| YouTube Channel

चरः (caraH)

 
Apte Hindi
Hindi
चरः
पुं*
- चर् - अच्
दूत
चरः
पुं*
- चर् - अच्
खञ्जन पक्षी
चरः
पुं*
- चर् - अच्
जुआ खेलना
चरः
पुं*
- चर् - अच्
कौड़ी
चरः
पुं*
- चर् - अच्
मंगलग्रह
चरः
पुं*
- चर् - अच्
मंगलवार
चरः
पुं*
- चर्+अच्
"वायु, हवा"
Wordnet
Sanskrit
Synonyms:
गुप्तचरः, अपसर्पः, गूढचारः, गूढचारी, चरः, चारः, चारकः, चारणः, चारी, भीमरः, मन्त्रज्ञः, मन्थरः, विचारकः, सूचि, हेरकः, उपचरकः
noun
यः गुप्तरीत्या गुह्यं जानाति।
"गुप्तचरस्य सूचनानुसारम् आरक्षकेण मिथ्यामुद्राप्रकाशकसमूहः गृहीतः।"
शब्दकल्पद्रुमः
Sanskrit
चरः,
पुं,
(चरति स्वपरराष्ट्रस्य शुभाशुभज्ञानायभ्राम्यतीति चर + अच् ।) राष्ट्रादेः शुभा-शुभादिज्ञानार्थं राज्ञा सगोपनं नियुक्तः पुरुषः ।परतत्त्वज्ञानार्थभ्रमणकर्त्ता तत्पर्य्यायः ।यथार्हवर्णः प्रणिधिः अपसर्पः चारः ५स्पशः गूढपुरुषः इत्यमरः १३
अपसर्पकः प्रतिष्कः प्रतिष्कसः १० गुप्त-गतिः ११ मन्त्रगूढः १२ हितप्रणीः १३ इतिशब्दरत्नावली
उदास्थितः १४ इति जटा-धरः
तत्राद्यौ भिक्षुबणिगादिवेशेन नित्य-स्थायिनि चरे पञ्च स्वदेशपरदेशभ्रमणशीलेइत्यन्ये इति भरतः
*
तस्य लक्षणं यथा, --“विवस्वानिव तेजोभिर्नभस्वानिव वेगतः ।राजा चरैर्ज्जगत् सर्व्वं प्राप्नुयाल्लोकसम्मतैः
तर्केङ्गितज्ञः स्मृतिमान् स्वीयभावाप्रकाशकः ।क्लेशायाससहो दक्षः सर्व्वत्र भयवर्जितः
सुभक्तो राजसु तथा कार्य्याणां प्रतिपत्तिमान् ।नृपो निहन्याच्चारेण परराष्ट्रं विचक्षणः
कालज्ञो मन्त्रकुशलान् संवत्सरचिकित्सकान् ।तथान्यानपि युञ्जीत समर्थान् शुद्धचेतसः
अक्रुद्धांश्च तथालुब्धान् दृष्टार्थान् तत्त्वभाषिणः ।पाषण्डिनस्तापसादीन् परराष्ट्रे नियोजयेत्
स्वदेशपरदेशज्ञान् सुशीलान् सुविचक्षणान् ।वार्त्ताहर्य्यान् बहूंश्चैव चराणां विनियोजयेत्
नैकस्य वचने राजा चारस्य प्रत्ययं वहेत् ।द्वयोः सम्बन्धमाज्ञाय तद्युक्तं कार्य्यमारभेत्
तस्माद्राजा प्रयुञ्जीत चरान् बहुमुखान् बहून् ।नीरेतोवामनाः कुब्जास्तद्बिधा ये कारवः
भिक्षुक्यश्चारणा दास्यो मालाकार्य्यः कलाविदः ।अन्तःपुरगतां वार्त्तां निर्हरेयुरलक्षिताम्
प्रकाशश्चाप्रकाशश्च चरस्तु द्विविधो मतः ।अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः
”इति भोजराजकृतयुक्तिकल्पतरुः
*
अक्षद्यूतभेदः भौमः चलः इति मेदिनी ।रे, ३०
खञ्जनपक्षी इति शब्दमाला
कपर्द्दकः इति राजनिर्घण्टः
मेषकर्कटतुला-मकरलग्नानि इति ज्योतिषम्
अस्थिर-विभूतिमित्रं चलमटनं स्खलितनियममपि चरभे ।इति दीपिका
(यथा, तिथितत्त्वे ।“चरलग्ने चरांशे वा स्थापनञ्च विसर्ज्जनम्
”जङ्गमे, त्रि यथा मनुः १५ ।“तस्य सर्व्वाणि भूतानि स्थावराणि चराणिच
”तथाच चरके सूत्रस्थाने २७ अध्याये ।“चरः शरीरावयवाः स्वभावो धातवः क्रिया ।लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते
चरोऽनूपजलाकाशधन्वाद्यो भक्षसंविधिः ।जलजानूपजाश्चैव जलानूपचराश्च ये
गुरुभक्ष्याश्च ये सत्त्वाः सर्व्वेते गुरवः स्मृताः
”)