| YouTube Channel

चम (cama)

 
शब्दसागरः
English
चम (उ) चमु r. 1st and 5th cls. (चमति, चम्नोति) To eat, to drink, to take
any thing into the mouth, as food, whether solid or liquid. With
आङ् prefixed, (आचामति) To sip as water. With वि, (विचमति) To eat.
भ्वा-प-सक-सेट् स्वादि वा.
Wilson
English
चम (उ) चमु r. 1st and 5th cls. (चमति चम्नोति) To eat, to
drink, to take any thing into the mouth, as food, whether solid or liquid.
With आङ् prefixed, (आचामति) To sip as water.
With वि, (विचमति) To eat.
Apte
English
चमः [camḥ], A Chamaka sūkta
(P.
V.*
2.4, Vārtt.2).
Monier Williams Cologne
English
चम
m.
pl.
=
चमक-सूक्त,
Pāṇ.
v, 2, 4,
Vārtt.
2,
Pat.
शब्दकल्पद्रुमः
Sanskrit
चम, भक्षे इति कविकल्पद्रुमः
(भ्वां-उभं-सकं-सेट् उदित्वात् क्त्रावेट् ।) चमति उ, चमित्वा चान्त्वा इति दुर्गादासः
चम, भक्षे इति कविकल्पद्रुमः
(स्वां-परं-सकं-सेट् उदित्वात्क्त्रावेट् ।) न, चम्नोति ।र वैदिकः उ, चमित्वा चान्त्वा इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
चम अदने
भ्वा०
प०
सक०
सेट् चमति आचामति वि-चमति आचमीत् चचाम चेमतुः उदित् चमित्वाचान्त्वा आचान्तः आचमनम् आचमनीयम् “आ-चान्तः पुनराचामेत्” स्मृतिः “मनाग् मग्नोऽपिनाचामसि” प्रवोधच० “चचाम मधु माध्वीकम्”भट्टिः णिचि चामयति “इमां किमाचामयसे नचक्षुषी” नैष०
चम भक्षे स्वादि० वैदिकः प०
सक०
सेट् चम्नोति उदित्चमित्वा चान्त्वा कविकल्पद्रुमे “कुस्मित्यां गमॢ गत्यांचम् न्रचम् जम् जिमु झम” इति वाक्ये “परोऽनुबन्धःपूर्व्वेषाम्” इति तत्रोक्तेः सर्व्वेषामुदित्त्वं तेन शब्द-कल्पद्रुमे स्वादिगणीयस्य उदित्त्वानुक्तिः प्रामादिकी
कृदन्तरूपमाला
Sanskrit
1 {@“चमु अदने”@} 2 3 आचामकः-चमकः-विचमकः-मिका, 4 चामकः-विचामकः-मिका, चिचमिषकः-षिका, 5 चञ्चमकः-चंचमकः-मिका
चमिता-त्री, चामयिता-त्री, चिचमिषिता-त्री, चञ्चमिता-त्री
6 चमन्-विचमन्- 7 आचामन्-न्ती, 8 चामयन्-न्ती, चिचमिषन्-न्ती
-- चमिष्यन्-न्ती-ती, चामयिष्यन्-न्ती-ती, चिचमिषिष्यन्-न्ती-ती
-- -- चञ्चम्यमानः, चञ्चमिष्यमाणः
9 आचान्-आचामौ-आचामः
-- -- 10 आचान्तम् 11 -आचान्तः-आचान्तवान्, चामितः, चिचमिषितः, चञ्चमितः-तवान्
चमः, 12 आचामी, चामः, चिचमिषुः, चञ्चमः
चमितव्यम्, चामयितव्यम्, चिचमिषितव्यम्, चञ्चमितव्यम्
चमनीयम्, चामनीयम्, चिचमिषणीयम्, चञ्चमनीयम्
13 आचाम्यम्, 14 विचम्यम्-चम्यम्, चाम्यम्, चिचमिष्यम्, चञ्चम्यम्
ईषच्चमः-दुश्चमः-सुचमः
-- -- चम्यमानः, चाम्यमानः, चिचमिष्यमाणः, चञ्चम्यमानः
आचामः-विचमः-सुचमः, चामः, चिचमिषः, चञ्चमः
15 चमितुम्, चामयितुम्, चिचमिषितुम्, चञ्चमितुम्
16 चान्तिः, चामना, चिचमिषा, चञ्चमा
आचमनम्, चामनम्, चिचमिषणम्, चञ्चमनम्
17 चमित्वा-चान्त्वा, चामयित्वा, चिचमिषित्वा, चञ्चमित्वा
आचम्य, आचाम्य, आचिचमिष्य, आचश्चम्य
चम२, आचामम् २, चमित्वा २, चान्त्वा, चामम् २, चामयित्वा २, चिचमिषम् २, चचिमिषित्वा २, चञ्चमम्
चञ्चमित्वा
18 इति ऊप्रत्ययः।
चमूः = सेना।]] चमूः, 19 20 इत्यटन् प्रत्ययः।
चमतीति चमटः = घस्मरः।]] चमटः, 21 इत्यादिना असच् प्रत्ययः।
चमति अस्मिन् इति चमसः = यज्ञीयपात्रविशेषः।]] चमसः।
प्रासङ्गिक्यः
01
=>
(५००)
02
=>
(१-भ्वादिः-४६९। सक। सेट्। पर।)
03
=>
[[१। ‘अत उपधायाः’ (७-२-११६) इति प्राप्तायाः वृद्धेः, ‘नोदात्तोपदेशस्य मान्तस्या- नाचमेः’ (७-३-३४) इति निषेधो
\n\n ‘अनाचमेः’ इति पर्युदासात्। अन्यत्र निषेधो भवत्येव। एवं घञि, णमुलि ज्ञेयम्।]]
04
=>
[[२। अमन्तत्वेन प्राप्तस्य मित्त्वस्य, ‘न कम्यमिचमाम्’ (गणसूत्रं भ्वादौ) इति निषेधात्, उपधाह्रस्वो न। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[३। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति अभ्यासस्य नुगागमः। यलोपाल्लोपौ। ‘स पदान्तबद् वाच्यः’ (वा। ७-४-८५) इति वचनात् ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णविकल्पः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[पृष्ठम्०४८२+ २८]
07
=>
[[१। ‘ष्ठिवुक्लमुचमां शिति’ (७-३-७५) इत्यत्र, ‘आङि चम इति वक्तव्यम्’ (वा। ७-३-७५) इति वचनात् आङुपसृष्टे शतरि दीर्घः। अन्योपसृष्टस्य, शुद्धस्य धातोर्दीर्घो न।]]
08
=>
[[२। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति ण्यन्तात् परस्मैपदमेव।]]
09
=>
[[३। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-५१) इत्यनेनः दीर्घे, ‘मो नो धातोः’ (८-२-६४) इति पदान्ते नकारः।]]
10
=>
[[४। उदित्त्वेन क्त्वायां विकल्पितेट्कत्वात्, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठा- यामिण्णिषेधः। ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे, ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनुस्वारे, ‘अनुस्वारस्य ययि--’ (८-४-५८) इति परसवर्णे रूपम्। ‘क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणे, कर्तरि, भावकर्मणोश्च क्तप्रत्ययः यथासम्भवं भवति।]]
11
=>
[[आ। ‘चान्तामिषश्छान्तजलः फलावलीं जान्त्वा झमञ्जमनमक्रमीद् गुहाम्।।’ धा। का। १। ६०।]]
12
=>
[[५। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
13
=>
[[६। ‘आसुयुवपिरपित्रपिचमश्च’ (३-१-१२६) इति ण्यत्। ‘पोरदुपधात्’ (३-१-९८) इति प्राप्तस्य यतोऽपवादः। ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः। ‘विचम्यम्-चम्यम्’ इत्यत्र, ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिनिषेधः।]]
14
=>
[[B। ‘आचाम्यं सन्ध्ययोः कच्चित् सम्यक् ते प्रहीयते। कच्चिदग्निमिवानाय्यं काले सम्मन्यसेऽतिथिम्।।’ भ। का। ६-६६।]]
15
=>
[पृष्ठम्०४८३+ २५]
16
=>
[[१। ‘तितुत्रतथ--’ (७-२-९) इतीण्णिषेधे, दीर्घे, अनुस्वारे, परसवर्णे रूपम्।]]
17
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे दीर्घानु- स्वारपरसवर्णा बोध्याः।]]
18
=>
[[३। ‘कृषिचमितनि--’ [द। उ। १-१६४]
19
=>
[[आ। ‘अथ भूतानि वार्त्रध्नशरेभ्यस्तत्र तत्रसुः। मेजे दिशः परित्यक्तमहेष्वासा सा चमूः।।’ किरातार्जुनीये-१५-१।]]
20
=>
[[४। ‘शकादिभ्योऽटन्’ [द। उ। ५-२]
21
=>
[[५। ‘अत्यविचमि--’ [द। उ। ९-४४]