| YouTube Channel

चरीकृडम् (carIkRDam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कृड घनत्वे”@} 2 ‘घसने’--इत्येके।
घनत्वम् = सान्द्रता।
कर्डकः-र्डिका, कर्डकः-र्डिका, 3 चिकृडिषकः-षिका, 4 चरीकृडकः-डिका
कृडिता-त्री, कर्डयिता-त्री, चिकृडिषिता-त्री, चरीकृडिता-त्री
कृडन्-न्ती-ती, कर्डयन्-न्ती, चिकृडिषन्-न्ती
-- कृडिष्यन्-न्ती-ती, कर्डयिष्यन्-न्ती-ती, चिकृडिषिष्यन्-न्ती-ती
-- 5 व्यतिकृडमानः, कर्डयमानः, -- चरीकृड्यमानः
व्यतिकृडिष्यमाणः, कर्डयिष्यमाणः, -- चरीकृडिष्यमाणः
कृट्-कृड्-कृडौ-कृडः
-- -- -- कृडितम्-तः, कर्डितः, चिकृडिषितः, चरीकृडितः-तवान्
6 कृडः, 7 कडः, चिकृडिषुः, चिकर्डयिषुः, चरीकृडः
कृडितव्यम्, कर्डयितव्यम्, चिकृडिषितव्यम्, चरीकृडितव्यम्
कृडनीयम्, कर्डनीयम्, चिकृडिषणीयम्, चरीकृडनीयम्, 8 9 कृड्यम्, कर्ड्यम्, चिकृडिष्यम्, चरीकृड्यम्
ईषत्कृडः-दुष्कृडः-सुकृडः
-- -- कृड्यमानः, कर्ड्यमानः, चिकृडिष्यमाणः, चरीकृड्यमानः
कर्दः, कर्डः, चिकृडिषः, चरीकृडः
कृडितुम्, कर्डयितुम्, चिकृडिषितुम्, चरीकृडितुम्
10 कृड्ढिः, कर्डना, चिकृडिषा, चरीकृडा
कृडनम्, कर्डनम्, चिकृडिषणम्, चरीकृडनम्
कृडित्वा, कर्डयित्वा, चिकृडिषित्वा, चरीकृडित्वा
विकृड्य, विकर्ड्य, विचिकृडिष्य, प्रचरीकृड्य
कर्डम् २, कृडित्वा २, कर्डम् २, कर्डयित्वा २, चिकृडिषम् २, चिकृडिषित्वा २, चरीकृडम्
चरीकृडित्वा २।
प्रासङ्गिक्यः
01
=>
(२४७)
02
=>
(६-तुदादिः-१३८२। अक। सेट्। पर। कुटादिः।)
03
=>
[[५। ‘गाङ्कुटादिभ्योऽञ्णिन्ङित्’ (१-२-१) इति ञ्णिद्भिन्नस्य प्रत्ययस्य ङिद्वद्भावा- तिदेशात् लघूपधगुणो न।]]
04
=>
[[६। ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासस्य रीगागमः।]]
05
=>
[[७। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
06
=>
[[८। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
07
=>
[[आ। ‘पोडयोऽयं चुडतेति केऽपि, जुडतेत्यन्ये कडन्तोऽलुठन् देवे स्वैर्लुलिते कृडत्विषि कुडद्गात्रे पुडित्वाऽऽदरम्।’ धा। का। २-८१।]]
08
=>
[पृष्ठम्०२४५+ २४]
09
=>
[[१। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति क्यप्।]]
10
=>
[[२। ‘तितुत्र--’ (७-२-९) इति इडभावे ढत्वे ष्टुत्वे रूपम्।]]