| YouTube Channel

चम्पकचतुर्द्दशी (campakacaturddazI)

 
शब्दकल्पद्रुमः
Sanskrit
चम्पकचतुर्द्दशी,
स्त्री,
(चम्पकसाध्या चतुर्द्दशी ।अस्यां चम्पकैः शिवपूजनात् शिवलोकप्राप्ते-स्तथात्वम् ।) ज्यैष्ठशुक्लचतुर्द्दशी यथा, ज्यैष्ठ-मासमुपक्रम्य मत्स्यसूक्ते ४५ पटले ।“चतुर्द्दश्याञ्च शुक्लायां चम्पकैः पूजयेत् शिवम् ।अयुतैर्वा सहस्रैर्वा शतैर्व्वा परमेश्वरि !
पायसञ्च बलिं दद्यात् ततो नक्तं चरेद्व्रती ।वृषस्थेन विशेषेण भूयो जायते भुवि
त्रिमध्वक्तैश्चम्पकैश्च सहस्रं जुहुयान्निशि ।क्षयषष्टिज्वरान् हन्ति कृत्वा द्रोहाणि यानि
चम्पकचतुर्द्दशी ख्याता पूजयेद्वा सदाशिवम् ।दशजन्मकृतं पापमर्च्चनादेव नश्यति
”अन्यच्च ।“चतुर्द्दश्याञ्चशुक्लायां ज्यैष्ठे मासि महेश्वरम् ।चम्पकैः पूजयेत् भक्त्या शिवलोकमवाप्नुयात्
”इत्युत्तरकामाख्यातन्त्रे ११ पटलः
अपि ।“ज्यैष्ठशुक्तचतुर्द्दश्यां पुष्पैश्चम्पकसम्भवैः ।अर्च्चयित्वा महादेवं रुद्रलोके महीयते
”इति संवत्सरकौमुदीधृतब्रह्मपुराणवचनम्
वाचस्पत्यम्
Sanskrit
चम्पकचतुर्द्दशी स्त्री ज्यैष्ठशुक्लचतुर्द्दश्याम् ज्यैष्ठमासेइत्युपक्रमे “चतुर्द्दश्यां शुक्लायां चम्पकैः पूजयेत् शि-वम् अयुतैर्वा सहस्रैर्बा शतैर्वा परमेश्वरि! पायसञ्चबलिं दद्यात् ततो नक्तं चरेद्व्रती वृषस्थेऽर्के विशेषेणन भूयो जायते भुवि त्रिमध्वक्तैश्चम्पकैश्च सहस्रंजुहुयान्निशि क्षयपष्टिं ज्वरान् हन्ति कृत्वा द्रोहाणियानि चम्पकचतुर्द्दशि ख्याता पूजयेद्वै सदाशिवम् ।दशजन्मकृतं पापमर्च्चनादेव नश्यति” मत्स्यसू० ४५ प०