| YouTube Channel

चन्द्रकूटः (candrakUTaH)

 
शब्दकल्पद्रुमः
Sanskrit
चन्द्रकूटः,
पुं,
(चन्द्राख्यः कूटः पर्व्वतः यद्बा, चन्द्रःकूटे शृङ्गे यस्य प्रतिदने चन्द्रप्रदक्षिणकरणा-देवास्य तथात्वम् ।) कामरूपस्थपर्व्वतभेदः ।यथा, --“पूर्व्वं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः ।त्रिकोणस्ताम्रसङ्काशस्तदूर्द्ध्वे चन्द्रमण्डलम्
द्वितीयवर्गस्याद्यन्तु बिन्द्विन्दुभ्यामलङ्कृतम् ।चन्द्रबीजमिति प्रोक्तं तेन चन्द्रं प्रपूजयेत्
अद्यापि प्रतिदर्शे तु पर्व्वतं तं निशापतिः ।प्रदक्षिणीकरोत्येव दशभी रश्मिभिर्युतः
तस्यैव पूर्व्वभागे तु सोमकुण्डाह्वयं सरः ।तत्र स्नात्वा पीत्वा नरः कैवल्यमश्नुते
स्वर्गादषभृतश्चन्द्रः कामाख्यासेवने यदा ।तदा तद्रश्मिसंघातनिःसृतास्तोयराशयः
तैस्तोयैर्व्वासवः कुण्डमकरोदिन्द्रचन्द्रयोः ।मध्ये पुण्यतमस्थाने स्वयं ब्रह्मशिलोपरि
चन्द्ररश्मिसमुद्भूत ! चन्द्रकुण्ड ! महोदधे ! ।सुधास्रवण ! साह्लाद ! त्वं चन्द्र ! कलुषं हर
इत्यनेन तु मन्त्रेण सुस्नाय चन्द्रपाथसि ।चन्द्रकूटं समारुह्य पूजयेद्यस्तु तं नरः
अविच्छिन्ना सन्ततिस्तु सुकान्ता तस्य जायते ।परत्र चन्द्रभवनं भित्त्वा याति परं पदम्
तोरे तु चन्द्रकूटस्य नन्दनो नाम वै गिरिः ।तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः
न्यञ्चभावं समासाद्य सर्व्वदेवेश्वरो हरिः ।सेवितुं त्रिदशेशानीं सततं वर्त्तते नरः
चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः
प्रतिदर्शं तथा चन्द्रः प्रदक्षिणयति त्रिधा
चन्द्रकुण्डजले स्नात्वा समारुह्याथ नन्दनम् ।आराध्य शक्रं लोकेशं महाफलमवाप्नुयात्
”इति कालिकापुराणे कामाख्यारूपनिर्णये८१ अध्यायः