत्सन्-न्ती
-- 9 छर्दिष्यन्-छर्त्स्यन्-न्ती-ती, छर्दयिष्यन्-न्ती-ती, चिच्छर्दिषिष्यन्-चिच्छृत्सिष्यन्-न्ती-ती
छृन्दानः, छर्दयमानः, चिच्छर्दिषमाणः-चिच्छृत्समानः, चरीच्छृद्यमानः
छर्दिष्यमाणः-छर्त्स्यमानः, छर्दयिष्यमाणः, चिच्छर्दिषिष्यमाणः-चिच्छृत्सिष्यमाणः, चरीच्छृदिष्यमाणः
सुच्छृत्-सुच्छृद्-सुच्छृदौ-सुच्छृदः
-- -- 10 11 छृण्णम् 12 -छृण्णः-छृण्णवान्, छर्दितः, चिच्छर्दिषितः-चिच्छृत्सितः, चरीच्छृदितः-तवान्
छृदः, छर्दः, चिच्छर्दिषुः-चिच्छृत्सुः, चरीच्छृदः
छर्दितव्यम्, छर्दयितव्यम्, चिच्छर्दिषितव्यम्-चिच्छृत्सितव्यम्, चरीच्छृदितव्यम्
छर्दनीयम्, छर्दनीयम्, चिच्छर्दिषणीयम्-चिच्छृत्सनीयम्, चरीच्छृदनीयम्
13 छृद्यम्, छर्द्यम्, चिच्छर्दिष्यम्-चिच्छृत्स्यम्, चरीच्छृद्यम्
ईषच्छर्दः-दुश्छर्दः-सुच्छर्दः
-- -- छृद्यमानः, छर्द्यमानः, चिच्छर्दिष्यमाणः-चिच्छृत्स्यमानः, चरीच्छृद्यमानः
छर्दः, छर्दः, चिच्छर्दिषः-चिच्छृत्सः, चरीच्छृदः
छर्दितुम्, छर्दयितुम्, चिच्छर्दिषितुम्-चिच्छृत्सितुम्, चरीच्छृदितुम्
छृत्तिः, 14 प्रच्छर्दिका, छर्दना, चिच्छर्दिषा-चिच्छृत्सा, चरीच्छृदा
छर्दनम्, छर्दनम्, चिच्छर्दिषणम्-चिच्छृत्सनम्, चरीच्छृदनम्
15 छर्दित्वा-छृत्त्वा, छर्दयित्वा, चिच्छर्दिषित्वा-चिच्छृत्सित्वा, चरीच्छृदित्वा
प्रच्छृद्य, प्रच्छर्द्य, प्रचिच्छर्दिष्य-प्रचिच्छृत्स्य, प्रचरीच्छृद्य
छर्दम् २, छर्दित्वा -छृत्त्वा, छर्दम् २, छर्दयित्व २, चिच्छर्दिषम् २-चिच्छृत्सम् २, चिच्छर्दिषित्वा २-चिच्छृत्सित्वा २, 16 चरीच्छृदम्
चरीच्छृदित्वा
17 इसिप्रत्यये छर्दिः = वमिः।
छर्दयतीति छर्दिः।]] छर्दिः।
प्रासङ्गिक्यः
01
=>
(५७३)
02
=>
(७-रुधादिः-१४४५। अक। सेट्। उभ।)
03
=>
(श्लो। ११५)
04
=>
(३। २।)
05
=>
[[१। ‘पुगन्तलघूपधस्य च’ (७-३-८६) इत्युपधाया गुणः। एवं णिजन्तेऽपि ज्ञेयम्।]]
06
=>
[[२। ‘सेऽसिचि कृतचृतच्छृदतृदनृतः’ (७-२-५७) इति सकारादेरार्धधातुकस्येड्वि- कल्पः। इट्पक्षे, लघूपधगुणो भवति। इडभावपक्षे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वाल्लघूपधगुणाभावः। धातुदकारस्य ‘खरि च’ (८-४-५५) इति चर्त्वम्। एवं सन्नन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया।]]
07
=>
[[३। ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासस्य रीगागमः। ‘दीर्घात्’ (६-१-७५) इति तुक्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
08
=>
[[४। ‘रुधादिभ्यः--’ (३-१-७८) इति श्नम्। ‘श्नसोरल्लोपः’ (६-४-१११) इत्यकार- लोपः। एवं छृन्दानः इत्यत्रापि प्रक्रिया ज्ञेया।]]
09
=>
[[५। ‘सेऽसिचि कृतचृतच्छृद--’ (७-२-५७) इति स्यप्रत्ययस्येड्विकल्पः। लघूपधगुणः। एवं शानजन्तेऽपि ज्ञेयम्।]]
10
=>
[पृष्ठम्०५४४+ २४]
11
=>
[[१। ‘सेऽसिचि--’ (७-२-५७) इति सादेरार्धधातुकस्येड्विकल्पनेन, ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पनेन वा, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठाया इण्णिषेधः। निष्ठातकार-धातुदकारयोः ‘रदाभ्याम्--’ (८-२-४२) इति नत्वम्। ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ (वा। ८-४-१) इति धातु- नकारस्य णत्वम्। ‘ष्टुना ष्टुः’ (८-४-४१) इति निष्ठानकारस्य ष्टुत्वेन णकारः।]]
12
=>
[[आ। ‘संच्छृण्णगात्रमथ शात्रवतर्दिनस्ते चाणूरमुष्टिकमुखा वस्रनान्यकृन्तन्।’ धा। का। ३। २।]]
13
=>
[[२। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति क्यप्।]]
14
=>
[[३। ‘रोगाख्यायां ण्वुल् बहुलम्’ (३-३-१०८) इति ण्वुलि, ‘प्रत्ययस्थात्--’ (७-३-४४) इतीत्त्वे रूपम्। प्रच्छर्दिका = वमथुः रोगविशेषः।]]
15
=>
[[४। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः। इडभावपक्षे धातुदकारस्य ‘खरि च’ (८-४-५५) इति चर्त्वेन तकारः।]]
16
=>
[पृष्ठम्०५४५+ २८]
17
=>
[[१। औणादिके [द। उ। ९-३०]