| YouTube Channel

चरकः (carakaH)

 
Apte
English
चरकः [carakḥ], 1 A spy.
A wandering mendicant, a vagrant.
N.
of a sage and physician supposed to be serpent-king Śeṣa come to the earth. [He composed a new book on medicine, based on other works of Agniveśa and other pupils of Ātreya].
N.
of a lexicographer
m.
(pl. )
cf.
P.
IV.* 3.17.
N.
of a branch of the black Yajurveda.
Apte 1890
English
चरकः 1 A spy.
2 A wandering mendicant, a vagrant.
Apte Hindi
Hindi
चरकः
पुं*
- चर - कन्
दूत
चरकः
पुं*
- -
"रमता साधु, अवधूत"
चरकः
पुं*
- -
भारतीय आयुर्वेद का एक प्रवर्तक तथा चरकसंहिता का लेखक
Wordnet
Sanskrit
Synonyms:
चरकः
noun
चरकः वैद्यकशास्त्रस्य प्रधानः आचार्यः।
"चरकेण विरचिता चरकसंहिता सर्वमान्या अस्ति।"
Synonyms:
चरकः
noun
एकः असुरः
"चरकस्य उल्लेखः कोशे वर्तते"
Synonyms:
चरकः
noun
एकः कोशकारः
"चरकस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
चरकः,
पुं,
(चर एव स्वार्थे कन् ।) चारः ।इत्युणादिकोषः
पर्पटः इति राजनिर्घण्टः
(चरति गच्छति वेत्ति वेदवैद्यकादीनि सर्व्व-शास्त्राणीति चर + अच् ततः कन् यद्वाचर इव महीवृत्तं द्रष्टुमागतः चर + इवार्थेकन् ।) मुनिविशेषः तत्कृततन्नामकग्रन्थः ।तयोरुत्पत्तिर्यथा, --“यदा मत्स्यावतारेण हरिणा वेद उद्धृतः ।तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान्
अथर्व्वान्तर्गतं सम्यगायुर्व्वेदञ्च लब्धवान् ।एकदा महीवृत्तं द्रष्टुं चर इवागतः
तत्र लोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान् ।स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान्
तान् दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः ।अनन्तश्चिन्तयामास रोगोपशमकारणम्
संचिन्त्य स्वयं तत्र मुनेः पुत्त्रो बभूव ।यतश्चर इवायातो ज्ञातः केनचिद्यतः
तस्माच्चरकनामासौ विख्यातः क्षितिमण्डले ।स भाति चरकाचार्य्यो देवाचार्य्यो यथा दिवि
सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः ।आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन्
मुनयो बहवस्तैश्च कृतं तन्त्र स्वकं स्वकम् ।तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता
चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः
”इति भावप्रकाशः