| YouTube Channel

चन्द्रशेखर (candrazekhara)

 
शब्दसागरः
English
चन्द्रशेखर
m.
(-रः)
1. A name of SIVA.
2. The name of a mountain
one
so called is amongst the hills of Aracan.
E.
चन्द्र the moon, and
शेखर a crest
whose crest is the moon. चन्द्रः चन्द्रकला शेखरे अस्य
Capeller Eng
English
चन्द्रशेखर
m.
= चन्द्रचूड
a man's name.
Yates
English
चन्द्र-शेखर (रः) 1.
m.
A name of
Shiva, of a mountain in
Aracan.
Wilson
English
चन्द्रशेखर
m.
(-रः)
1 A name of ŚIVA.
2 The name of a mountain
one so called is amongst the hills of Aracan.
E.
चन्द्र the moon, and शेखर a crest
whose crest is the moon.
Monier Williams Cologne
English
चन्द्र—शेखर
m.
=
-मुकुट,
Hariv.
14838
Kum.
v, 58
N.
of a minister (father of the author of
Sāh.
)
of the author of a Comm. on
Śak.
of the author of the play Madhurā-niruddha
of a prince,
Kathās.
cxxiii, 114
of a mountain (cf. -पर्वत),
W.
Apte Hindi
Hindi
चन्द्रशेखरः
पुं*
चन्द्रः-शेखरः -
शिव के विशेषण
चन्द्रशेखरः
पुं*
चन्द्रः-शेखरः -
शिव के विशेषण
L R Vaidya
English
caMdra-SeKara {% m. %} an epithet of Śiva, रहस्युपालभ्यत चंद्रशेखरः K.S.v.58.
Bopp
Latin
चन्द्रशेखर (BAH. e चन्द्र et शेखर) cognomen Sivi. AM.
Aufrecht Catalogus Catalogorum
English
चन्द्रशेखर See Candracūḍa.
चन्द्रशेखर
Puraścaraṇadīpikā. K. 46.
चन्द्रशेखर under king Bhānudeva, grandson of Nārāyaṇa,
father of Viśvanātha:
Puṣpamālā and Bhāṣārṇava. Quoted in Sāhitya-
darpaṇa p. 18. 19. 128. 174.
चन्द्रशेखर
Smṛtipradīpa. L. 2218.
चन्द्रशेखर son of Lakṣmīnātha Bhaṭṭa:
Chandomanjarījīvana, a C. on Gaṅgādāsa's Chando-
mañjarī. IO. 1289.
Piṅgalabhāvoddyota. W. 1713.
Vṛttamauktika. IO. 2157. B. 3, 62.
चन्द्रशेखर son of Viṣṇu Paṇḍita, grandson of Raṅga-
bhaṭṭa:
Abhijñānaśakuntalaṭīkā. IO. 77.
Saṃdarbhacintāmaṇi, a C. on Śiśupālavādha. IO.
78. 80. L. 3040.
Hanumannāṭakaṭīkā. IO. 237.
चन्द्रशेखर Śiśupālavadhaṭīkā. IO. 78. 80 are changed
to 3222. 3223.
चन्द्रशेखर
Tattvacandrikā vedānta.
चन्द्रशेखर
Tattvasambodhinī mīm.
चन्द्रशेखर composed the Puraścaraṇadīpikā in 1456.
Hpr. 2, 127.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
चन्द्रशेखर °Adj. mondgeschmückt, H 21, 22.
पुराणम्
English
चन्द्रशेखर / CANDRAŚEKHARA. A King (son of pauṣya). The following story about his birth is told in the padma purāṇa.
Though married for a long time pauṣya did not have an issue. He began worshipping śiva to be blessed with a son. śiva was pleased at this and he gave him a fruit which he divided equally among his three wives. In due course the three wives delivered. But, to get the full and complete form of a child the three children had to be joined together, and so the parts were unified. This boy was candraśekhara. Thus candraśekhara acquired the name Tryaṁbaka.
candraśekhara married Tārāvatī, daughter of kakutstha, a King of the solar dynasty. On account of the curse of Kapotamuni two sons, Bhṛṅgi and mahākāla were born to Tārāvatī in vetāla yoni and bhairava yoni respectively. dama, Uparicara and alarka were sons born to candraśekhara himself. (Aurasaputras).
शब्दकल्पद्रुमः
Sanskrit
चन्द्रशेखरः,
पुं,
(चन्द्रः शेखरे मौलौ यस्य यद्वा, चदि आह्लादे + रक् चन्द्रः आह्लादः स्वान-न्दानुभवरूपपरमात्मज्योतिः शेखरे ललाटोर्द्ध्व-भागे यस्य स्वप्रकाशात्मनां शरीरत्रयोपाधि-वर्ज्जितानां योगीन्द्रपुरुषाणामपि ललाटदेशेसत्यज्ञानानन्दामृतसेतोः परब्रह्मणः स्वाभासक-ज्योतिर्मण्डलस्य प्रकाशमानत्वात् अन्येष्वपिचन्द्रशेस्वरत्वमिति चेन्न विश्वगुरोर्महादेवा-दन्यत्र पूर्णतमयोगसिद्धेरप्रसिद्धेः किञ्च महे-श्वरादिशब्दवत् रूढिशक्तितोऽपि सर्व्वयोगीन्द्र-गुरौ भगवति महेश्वरे एव चन्द्रशेखरपदस्यसमन्वर्थतेति पूर्व्वाचार्य्यपादाः
) शिवः इत्य-मरः ३२
(यथा, कुमारे ५८ ।“यदा बुधैः सर्व्वगतस्त्वमुच्यसेन वेत्सि भावस्थमिमं कथं जनम् ।इति स्वहस्तोल्लिखितश्च मुग्धयारहस्युपालभ्यत चन्द्रशेखरः
”चन्द्रयुक्तः शेखरः शृङ्गं यस्य ।) पर्व्वतविशेषः ।यथा, आगमे शिववाक्यम् ।“विशेषतः कलियुगे वसामि चन्द्रशेखरे
”(तथा, महालिङ्गेश्वरतन्त्रे ।“शम्भुनाथश्चन्द्रनाथश्चन्द्रशेखर पर्व्वते
”)चट्टलदेशे महापीठे भैरवविशेषः यथा, --“चट्टले दक्षबाहुर्म्मे भैरवश्चन्द्रशेखरः ।व्यक्तरूपा भगवती भवानी तत्र देवता
विशेषतः कलियुगे वसामि चन्द्रशेखरे
”इति तन्त्रचूडामणौ ५१ पीठनिर्णयः
करवीरपुरराजा पौष्यराजपुत्त्रः यथा, --“अथ काले व्यतीते तु सर्व्वज्ञो वृषभध्वजः ।तद्भाविकर्म्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम्
ब्रह्मणो दक्षिणाङ्गुष्ठाद्दक्षो ब्रह्मसुतोऽभवत् ।अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत्
पूष्णः पुत्त्रोऽभवत् पौष्यः सर्व्वशास्त्रार्थपारगः ।यस्य तुल्यो नृपो भूमौ भूतो भविष्यति
पुत्त्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः ।शेषे वयसि सम्प्राप्ते भार्य्याभिस्तिसृभिः सह
पौष्यः परमया भक्त्या ब्रह्माणं पर्य्यतोषयत् ।तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः
तमुवाच राजानं किमिच्छसि वदस्व मे ।प्रसन्नोऽस्मि नृपश्रेष्ठ ! प्रदास्यामि यथेप्सितम्
यदिष्टं तव जायानां तत्तद्दास्यामि साम्प्रतम्
पौष्य उवाच ।हिरण्यगर्भापुत्त्रोऽहं पुत्त्रार्थी त्वामुपास्महे ।त्वयि प्रसन्ने पुत्त्रो मे भवेल्लक्षणसंयुतः
एतदर्थं सभार्य्योऽहं भक्त्या त्वां समुपस्थितः ।यथा मे जायते पुत्त्रस्तथा कुरु जगत्पते !
पुन्नाम्नो नरकात् पुत्त्रस्त्रायते पितरं प्रसूम् ।अतस्तस्माद्भयं ब्रह्मन् ! त्वं नाशयितुमर्हसि
ब्रह्मोवाच ।शृणु पौष्य ! यथा भावी पुत्त्रस्तव कुलोद्बहः ।तदहं ते वदाम्यद्य भार्य्याभिस्तत् समाचर
इदं फलं गृहाण त्वं मया दत्त्वं नृपोत्तम ! ।अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदा
फलमेतत् समादाय यावत् संवत्सरद्वयम् ।आराधय महादेवं सुप्रसन्नो भविष्यति
यथा संभाषते भर्गः फलमेतत्तथा भवान् ।करिष्यति फलं राजन् ! भार्य्याभिस्तिसृभिः सह
ततस्ते लक्षणोपेतस्तनयः कुलवर्द्धनः ।भविष्यति यः शास्ता चक्रवर्त्ती भविष्यति
इत्युक्त्रा प्रययौ ब्रह्मा राजापि सह भीरुभिः ।हरं यष्टुं समारेभे भक्त्या परमया युतः
निराशी संयताहारः कदाचित् फलभोजनः ।दृशद्वतीनदीतीरे फलं संस्थाप्य चाग्रतः
पुष्पार्घ्यधूपदीपाद्यैर्वृषध्वजमतर्पयत् ।स तु वर्षद्वयेऽतीते महादेवो जगत्पतिः
पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये ।प्रसन्नः प्राह नृपतिं महादेवो हसन्निव
उपासते किमर्थं मां तन्मे वद ददामि ते
पौष्य उवाच ।अपुत्त्रोऽहं पुत्त्रकामः पूजयामि वृषध्वज ! ।यथाहं पुत्त्रवान् वै स्यां वृषध्वज ! तथा कुरु
इति संन्यवदद्राजा भार्य्याभिः सह हर्षितः ।प्रणम्य स्तुतिपूर्व्वेण भक्तिनम्रात्ममानसः
ततः पुत्त्रार्थिनं भूपं प्रसन्नो वृषभध्वजः ।ब्रह्मदत्तफलं हस्ते कृत्वे दं तमुवाच
ईश्वर उवाच ।इदं फलं ब्रह्मदत्तं विभज्य नृपते त्रिधा ।भोजयैताः स्वजायास्त्वं प्रहृष्टः सुस्थमानसः
ततः प्रवृत्ते भवत एतासु ऋतुसङ्गमे ।आधास्यन्ति गर्भांस्तु भार्य्यास्ते युगपन्नृप !
काले प्राप्ते युगपत् प्रसवो योषितां तव ।भविष्यति नृपश्रेष्ठ ! ता एवं त्व करिष्यसि
एकस्या जठरे शीर्षं भार्य्यायास्ते भविष्यति ।अपरस्यास्तथा कुक्षौ मध्यभागो भविष्यति
अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविष्यति ।ततः खण्डत्रयं भूप ! यथास्थानं पृथक् पृथक्
योजयिष्यसि पश्चात्ते पुत्त्र एको भविष्यति ।तस्य शीर्षे चन्द्ररेखा सहजा संभविष्यति
तेनैव नाम्ना ख्यातिं गमिष्यति भूपते ! ।इत्युक्त्वा महादेवस्तासां गर्भान् स्वयं तदा
संस्कर्त्तुं जाह्नवीतोयमात्मनः शिरसो न्यधात् ।ततः फले स्वयं देवः प्रविवेश वृषध्वजः
तत्क्षणात् तत् फलं भूतं त्रिभागं स्वयमेव हि ।पौष्यस्तत् फलमादाय मुदितः सह भार्य्यया
प्रययौ मन्दिरं हृष्टो अनुज्ञाप्य वृषध्वजम् ।ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम्
तत् फलं नृपशार्द्दूल ! गर्भाश्चाप्याहिताः शुभाः ।सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत
खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम् ।तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य ।एकं पिण्डं चकाराशु तत्र पुत्त्रो व्यजायत ।तस्य शीर्षे तदा राजन् सहजेन्दुकला शुभा
विरराज यथा स्वच्छा शरत्काले कला विधोः ।तं सर्व्वलक्षणीपेतं पीनारस्कं सुनासिकम्
सिंहग्रीवं विशालाक्षं दीर्घायतभुजं तदा ।दृष्ट्वा पौष्योऽथ भार्य्याभिस्तिसृभिः सह संमुदम् ।लेभे दरिद्रः सत्कोषं प्राप्येव विपुलं ततः ।तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः
चन्द्रशेखर इत्येवं कान्त्या चन्द्रमसः समः ।ववृधे महाभागः प्रत्यहं चात्यरुग्यतः
कलाभिरिव तेजस्वी शरदीव निशाकरः ।एवं तिसृणामम्बानां गर्भे जातो यतो हरः
अतस्त्र्यम्बकनामाभूत् प्रथितो लोकदेवयोः ।स राजपुत्त्रः कौमारावस्थां प्राप यदा तदा
सर्व्वशास्त्रार्थतत्त्वज्ञो जिष्णोस्तुल्यो बभूव ।बले वीर्य्ये प्रहरणे शास्त्रे शीले तत्समः
नान्योऽभून्नृपशाद्र्दूल ! नो वा भूमौ भविष्यति ।अभिषिच्याथ तं बालं कुमारं बलवत्तरम्
दशपञ्चैकवर्षीयं सर्व्वराजगुणैर्युतम् ।तिसृभिः सह भार्य्याभिर्व्वनं पौष्यो विवेश
वृद्धोचितक्रियां कर्त्तं राजा परमधार्म्मिकः ।गते पितरि राजा वनवासं महाबलः
सर्व्वां क्षितिं वशे चक्रेऽमात्यैः चन्द्रशेखरः ।सार्व्वभौमो नृपो भूत्वा राजभिः परिषेवितः
अमरैरिव देवेन्द्रो विजहार श्रिया युतः ।एवं पौष्यसुतो भूत्वा त्र्यम्बकः प्राप्य निर्वृतिम्
ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे ।दृशद्वतीनदीतीरे राजा भूत्वा मुमोद
”इति कालिकापुराणे ४६ अध्यायः
*
(स्वनामख्यातः पण्डितविशेषः असौ हिसिद्धपुरुषः त्रिवेणीसन्निकर्षस्थवन्द्यपाडाख्यग्रामे१६०० शकस्य प्रारम्भ एव वर्त्तमान आसीत् ।अद्यापि तस्य सिद्धिस्थानं तत्रैव वर्त्तते अयंनानाशास्त्रवेत्ता विशेषतो ज्योतिषशास्त्रेषुलब्धप्रतिष्ठो बभूव एतत्संकलिता बहवोग्रन्था अस्मद्देशेऽद्यापि प्रचरन्ति
*
)षोडशध्रुवकान्तर्गतनवमध्रुवकः तद्विवरणंध्रुवकशब्दे द्रष्टव्यम्
अपि ।“ऊनविंशतिवर्णाङ्घ्रिः सिद्धिदश्चन्द्रशेखरः ।कथितः केन्दुके ताले भवेत् शृङ्गारवीरयोः
”इति सङ्गीतदामोदरः
(वटिकौषधविशेषः ।“सूतो गन्धष्टङ्गणः सोषणः स्या-देतैस्तुल्या शर्करा मत्स्यपित्तैः ।भूयो भूयो भावयेत्तु त्रिवारंवल्लो देयः शृङ्गवेरस्य वारा
सम्यक् तापे वारिभक्तं सतक्रंवृन्ताकाढ्यं पथ्यमेव प्रदिष्टम् ।अङ्गे रोगं हन्ति सामं प्रभावात्पित्ताधिक्ये मूर्द्ध्नि वारिप्रयोगः
”इति उदकमञ्जरीरसः
“अत्रैव शर्करां त्यक्त्वा शिला यदि दीयते ।गुणैः समो भवेदस्य नाम्ना चन्द्रशेखरः
”इति चन्द्रशेखरो रसः
)
वाचस्पत्यम्
Sanskrit
चन्द्रशेखर
पु०
चन्द्रः चन्द्रकला शेखरेऽस्य महादेवेइन्दुभृच्छब्दे ९३५ पृ० दृश्यम् “रहस्युपालभ्यतचन्द्रशेखरः” कुमा० चन्द्रयुक्तः शेखरोऽस्य पर्व्वत-भेदे पौष्यनृपपुत्रे करवीरपुराधीशे नृपभेदेकालिका
पु०
४६ अ० तत्कथा यथा“ततः पुत्रार्थिनं भूर्प प्रसन्नो वृषभध्वजः ब्रह्मदत्तफलंहस्ते कृत्वेदं तमुवाह ईश्वर उवाच इदं फलंव्रह्मदत्तं विभज्य नृपते! त्रिधा भोजयैताः स्वजायास्त्वं प्रहृष्टः सुस्थमानसः ततः प्रवृत्ते भवत एतासुऋतुसङ्गने
आथास्यन्ति गर्भांस्तु भार्य्यास्ते युग-पन्नृप! काले प्राप्ते युगपत् प्रसवो योषितां तव ।भविष्यति नृपश्रेष्ठ! तदेवं त्वं करिष्यसि एकस्याजठरे शीर्षं भार्य्यायास्ते भविष्यति अपरस्यास्तथाकुक्षौ मध्यमागो भविष्यति अधोनाभ्यास्तु यो भागःसोऽपरस्यां भविष्यति ततः खण्डत्रयं भूप! यथास्थानंपृथक पृथक् योजयिष्यसि पश्चात्ते पुत्र एको मवि-ष्यति तस्य शीर्षे चन्द्ररेखा सहजा संभविष्यति ।तेनैव नाम्ना सा ख्यातिं गमिष्यति भूपते! ।” इत्यु-पक्रमे “इत्युक्त्वा महादेवस्तासां गर्भात् खयं तदा ।संस्कर्त्तुं जाह्नवीतोयमात्मनः शिरसो न्यधात् ततःफलेस्वयं देवः प्रविवेश वृषध्वजः तत्क्षणात् तत्फलं भूतंत्रिभाग स्वयमेव पौष्यस्तत्फलमादाय मुदितःसह भार्य्यया प्रययौ मन्दिरं हृष्टोह्यनुज्ञाप्य वृष-ध्वजम् ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् ।तत् फलं नृपशार्द्दूलात् गर्भाश्चाप्याहिताःशुभाः सम्पूर्णेगर्भकाले तु गर्भेभ्यः समजायत खण्डत्रयं पृथक्राजा यथा भर्गेण भाषितम् तच्च खण्डत्रयं पौष्योयथास्थानं नियोज्य चं एकं पिण्डं चकाराशु तत्रपुत्रो व्यजायत तस्य शीर्षे तदा राजन् सहजेन्दुकलाशुभा विरराज यथा स्वच्छा शरत्काले कला विधोः ।तं सर्वलक्षणोपेतं पीनोरस्कं सुनासिकम् सिंह-ग्रीवं विशालाक्षं दीर्घायतभुजं तदा दृष्ट्वा पौष्योऽथ भार्य्याभिस्तिसृभिः सह संमुदम् लेभे दरिद्रःसत्कोषं प्राप्येव विपुलं ततः तस्य ढामाकरोद्राजाब्राह्मणैः स्वैः पुरोहितैः चन्द्रशेखर इत्येवं कान्त्याचन्द्रम सा समः ववृधे महामागः प्रत्यहं चात्य-राच कलाभिरिव तेजस्वी शरदीव निशाकरः ।एवं तिसृणामम्बानां गर्भे जातो यतोहरः अतस्त्र्य-म्बकनामाऽभूत् प्रथितो लोकदेवयोः” इत्युपक्रमे“सर्व्वां क्षितिं वशे चक्रेऽमात्यैः चन्द्रशेखरः ।सार्वभौमो नृपोभूत्वा राजभिः परिषेवितः अमरैरिव देवेन्द्रो विजहार श्रिया युतः एवं पौष्यसुतोभूत्वा त्र्यम्बकः प्राप्य निर्वृतिम् ब्रह्मावर्त्ताह्वये रम्येकरवीराह्वये पुरे दृशद्वतीनदीतीरे राजा भूत्वा मुमोदह” “ऊनविंशतिवर्ण्णाङ्घ्रिः सिद्धिदश्चन्द्रशेखरः कथितःकेन्दुके ताले भवेत् शृङ्गारवीरयोः” संगी० दा० उक्ते४ ध्रुवकभेदे चट्टलदेशस्थमहापीठे तत्रस्थे भैरवभेदे“चट्टले दक्षबाहुर्मे भैरवश्चन्द्रशेखरः व्यक्तरूपा भगवतीभवानी तत्र देवता” “विशेषतः कलियुगे वसामिचन्द्रशेखरे” तन्त्रचूडामणिः
Capeller
German
चन्द्रशेखर
m.
= चन्द्रचूड
Mannsname.