| YouTube Channel

चन्द्रवंशः (candravaMzaH)

 
Apte Hindi
Hindi
चन्द्रवंशः
पुं*
चन्द्रः-वंशः -
"राजाओं का चन्द्रवंश, भारत के राजवंशों में दूसरी बड़ी पंक्ति"
Wordnet
Sanskrit
Synonyms:
चन्द्रवंशः, सोमवंशः, शशिकुलम्
noun
क्षत्रियाणां मूलवंशेषु एकः यस्य उत्पत्तिः चन्द्रात् जाता इति मन्यन्ते।
"पाण्डवाः कौरवाश्च चन्द्रवंशे जाताः।"
शब्दकल्पद्रुमः
Sanskrit
चन्द्रवंशः,
पुं,
(चन्द्रस्य वंशः अन्ववायः ।) चन्द्र-सन्तानः यथा ब्रह्मणः पुत्त्रः अत्रिः तस्यपुत्त्रश्चन्द्रः तस्य बुधः तस्य वैवस्वतमनुकन्यायांइलायां भार्य्यायां पुरूरवाः प्रतिष्ठाननगरेइदानीं विठोरसंज्ञे राजचक्रवर्त्ती आसीत् ।तस्योर्व्वश्यां षट् पुत्त्रा आसन्तेषां आयुर्ज्येष्ठः ।तस्य पुत्त्रो नहुषस्तस्य ययातिश्चक्रवर्त्ती तस्यद्वे भार्य्ये वृषपर्व्वणो दानवराजस्य सुताशर्म्मिष्ठा शुक्रस्य कन्या देवयानी देव-यान्यां ययातेर्द्बौ पुत्त्रौ यदुस्तुर्व्वसुश्च शर्म्मि-ष्ठायां त्रयः पुत्त्राः द्रुह्युः अनुः पूरुश्च तत्रयदुप्रभृतयश्चत्वारः पितुराज्ञाहेलनं कृतवन्तःपित्रा शप्ताः ज्येष्ठपुत्त्रं यदुं शशाप तव वंशे-राजचक्रवर्त्ती माभूत् तुर्व्वसुद्रुह्य्वनून् शशापयुष्माकं वंश्या वेदवाह्या म्लेच्छा भविष्यन्ति ।पूरुस्तु पितुराज्ञया दुष्करं कर्म्म कृत्वा पितु-रतिप्रिय आसीत् ययातिः स्वमरणसमयेकनिष्ठपुत्रं पूरुं राजचक्रवर्त्तिनं कृतवान् ।यदवे दक्षिणस्यां दिशि किञ्चिद्राज्यखण्डंदत्तवान् तथा द्रुह्यवे पूर्व्वस्यां दिशि, पश्चि-मायां तुर्व्वसवे, उत्तरस्यां अनवे सर्व्वान् पूरो-रधीनांश्चक्रे यदुरतीवधर्म्मशीलस्तद्वंशे द्वापरयुगस्यान्ते श्रीकृष्णोऽवतीर्णः तच्चरितं सर्व्व-शास्त्रप्रसिद्धम्
(अधुना यदोर्घंश उच्यते ।यदोः पुत्त्रः क्रोष्टा (क्रोष्टु) तस्य वृजिनिवान्तस्य आहिः तस्य उशङ्गुः तस्य चित्ररथःतस्य शशविन्दुः तस्यःपृथुकीर्त्तिः पृथुजयः पृथु-दानः पृथुश्रवा इति चत्वारः पुत्त्राः पृथुश्रवसः तमः तस्य उशनाः तस्य शितायुः तस्यरुक्मकवचः तस्य ज्यामघः तस्य विदर्भः तस्यक्रथः तस्य कुन्तिः तस्य वृष्टिः तस्य निवृत्तिःतस्य दशार्हः तस्य व्योमः तस्य जिमूतः तस्यविकृतिः तस्य भीमरथः तस्य मधुरथः तस्यशकुनिः तस्य करन्तिः तस्य देवमतः तस्यदेवक्षेत्रः तस्य मधुः तस्य कुरुवशः तस्य अनु-रथः तस्य पुरुहोत्रः तस्य अंशुः तस्य सत्यश्रुतःतस्य वृष्णिः देवावृधः अन्धकः महाभुजः इतिचत्वारः पुत्त्राः तेषु वृष्णिज्यष्ठः तस्य सुमित्रःतस्य अनमित्रः तस्य वृष्टिः तस्य चित्रकः तस्यविदूरथः तस्य शूरः तस्य भजमानः तस्य शिनिःतस्य भोजः तस्य राधिकः तस्य देवमीढः तस्यशूरसेनः तस्य वसुदेवः तस्य पुत्त्रो भगवान्श्रीकृष्णः
*
) ययातिपुत्त्रस्य पूरोरतिविस्तीर्णोवंश उच्यते पूरोः पुत्त्रो जनमेजयः तस्यप्रचिन्वान् तस्य प्रवीरः तस्य मनस्युः तस्य चारु-पदः तस्य सुद्युः तस्य बहुगवः तस्य संयातिःतस्य अहंयातिः तस्य रौद्राश्वः तस्य ऋचेयुःतस्य रन्तिनारः तस्य सुमतिः (तंसुः) तस्य रैभ्यः(सुरोधः) तस्य दुष्मन्तश्चक्रवर्त्ती तस्य शकुन्त-लायां भार्य्यायां भरतश्चक्रवर्त्ती आसीत् यस्त्रय-स्त्रिंशच्छतमश्वमेधान् कृतवान् पञ्चाशद्राज-सूयान् एवमन्यान् नानाविधान् यज्ञान् अकरोत्बहूनि धनरत्नादीनि दत्तवान् सप्तविंशतिसहस्र-वत्सरान् एकच्छत्रं राज्यं कृतवान् तस्य पुत्त्रोवितथः तस्य मन्युः तस्य बृहत्क्षेत्रः तस्य हस्तीयेन हस्तिनापुरं निर्म्मितम् तस्य अजमीढःतस्य ऋक्षः तस्य सम्बरणः तस्य सूर्य्यकन्यायांतपत्यां कुरुः तस्य जह्गुः तस्य सुरथः तस्य विदू-रथः तस्य सार्व्वभौमः तस्य जयत्सेनः तस्यराधिकः तस्य अयुतायुः तस्य ऋक्षः तस्यदिलीपः तस्य प्रतीपः तस्य देवापिः शान्तनुःवाह्लीक इति त्रयः पुत्त्राः तत्र देवापिः कलाप-ग्रामे योगी भूत्वा वर्त्तते कलौ चन्द्रवंशे लुप्तेकलेरन्ते पुनः सत्ययुगे चन्द्रवंशं भावयिष्यति
*
तत्र शान्तनू राजा अभवत् चक्रवर्त्ती तस्यगङ्गायां भीष्मः पुत्त्रो जातः परमधर्म्मात्मामहावीरः येन पितुर्दाशकन्याविवाहार्थं पितृ-राज्यं त्यक्तम् यः स्वस्य विवाहं त्यक्त्रा ऊर्द्ध्व-रेता जातः शान्तनोर्दाशकन्यायां द्वौ पुत्त्रौजातौ चित्राङ्गदो विचित्रवीर्य्यश्च सत्यवत्यांकन्याकाले पराशरात् व्यासो जातः पुनर्भुने-र्वरात् व्यासजन्मानन्तरं सा कन्यारूपाभवत् ।चित्राङ्गदो युद्ध्वे गन्धर्व्वेण हतः विचित्रवीर्य्यस्यक्षेत्रे सत्यवत्याज्ञया व्यासः धृतराष्ट्रं पाण्डुञ्चजनयामास धृतराष्ट्रस्यान्धस्य गान्धार्य्यांभार्य्यायां दुर्य्योधनज्येष्ठं पुत्त्रशतं बभूव पाण्डो-र्द्बेभार्य्ये कुन्ती माद्री मृगीभूतस्य मुनेःशापा-न्मैथुनरहितस्य पाण्डोराज्ञया कुन्ती धर्म्माद्-युधिष्ठिरं पवनाद्भीमं इन्द्रादर्ज्जुनं जनयामास ।माद्री अश्विनीकुमाराभ्यां नकुलसहदेवौ जन-यामास युधिष्ठिरस्तु राजसूययाजी अर्ज्जु-नस्य सुभद्रायां भार्य्यायां अभिमन्युस्तस्य उत्त-रायां भार्य्यायां परिक्षित् युधिष्ठिरादनन्तरंकलियुगस्यारम्भे राजासीत् चक्रवर्त्ती तस्यजनमेजयः तस्य शतानीकः तस्य सहसानीकःतस्य अश्वमेधजः तस्य असीमकृष्णः तस्य नेमि-चक्रः हस्तिनानगरे नद्याहृते कौशाम्ब्यांपुर्य्यां राजासीत् तस्य उप्तः तस्य चित्ररथःतस्य शुचिरथः तस्य वृष्टिमान् तस्य सुसेनःतस्य सुनीथः तस्य नृचक्षः तस्य सुखीनलः तस्यपरिप्लवः तस्य सुनयः तस्य मेधावी तस्य नृप-ञ्जयः तस्य दूर्व्वः तस्य तिमिः तस्य बृहद्रथःतस्य सुदासः तस्य शतानीकः तस्य दुर्द्दमनःतस्य महीनरः तस्य दण्डपाणिः तस्य निमिःतस्य क्षेमकः एतत्पर्य्यन्तमस्य वंशस्यशान्तिः एते कलेः सहस्रवर्षपर्य्यन्तं स्थिताः
*
सोमवंशशाखान्तरे मगधवंश्या राजानः कलौबहुकालं स्थिताः अतस्ते वर्ण्यन्ते तत्रयुधिष्ठिरसमकालीनो जरासन्धसुतः सहदेवोमगधेषु राजासीत् तस्य मार्जारिः तस्यश्रुतश्रवाः तस्य अयुतायुः तस्य निरमित्रःतस्य सुनक्षत्रः तस्य बृहत्सेनः तस्य कर्म्म-जित् तस्य श्रुतञ्जयः तस्य विप्रः तस्य शुचिःतस्य क्षेमः तस्य सुव्रतः तस्य धर्म्मसूत्रः तस्यसमः तस्य दृढसेनः तस्य सुमतिः तस्य सुबलःतस्य सुनीथः तस्य सत्यजित् तस्य विश्वजित्तस्य पुरञ्जयः एते राजानः कलेः सहस्रवत्सर-पर्य्यन्तं राज्यं कृतवन्तः
*
ततः पुरञ्जयस्यमन्त्री शुनकः पुरञ्जयं हत्वा तस्य पुत्त्रं प्रद्योतंराजानं कृतवान् तदारभ्य राजानो वर्णसङ्कर-दोषदुष्टा जाताः प्रद्योतपुत्त्रः पालकः तस्यविशाखयूपः तस्य राजकः तस्य नन्दिवर्द्धनः ।एते पञ्च अष्टत्रिंशोत्तरशतवर्षं भूमिपाआसन्
*
नन्दिवर्द्धनस्य पुत्त्रः शिशुनागःतस्य काकवर्णः तस्य क्षेमधर्म्मा तस्य क्षेत्रज्ञःतस्य विधिसारः तस्य अजातशत्रुः तस्य दर्भकःतस्य अजयः तस्य नन्दिवर्द्धनः तस्य महानन्दिःएते दश नृपाः षष्ट्युत्तरशतत्रयं वत्सरान्भूमिपाला आसन्
*
महानन्दिसुतो नन्दःशूद्रायां समुत्पन्नः राजासीत् तस्य सुमाल्याद्याअष्टौ पुत्त्रा आसन् ते शतवत्सरान् राज्यंकृतवन्तः चाणक्यनामा कश्चिद्ब्राह्मणः नन्दंतत्पुत्त्रांश्च हत्वा मौर्य्यं चन्द्रगुप्तं राजानं कृत-वान् कलौ नन्दान्तः क्षत्त्रियवंशः इतिश्रीभागवतं महाभारतञ्च