| YouTube Channel

चन्द्रभाग (candrabhAga)

 
Monier Williams Cologne
English
चन्द्र—भाग
m.
‘N. of a man’, see चान्द्रभागि
of a mountain,
KālP.
Shabdartha Kaustubha
Kannada
चन्द्रभाग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ಪರ್ವತ
व्युत्पत्तिः - > चन्द्रस्य भागोऽत्र
कन्नडार्थः - > ಒಂದು ನದಿ
कन्नडार्थः - > ಹಲಸಿನ ಮರ
शब्दकल्पद्रुमः
Sanskrit
चन्द्रभागः,
पुं,
(भज् + भावे घञ् चन्द्रस्य भागो-विभागो यत्र इति ।) पर्व्वतविशेषः यथा, --ऋषय ऊचुः ।“चन्द्रभागा कथं सिन्धुस्तत्रोत्पन्ना महागिरौ ।कीदृक् सरस्तद्बिप्रेन्द्र ! बृहल्लोहितसंज्ञकम्
कथं पर्व्वतश्रेष्ठश्चन्द्रभागाह्वयोऽभवत् ।चन्द्रभागाह्वया कस्मान्नदी जाता वृषोदका
एतन्नः श्रोष्यमाणानां जायते कौतुकं महत् ।माहात्म्यं चन्द्रभागायाः कासारस्य गिरेस्तदा
मार्कण्डेय उवाच ।श्रूयतां चन्द्रभागाया उत्पत्तिर्द्विजसत्तमाः ।युष्माभिश्चन्द्रभागस्य माहात्म्यं नामकारणम्
हिमवत्गिरिसंसक्तशतयोजनविस्तृतः ।योजनत्रय उच्छ्रायः कुन्देन्दुधवलो गिंरिः
तस्मिन् गिरौ पुरा वेधाश्चन्द्रं शुद्धं सुधानिधिम् ।विभज्य कल्पयामास देवार्थं पितामहः
पित्रर्थञ्च तथा तस्य तिथिवृद्धिक्षयात्मकम् ।कल्पयामास जगतां हिताय कमलासनः
विभक्तश्चन्द्रमा यस्मात् तस्मिन् पर्व्वतसत्तमे ।अतो देवाश्चन्द्रभागं नाम्ना चक्रुः पुरा गिरिम्
”इत्यादि कालिकापुराणे २० अध्यायः
वाचस्पत्यम्
Sanskrit
चन्द्रभाग
पु०
चन्द्रस्य भागोऽत्र पर्व्वतभेदे तत्र जातायां२ नद्यां स्त्री तयोः कथा कालि०
पु०
२० २२ अ० यथा“ऋषय ऊचुः “चन्द्रभागा कथं सिन्धुस्त-त्रोत्पन्ना महागिरौ कीदृक्सरस्तद्विप्रेन्द्र! वृह-ल्लोहितसंज्ञकम् कथं पर्व्वतश्रेष्ठश्चन्द्रभागा-ह्रयोऽभवत् चन्द्रभागाह्वया कस्वान्नदी जातावृषोदका एतन्नः श्रोष्यमाणानां जायते कौतुकंमहत् माहात्म्यं चन्द्रभागायाः कासारस्य गिरे-स्तदा मार्कण्डेय उवाच श्रूयतां चन्द्रभागायाउत्पत्तिर्द्विज सत्तमाः! युष्माभिश्चन्द्रभागस्य महात्म्यनाम कारणम् हिमवद्गिरिसंसक्तशतयोजनवि-स्तृतः योजनत्रिंशतोच्छ्रायः कुन्देन्दुधवलोगिरिः ।तस्मिन् गिरौ पुरा वेधाश्चन्द्रं शुद्धं सुधानिधिम् ।विभज्य कल्पयामास देवार्थं पितामहः ।पित्रथञ्च तथा तस्य तिथिवृद्धिक्षयात्मकम् कल्पयामासजगतां हिताय कमलासनः विभक्तश्चन्द्रमा यस्मात्तस्मित् पर्व्वतसत्तमे अतो देवाश्चन्द्रभागं नाम्ना-चक्रुः पुरा गिरिम्” कालि०
पु०
२० २२ अ० ।“मार्कण्डेय उवाच “यत्र देवसमा भूता सानौ तस्यमहागिरेः तत्र जाता देवनदी सीताख्या वचनाद्विधेः ।स्नाप्रयित्वा यदा चन्द्रं सौतातोयैर्मनोहरैः चन्द्रंघपुर्व्रह्मवाक्यात् सर्व्वे ते त्रिदिवौकसः तदा सीता-जलं चन्द्रस्नानयोगाच्च सामृतम् भूत्वा निपतितंतस्मिन् वृहल्लोहितसंज्ञके तद्विवृद्धं तदा तोयम्तस्मिन् सरसि निर्मलम् तद्ददर्श स्वयं ब्रह्मा विवृद्धंसाधु तज्जलम् तद्दर्शनाज्जलात्तस्मादुत्थिता कन्यको-त्तमा चन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः ।भार्य्यार्थे सागरस्तान्तु जग्राह ब्रह्मसम्मते तत्रैवा-धिष्ठितं तोयं गदाग्रेण निशापतिः निर्भिद्य पश्चिमेपार्श्वे गिरिं तत्तु प्रवाहते तत्सामृतजलं भित्त्वावृहल्लोहितसंज्ञकम् कासारं सागरं जात चन्द्र-भागा नदी तु सा सागरोऽपि तदा भार्य्यां चन्द्र-भागां महानदीम् तेन तोयप्रवाहेण निनाय भवनंस्वकम् एवं तस्मिन् समुत्पन्ना चन्द्रभागाह्वया नदी ।चन्द्रभागे महाशैले गुणैर्गङ्गासमा सदा”