| YouTube Channel

चन्द्रशूरं (candrazUraM)

 
शब्दकल्पद्रुमः
Sanskrit
चन्द्रशूरं,
क्ली,
फलविशेषः हालिम् इति भाषा ।तत्पर्य्यायः चन्द्रिका चर्म्महन्त्री पशुमेहन-कारिका नन्दनी कारवी भद्रा ।अस्य गुणाः हिक्वावातश्लेष्मातिसारिणां हित-त्वम् असृग्वातरोगद्वेषित्वम् बलपुष्टिविव-र्द्धनत्वञ्च इति भावप्रकाशः