| YouTube Channel

चमु (camu)

 
Shabdartha Kaustubha
Kannada
चमु - अदने (भ्वा० पर० सक० से०) चमति
पदविभागः - > धातुः
कन्नडार्थः - > ಹೀರಿ ಕುಡಿ /ನಾಲಗೆಯಿಂದ ಎಳೆದು ಕುಡಿ
प्रयोगाः - > "तरङ्गावलीनिर्मुक्तेऽमृतसागराम्भसि मनाङ्मग्नोऽपि नाचामति"
उल्लेखाः - > प्रबोध० ४-६
चमु - अदने (भ्वा० पर० सक० से०) चमति
पदविभागः - > धातुः
कन्नडार्थः - > ತಿನ್ನು
प्रयोगाः - > "घ्वजानुद्दुधुवुस्तुङ्गान् मांसं चेमुर्जगुः पपुः"
उल्लेखाः - > भट्टि० १४-५३
Edgerton Buddhist Hybrid
English
camu, camū,
(1) as in Skt., host, army, but with masc. ending (otherwise only fem.): mārasya jetuṃ camūn LV 〔276.6〕 (end of stanza
no v.l.)
(2) f., coffin (rare in Skt., only early, see BR s.v. camū 2, and Kauś 〔48.4〕): (so mṛtako puruṣo …) camusmiṃ prakṣipitvā subaddhaṃ kṛtvā Mv 〔ii.173.6〕
etāṃ camuṃ 〔173.12〕
camuṃ 〔173.13, 14〕
〔174.4, 9〕.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चम्
मूलधातुः:
चमु
धात्वर्थः:
भक्षणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चमति
अनुबन्धादिविशेषः:
उदित्
धातुः:
चम्
मूलधातुः:
चमु
धात्वर्थः:
भक्षणे
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चम्नोति
अनुबन्धादिविशेषः:
छान्दसः
धातुप्रदीपः
Sanskrit
चमुँ चमु
मानकरूपान्तरम् - छमुँ
छमु
मानकरूपान्तरम् - जमुँ
जमु
मानकरूपान्तरम् - झमुँ
झमु अदने
- चमति आचामति आचामयति चमित्वा ।चान्त्वा आचान्तः आचामः छमति जमति संजमनम् झमति जिमिं केचित् पठन्ति जेमति जेमनम् ।468-471 ।।
चमुँ चमु भक्षणे
- चम्नोति 30
क्षीरतरङ्गिणी
Sanskrit
चमुँ चमु
मानकरूपान्तरम् - छमुँ
छमु
मानकरूपान्तरम् - जमुँ
जमु
मानकरूपान्तरम् - झमुँ
झमु अदने
- चमति, विचमति ष्ठिवुक्लम्वाचमां शिति (7375) इति दीर्घः-आचामति कम्यमिचमाम् (1557) इति मित्त्वं नास्ति-आचामयति आसुयुवपि (31123) इति ण्यत्-आचाम्यम् नोदात्तोपदेशस्य मान्तस्यानाचमेः (7334) इति वृद्धिनिषेधाभावः-आचामकः कृषिचमि (उ0 182) इत्यूः-चमूः अव्यविचमि (उ0 3117) इत्यसच् चमसः कृदरादयश्च (उ0 541) इति चमरः उदितो वा (7256) इट्-चान्त्वा चमित्वा आचान्तः, आचामः आच्छमति आच्छामः जमति इदुपधोऽमित्येके-जेमनम् जेमः झमति 457-460
चमुँ चमु भक्षणे
- आचम्नोति भ्वादौ ( 1315 ) आचामति 28
धातुवृत्तिः
Sanskrit
चमुँ चमु
मानकरूपान्तरम् - छमुँ
छमु
मानकरूपान्तरम् - जमुँ
जमु
मानकरूपान्तरम् - झमुँ
झमु (अर्थः) अदने
( चमति चचाम चेमतुः चमितेत्यादि ) आङ्पूर्वत्वे तु"ष्टिवुक्लमुचमां शिति'' इति दीर्घः ( आचामति आचामतु आचामत् आचामिआचामयति ) चिणि ञिति णिति कृति "नोदात्तोपदेश'' इति वृद्धिनिषेधात् ( अचमि चमः चमक) इत्यादि अत्रापि "अनाचमि''इति वचनात् (आचामि आचाम) इति वृद्धिरेव ननु वार्त्तिके"अचमिकमिवमीनाम्''इति केवलस्योपादानात् सर्वत्र वृद्धया भाव्यम् नैतत् यत इदं वार्तिकं धात्वन्तरमपि पर्युदसनीयं केवलं सूत्रोपात्त इत्येवं परम् तथा भाष्ये अध्यगीष्ट अत्यल्पमिदमुच्यते अनाचमेरित'' अत एव न्यासश्चमेस्तावत् अनाचमेरिति सूत्र एवोपादानातृ प्रतिषेध इति तथा वर्द्धमानोपि उपसर्गोपादानात् (अचमि, पर्यचमीति) अपि वृत्तावपि वार्त्तिकस्योदाहरणमाङ्पूर्वमेव दर्शितम् ( चिचमिषति चञ्चम्यते चञ्चन्ति चञ्चान्त ) इत्यामयति) "न कम्यमिचमाम्'' इति मित्त्वनिषेधः चम्तेत्रेति (चमसः) "अत्ममिचमि'' इत्यसन् ( चमूः ) "कृषिचमितनिरमिसर्जिभ्य ऊः'' इतृयूकारप्रत्ययः ( छमति चच्छाम छमितेत्यादि चिच्छमिषति चञ्छम्यते चञ्छमीति चञ्छन्ति चञ्छान्त ) इत्यादि (छमयति) अमन्तत्वान्मित्त्वम् चिण्णमुल्परे णौ "चिण्णमुलोर्दोर्घोन्यतरस्याम्'' इति वा दीर्घः ( अच्छमि अच्छामि, छमंछम् छामछाममिति ) चिवदिटि वृद्धेर्भावाभावाभ्यां, णिलोपे ( छमिष्यते, छामिष्यते ) इत्यादि शुद्धे पुनरिटि गुणाययोः (छमयिष्यत)इत्यादि णिचोभावे चिणि ञिति णिति कृति "नोदात्तोपदेशस्य'' इति वृद्धिनिषेधात् (अच्छमि) इत्यादिरेव भवति ( जमति जजाम जेमतुः जमिता प्तमति जज्ञाम ज्ञमिता) इतृयादि पूर्ववत् अत्र मैत्रेयः जिमिं केचिदिच्दन्ति, ( जेमनमिति) एषामुदित्त्वात्क्कायामिड्विकल्पे (चमित्वा चान्त्वेत्यादि भवति ) निष्ठायां "यस्य विभाषा'' इत्यनिट्त्वात् (चान्त ) इत्यादि अनिटि "अनुनासिकस्य क्किज्ञलोः क्ङिति''ति दीर्घः 468
चमुँ चमु (अर्थः) भक्षणे
( चम्नोति ) इत्यादि 28
कृदन्तरूपमाला
Sanskrit
1 {@“चमु अदने”@} 2 3 आचामकः-चमकः-विचमकः-मिका, 4 चामकः-विचामकः-मिका, चिचमिषकः-षिका, 5 चञ्चमकः-चंचमकः-मिका
चमिता-त्री, चामयिता-त्री, चिचमिषिता-त्री, चञ्चमिता-त्री
6 चमन्-विचमन्- 7 आचामन्-न्ती, 8 चामयन्-न्ती, चिचमिषन्-न्ती
-- चमिष्यन्-न्ती-ती, चामयिष्यन्-न्ती-ती, चिचमिषिष्यन्-न्ती-ती
-- -- चञ्चम्यमानः, चञ्चमिष्यमाणः
9 आचान्-आचामौ-आचामः
-- -- 10 आचान्तम् 11 -आचान्तः-आचान्तवान्, चामितः, चिचमिषितः, चञ्चमितः-तवान्
चमः, 12 आचामी, चामः, चिचमिषुः, चञ्चमः
चमितव्यम्, चामयितव्यम्, चिचमिषितव्यम्, चञ्चमितव्यम्
चमनीयम्, चामनीयम्, चिचमिषणीयम्, चञ्चमनीयम्
13 आचाम्यम्, 14 विचम्यम्-चम्यम्, चाम्यम्, चिचमिष्यम्, चञ्चम्यम्
ईषच्चमः-दुश्चमः-सुचमः
-- -- चम्यमानः, चाम्यमानः, चिचमिष्यमाणः, चञ्चम्यमानः
आचामः-विचमः-सुचमः, चामः, चिचमिषः, चञ्चमः
15 चमितुम्, चामयितुम्, चिचमिषितुम्, चञ्चमितुम्
16 चान्तिः, चामना, चिचमिषा, चञ्चमा
आचमनम्, चामनम्, चिचमिषणम्, चञ्चमनम्
17 चमित्वा-चान्त्वा, चामयित्वा, चिचमिषित्वा, चञ्चमित्वा
आचम्य, आचाम्य, आचिचमिष्य, आचश्चम्य
चम२, आचामम् २, चमित्वा २, चान्त्वा, चामम् २, चामयित्वा २, चिचमिषम् २, चचिमिषित्वा २, चञ्चमम्
चञ्चमित्वा
18 इति ऊप्रत्ययः।
चमूः = सेना।]] चमूः, 19 20 इत्यटन् प्रत्ययः।
चमतीति चमटः = घस्मरः।]] चमटः, 21 इत्यादिना असच् प्रत्ययः।
चमति अस्मिन् इति चमसः = यज्ञीयपात्रविशेषः।]] चमसः।
प्रासङ्गिक्यः
01
=>
(५००)
02
=>
(१-भ्वादिः-४६९। सक। सेट्। पर।)
03
=>
[[१। ‘अत उपधायाः’ (७-२-११६) इति प्राप्तायाः वृद्धेः, ‘नोदात्तोपदेशस्य मान्तस्या- नाचमेः’ (७-३-३४) इति निषेधो
\n\n ‘अनाचमेः’ इति पर्युदासात्। अन्यत्र निषेधो भवत्येव। एवं घञि, णमुलि ज्ञेयम्।]]
04
=>
[[२। अमन्तत्वेन प्राप्तस्य मित्त्वस्य, ‘न कम्यमिचमाम्’ (गणसूत्रं भ्वादौ) इति निषेधात्, उपधाह्रस्वो न। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[३। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति अभ्यासस्य नुगागमः। यलोपाल्लोपौ। ‘स पदान्तबद् वाच्यः’ (वा। ७-४-८५) इति वचनात् ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णविकल्पः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[पृष्ठम्०४८२+ २८]
07
=>
[[१। ‘ष्ठिवुक्लमुचमां शिति’ (७-३-७५) इत्यत्र, ‘आङि चम इति वक्तव्यम्’ (वा। ७-३-७५) इति वचनात् आङुपसृष्टे शतरि दीर्घः। अन्योपसृष्टस्य, शुद्धस्य धातोर्दीर्घो न।]]
08
=>
[[२। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति ण्यन्तात् परस्मैपदमेव।]]
09
=>
[[३। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-५१) इत्यनेनः दीर्घे, ‘मो नो धातोः’ (८-२-६४) इति पदान्ते नकारः।]]
10
=>
[[४। उदित्त्वेन क्त्वायां विकल्पितेट्कत्वात्, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठा- यामिण्णिषेधः। ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे, ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनुस्वारे, ‘अनुस्वारस्य ययि--’ (८-४-५८) इति परसवर्णे रूपम्। ‘क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणे, कर्तरि, भावकर्मणोश्च क्तप्रत्ययः यथासम्भवं भवति।]]
11
=>
[[आ। ‘चान्तामिषश्छान्तजलः फलावलीं जान्त्वा झमञ्जमनमक्रमीद् गुहाम्।।’ धा। का। १। ६०।]]
12
=>
[[५। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
13
=>
[[६। ‘आसुयुवपिरपित्रपिचमश्च’ (३-१-१२६) इति ण्यत्। ‘पोरदुपधात्’ (३-१-९८) इति प्राप्तस्य यतोऽपवादः। ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः। ‘विचम्यम्-चम्यम्’ इत्यत्र, ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिनिषेधः।]]
14
=>
[[B। ‘आचाम्यं सन्ध्ययोः कच्चित् सम्यक् ते प्रहीयते। कच्चिदग्निमिवानाय्यं काले सम्मन्यसेऽतिथिम्।।’ भ। का। ६-६६।]]
15
=>
[पृष्ठम्०४८३+ २५]
16
=>
[[१। ‘तितुत्रतथ--’ (७-२-९) इतीण्णिषेधे, दीर्घे, अनुस्वारे, परसवर्णे रूपम्।]]
17
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे दीर्घानु- स्वारपरसवर्णा बोध्याः।]]
18
=>
[[३। ‘कृषिचमितनि--’ [द। उ। १-१६४]
19
=>
[[आ। ‘अथ भूतानि वार्त्रध्नशरेभ्यस्तत्र तत्रसुः। मेजे दिशः परित्यक्तमहेष्वासा सा चमूः।।’ किरातार्जुनीये-१५-१।]]
20
=>
[[४। ‘शकादिभ्योऽटन्’ [द। उ। ५-२]
21
=>
[[५। ‘अत्यविचमि--’ [द। उ। ९-४४]
1 {@“चमु भक्षणे”@} 2 छान्दसः।
चमकः-आचामकः-मिका, चामकः-मिका, चिचमिषकः-षिका, चञ्चमकः-चञ्चमकः-मिका
अित्यादीनि सर्वाण्यपि रूपाणि भौवादिकभक्षणार्थकचमुधातुवत् 3 बोध्यानि।
4 चम्नुवन्-चम्नुवती, इति शतरि परं विशेषः।
5 मखचमी 6।
7
प्रासङ्गिक्यः
01
=>
(५०१)
02
=>
(५-स्वादिः-१२७४। सक। सेट्। पर।)
03
=>
(५००)
04
=>
[[६। ‘स्वादिभ्यः श्नुः’ (३-१-७३) इति श्नुः विकरणप्रत्ययः। संयोगपूर्वकत्वात्, ‘अचि श्नुधातुभ्रुवाम् --’ (६-४-७७) इत्युवङादेशः। अस्य धातोः छान्दसत्वात् ‘छन्दसि दृष्टनिविधिः’ इति न्यायोऽनुसन्धेयः।]]
05
=>
[[७। मखं चम्नोतीति मखचमी। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः। ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिप्रतिषेधः।]]
06
=>
[[B। ‘क्ष्मां दध्नुवन् मखचमिव्यसनानि रिण्वन् ऋक्षिण्वतां चिरयणैरपथं जिरिण्वन्।’ धा। का। २-७१।]]
07
=>
[पृष्ठम्०४८४+ २७]