| YouTube Channel

चन्द्रः (candraH)

 
Apte Hindi
Hindi
चन्द्रः
पुं*
- चन्द् - णिच् - रक्
चन्द्रमा
चन्द्रः
पुं*
- -
चन्द्र ग्रह
चन्द्रः
पुं*
- -
कपूर
चन्द्रः
पुं*
- -
मयूर पंखों में ‘आँख’ का चिह्न
चन्द्रः
पुं*
- -
जल
चन्द्रः
पुं*
- -
सोना
चन्द्रः
पुं*
- चन्द्र+णिच्+रक्
"चन्द्रमा, चाँद"
चन्द्रः
पुं*
- चन्द्र+णिच्+रक्
कपूर
चन्द्रः
पुं*
- चन्द्र+णिच्+रक्
मोर की पूँछ का चन्दा
चन्द्रः
पुं*
- चन्द्र+णिच्+रक्
पानी
Wordnet
Sanskrit
Synonyms:
चन्द्रः
noun
चन्द्राकारं चन्द्रसदृशं वा वस्तु।
"रूपकारेण धातुना निर्मितः चन्द्रः भगवतः शिवस्य मूर्ध्नि स्थापितः।"
Synonyms:
चन्द्रः
noun
ग्रहं परितः भ्रममाणः ग्रहसदृशः ज्योतिःपदार्थः।
"गुरुग्रहस्य षोडश चन्द्राः सन्ति।"
Synonyms:
सोमः, चन्द्रः, शशाङ्कः, इन्दुः, मयङ्कः, कलानिधिः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, सोमः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः
noun
देवताविशेषः
"पतितं सोममालोक्य ब्रह्मा लोकपितामहः[श.क]"
Synonyms:
चन्द्रः
noun
चन्द्रस्य तत् अर्धं चिह्नं यत् कस्यापि वर्णस्य उपरि क्रीयते।
"डॉक्टर इति शब्दे डा इत्यस्य वर्णस्य उपरि यत् चिह्नं वर्तते तत् चन्द्रः कथ्यते।"
Synonyms:
सुवर्णम्, स्वर्णम्, कनकम्, हिरण्यम्, हेम, हाटकम्, काञ्चनम्, तपनीयम्, शातकुम्भम्, गाङ्गेयम्, भर्मम्, कर्वरम्, चामीकरम्, जातरूपम्, महारजतम्, रुक्मम्, कार्तस्वरम्, जाम्बुनदम्, अष्टापदम्, शातकौम्भम्, कर्चुरम्, रुग्मम्, भद्रम्, भूरि, पिञ्जरम्, द्रविणम्, गैरिकम्, चाम्पेयम्, भरुः, चन्द्रः, कलधौतम्, अभ्रकम्, अग्निबीजम्, लोहवरम्, उद्धसारुकम्, स्पर्शमणिप्रभवम्, मुख्यधातु, उज्ज्वलम्, कल्याणम्, मनोहरम्, अग्निवीर्यम्, अग्नि, भास्करम्, पिञजानम्, अपिञ्जरम्, तेजः, दीप्तम्, अग्निभम्, दीप्तकम्, मङ्गल्यम्, सौमञ्जकम्, भृङ्गारम्, जाम्बवम्, आग्नेयम्, निष्कम्, अग्निशिखम्
noun
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
"सुवर्णस्य मूल्यं वर्धितम्।"
Synonyms:
कर्पुरः, कर्पुरम्, सिताभ्रः, ताराभ्रः, चन्द्रः, सोमः, सोमसंज्ञम्, घनसारः, हिमबालुका, शीतः, शशाङ्कः, शिला, शीतांशुः, हिमकरः, शीतप्रभः, शाम्भवः, शुभ्रांशुः, स्फटिकाभ्रः, कारमिहिका, चन्द्रार्कः, लोकतुषारः, गौरः, कुमुदः, हनुः, हिमाहूयः, चन्द्रभस्म, वेधकः, रेणुसारकः
noun
सुगन्धिद्रव्यम्।
"अर्चनार्थे सः कर्पुरं ज्वालयति।"
Synonyms:
चन्द्रः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः, हरिः
noun
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
"अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।"
Synonyms:
चन्द्रः
noun
अष्टादशेषु लघुद्वीपेषु एकः
"चन्द्रस्य उल्लेखः कोशे वर्तते"
Synonyms:
चन्द्रः
noun
पुरुषस्य नामविशेषः
"नैकेषां पुरुषाणां नाम चन्द्र इति वर्तते"
Synonyms:
चन्द्रः
noun
गौडब्राह्मणानां एकः पूर्वजः
"चन्द्रस्य उल्लेखः कोशे वर्तते"
Synonyms:
चन्द्रः
noun
एकः राजा
"चन्द्रस्य उल्लेखः पञ्चतन्त्रे वर्तते"
Synonyms:
चन्द्रः
noun
एकः वैयाकरणः
"चन्द्रस्य उल्लेखः राजतरङ्गिण्यां वर्तते"
Synonyms:
चन्द्रः
noun
विश्वगन्धेः पुत्रः
"चन्द्रः युवनाश्वस्य पिता आसीत्"
Synonyms:
चन्द्रः
noun
कृष्णस्य एकः पुत्रः
"चन्द्रस्य उल्लेखः महाभारते वर्तते"
Synonyms:
चन्द्रः
noun
एकः दैत्यः
"चन्द्रः काम्बोजप्रान्तस्य अधिपतिः आसीत्"
वैजयन्तीकोषः
Sanskrit
Word: चन्द्रः
Root: चन्द्र
Gender: पुं
Number: all
अर्थः शशी
Meaning(s):
Moon
Shloka(s):
2|1|24|1 हिमद्युतिः शशी चन्द्रश्चन्द्रमाः शशभृद्विधुः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|24|2 परिज्मा रोहिणीकान्तो निशानाथो निशाकरः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|25|1 पुनर्युवा दशाश्वो ग्लौरिन्दुः कुमुदबान्धवः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|25|2 ओषधीशो निशाकेतुर्मृगलक्ष्माऽत्रिनेत्रजः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|26|1 हृद्यांशुरंशुब्जारिरमृतांशुः कलानिधिः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|26|2 यजतस्तपसः क्लेदुः स्यन्दः स्पन्दो यथासुखः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|27|1 प्राचीनतिलको जर्णो व्याप्वः सृप्रस्तृपिस्तृपत्। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|27|2 उडुराजः शशाङ्कश्च समुद्रनवनीतकम्॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|24|1 हिमद्युतिः (हिमद्युति) (पुं) Moon शशी
2|1|24|1 शशी (शशिन्) (पुं) Moon शशी
2|1|24|1 चन्द्रः (चन्द्र) (पुं) Moon शशी
2|1|24|1 चन्द्रमः (चन्द्रमस्) (पुं) Moon शशी
2|1|24|1 शशभृत् (शशभृत्) (पुं) Moon शशी
2|1|24|1 विधुः (विधु) (पुं) Moon शशी
2|1|24|2 परिज्मा (परिज्मन्) (पुं) Moon शशी
2|1|24|2 रोहिणीकान्तः (रोहिणीकान्त) (पुं) Moon शशी
2|1|24|2 निशानाथः (निशानाथ) (पुं) Moon शशी
2|1|24|2 निशाकरः (निशाकर) (पुं) Moon शशी
2|1|25|1 पुनर्युवा (पुनर्युवन्) (पुं) Moon शशी
2|1|25|1 दशाश्वः (दशाश्व) (पुं) Moon शशी
2|1|25|1 ग्लौः (ग्लौ) (पुं) Moon शशी
2|1|25|1 इन्दुः (इन्दु) (पुं) Moon शशी
2|1|25|1 कुमुदबान्धवः (कुमुदबान्धव) (पुं) Moon शशी
2|1|25|2 ओषधीशः (ओषधीश) (पुं) Moon शशी
2|1|25|2 निशाकेतुः (निशाकेतु) (पुं) Moon शशी
2|1|25|2 मृगलक्ष्मा (मृगलक्ष्मन्) (पुं) Moon शशी
2|1|25|2 अत्रिनेत्रजः (अत्रिनेत्रज) (पुं) Moon शशी
2|1|26|1 हृद्यांशुः (हृद्यांशु) (पुं) Moon शशी
2|1|26|1 अंशुः (अंशु) (पुं) Moon शशी
2|1|26|1 अब्जारिः (अब्जारि) (पुं) Moon शशी
2|1|26|1 अमृतांशुः (अमृतांशु) (पुं) Moon शशी
2|1|26|1 कलानिधिः (कलानिधि) (पुं) Moon शशी
2|1|26|2 जयन्तः (जयन्त) (पुं) Moon शशी
2|1|26|2 तपसः (तपस) (पुं) Moon शशी
2|1|26|2 क्लेदुः (क्लेदु) (पुं) Moon शशी
2|1|26|2 स्यन्दः (स्यन्द) (पुं) Moon शशी
2|1|26|2 स्पन्दः (स्पन्द) (पुं) Moon शशी
2|1|26|2 यथासुखः (यथासुख) (पुं) Moon शशी
2|1|27|1 प्राचीनतिलकः (प्राचीनतिलक) (पुं) Moon शशी
2|1|27|1 जर्णः (जर्ण) (पुं) Moon शशी
2|1|27|1 व्याप्वः (व्याप्व) (पुं) Moon शशी
2|1|27|1 सृप्रः (सृप्र) (पुं) Moon शशी
2|1|27|1 तृपिः (तृपि) (पुं) Moon शशी
2|1|27|1 तृपत् (तृपत्) (पुं) Moon शशी
2|1|27|2 उडुराजः (उडुराज) (पुं) Moon शशी
2|1|27|2 शशाङ्कः (शशाङ्क) (पुं) Moon शशी
2|1|27|2 समुद्रनवनीतकः (समुद्रनवनीतक) (नपुं) Moon शशी
Related word(s):
जातिः ग्रहः
अवयव_अवयवीसंबन्धः संवालः
अन्यसंबन्धाः संवालः
अमरकोशः
Sanskrit
Word: चन्द्रः
Root: चन्द्र
Gender: पुं
Number: all
Meaning(s):
moon
water
camphor
shining
number one
glittering
kind of reddish pearl
eye in a peacock's tail
spot similar to the moon
metre of 4 x 19 syllables
one of the 18 minor dvIpas
having the brilliancy or hue of light
moon of i.e. the most excellent among
lovely or agreeable phenomenon of any kind
Shloka(s):
1|3|13|2 हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः॥ (दिग्वर्गः)
1|3|14|1 विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः। (दिग्वर्गः)
1|3|14|2 अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः॥ (दिग्वर्गः)
1|3|15|1 द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः। (दिग्वर्गः)
3|3|89|2 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥ (नानार्थवर्गः)
3|3|108|2 वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥ (नानार्थवर्गः)
3|3|111|2 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥ (नानार्थवर्गः)
3|3|175|2 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥ (नानार्थवर्गः)
3|3|239|2 व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥ (नानार्थवर्गः)
Synonym(s):
1|3|13|2 हिमांशुः (हिमांशु) (पुं)
1|3|13|2 चन्द्रमः (चन्द्रमस्) (पुं)
1|3|13|2 चन्द्रः (चन्द्र) (पुं) moon, water, camphor, shining, number one, glittering, kind of reddish pearl, eye in a peacock's tail, spot similar to the moon, metre of 4 x 19 syllables, one of the 18 minor dvIpas, having the brilliancy or hue of light, moon of i.e. the most excellent among, lovely or agreeable phenomenon of any kind
1|3|13|2 इन्दुः (इन्दु) (पुं) moon, coin, night, spark, camphor, bright drop, point on a die, time of moonlight, weight of a silver pala, designation of the anusvAra, symbolic expression for the number one, moons i.e. the periodic changes of the moon
1|3|13|2 कुमुदबान्धवः (कुमुदबान्धव) (पुं)
1|3|14|1 विधुः (विधु) (पुं) moon, lonely, solitary, throbbing, palpitation
1|3|14|1 सुधांशुः (सुधांशु) (पुं)
1|3|14|1 शुभ्रांशुः (शुभ्रांशु) (पुं)
1|3|14|1 ओषधीशः (ओषधीश) (पुं)
1|3|14|1 निशापतिः (निशापति) (पुं)
1|3|14|2 अब्जः (अब्ज) (पुं) moon, conch, born in water, son of vizAla, giga- [computer], Indian Oak [Barringtonia acutangula - Bot.]
1|3|14|2 जैवातृकः (जैवातृक) (पुं) son, lean, thin, moon, camphor, peasant, long-lived, medicament, one for whom long life is desired
1|3|14|2 सोमः (सोम) (पुं)
1|3|14|2 ग्लौः (ग्लौ) (पुं) moon, earth, camphor, round lump, wen-like excrescence, lumps or parts of flesh of the sacrificial victim
1|3|14|2 मृगाङकः (मृगाङ्क) (पुं)
1|3|14|2 कलानिधिः (कलानिधि) (पुं)
1|3|15|1 द्विजराजः (द्विजराज) (पुं)
1|3|15|1 शशधरः (शशधर) (पुं)
1|3|15|1 नक्षत्रेशः (नक्षत्रेश) (पुं)
1|3|15|1 क्षपाकरः (क्षपाकर) (पुं)
3|3|89|2 तमोनुत् (तमोनुद्) (पुं) sun, fire, moon, lamp, light, dispersing darkness
3|3|108|2 विरोचनः (विरोचन) (पुं) fire, moon, brightening, illuminating, shining upon, species of karaJja, species of syonAka, sun or the god of the sun
3|3|111|2 राजा (राजन्) (पुं) king, chief, yakSa, prince, kSatriya, guidance, sovereign, government, man of the royal tribe or the military caste
3|3|175|2 हरिः (हरि) (पुं) men, bay, sun, lion, horse, green, tawny, steed, brown, people, yellow, monkey, fallow, bearing, of yama, of ziva, greenish, carrying, of zukra, of a metre, of a demon, of a world, pale yellow, of a mountain, fawn-coloured, reddish brown, name of indra, name of brahmA, name of a dAnava, sign of the zodiac Leo, name of a son of garuDa, name of a son of parAvRt, name of a son of parAjit, name of a son of akampana, name of a son of tArakAkSa, wind or name of god of wind, of a particular high number, of various authors and scholars, yellow or reddish brown or green, name of a worshipper, name of viSNu, particular class of gods under manu tAmasa
3|3|239|2 तमोपहः (तमोपह) (पुं) sun, fire, moon, buddha, removing darkness, removing ignorance
Related word(s):
परा_अपरासंबन्धः ग्रहः
जातिः ग्रहः
अवयव_अवयवीसंबन्धः समाम्शः
गुण-गुणी-भावः नैर्मल्यम्
शब्दकल्पद्रुमः
Sanskrit
चन्द्रः,
पुं,
(चन्दयति आह्लादयति चन्दति दीप्यतेइति वा चन्द + “स्फायितञ्चीति ।” उणां ।२ १३ इति रक् ।) देवताविशेषः चाँदइति भाषा तत्पर्य्यायः हिमांशुः चन्द्रमाः ३इन्दुः कुमुदबान्धवः विधुः सुधांशुः ७शुभ्रांशुः ओषधीशः निशापतिः १० अब्जः ११जैवातृकः १२ सोमः १३ ग्लौः १४ मृगाङ्कः १५कलानिधिः १६ द्विजराजः १७ शशधरः १८नक्षत्रेशः १९ क्षपाकरः २० इत्यमरः ।१ १३ -- १४
दोषाकरः २१ निशीथिनी-नाथः २२ शर्व्वरीशः २३ एणाङ्कः २४ शीत-रश्मिः २५ इति ग्रन्थान्तरम्
समुद्रनवनीतः२६ सारसः २७ श्वेतवाहनः २८ नक्षत्रनेमिः२९ उडुपः ३० सुधासूतिः ३१ तिथिप्रणीः ३२अमतिः ३३ चन्दिरः ३४ चित्राटीरः ३५ पक्ष-धरः ३६ अजः ३७ नभश्चमसः ३८ राजा ३९रोहिणीशः ४० अत्रिनेत्रजः ४१ पक्षजः ४२सिन्धुजन्मा ४३ दशाश्वः ४४ हरचूडामणिः ४५माः ४६ तारापीडः ४७ निशामणिः ४८ इतिजटाधरः
मृगलाञ्छनः ४९ दर्शविपत् ५०छायामृगधरः ५१ ग्रहनेमिः ५२ दाक्षायणी-पतिः ५३ लक्ष्मीसहजः ५४ सुधाकरः ५५सुधाधारः ५६ शीतभानुः ५७ तमोहरः ५८तुषारकिरणः ५९ हरिः ६० हिमद्युतिः ६१द्विजपतिः ६२ विश्वप्सा ६३ अमृतदीधितिः ६४हरिणाङ्कः ६५ रोहिणीपतिः ६६ सिन्धुनन्दनः६७ तमोनुत् ६८ एणतिलकः ६९ कुमुदेशः ७०क्षीरोदनन्दनः ७१ कान्तः ७२ कलावान् ७३यामिनीपतिः ७४ सिप्रः ७५ मृगपिप्लुः ७६सुधानिधिः ७७ तुङ्गी ७८ पक्षजन्मा ७९चन्दः ८० अब्धिनवनीतकः ८१ पीयूषमहाः ८२शीतमरीचिः ८३ शीतलः ८४ इति शब्दरत्ना-वली
त्रिनेत्रचूडामणिः ८५ अत्रिनेत्रभूः ८६सुधाङ्गः ८७ परिज्ञाः ८८ वलक्षगुः ८९ तुङ्गी-पतिः ९० यज्वनाम्पतिः ९१ पर्व्वधिः ९२ क्लेदुः९३ जयन्तः ९४ तपसः ९५ खचमसः ९६ विकसः९७ इति त्रिकाण्डशेषः
दशवाजी ९८ श्वेत-वाजी ९९ अमृतसूः १०० कौमुदीपतिः १०१कुमुदिनीपतिः १०२ भपतिः १०३ दक्षजापतिः१०४ ओषधीपतिः १०५ कलाभृत् १०६ शश-भृत् १०७ एणभृत् १०८ छायाभृत् १०९ अत्रि-दृग्जः ११० निशारत्नम् १११ निशाकरः ११२अमृतः ११३ श्वेतद्युतिः ११४ इति हेमचन्द्रः ।२ १९
*
तस्योत्पत्तिर्यथा, --“ब्रह्मणो मानसः पुत्त्रस्त्वत्रिर्नाम महातपाः ।स्रष्टुकामः प्रजा वत्स ! तपस्तेपे सुदुश्चरम्
त्रीणि वर्षसहस्राणि दिव्यानीतीह नः श्रुतम् ।ऊर्द्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत्
नेत्राभ्यां तस्य सुस्राव दशधा द्योतयद्दिशः ।तं गर्भं ब्रह्मणादिष्टा दश देव्यो दधुर्दिशः
संगत्यैव महाराज ! नैव ताः समशक्नुवन् ।यदा धारणे शक्तास्तस्य गर्भस्य ता दिशः
ततस्ताभिः सहैवासौ निपपात वसुन्धराम् ।पतितं सोममालोक्य ब्रह्मा लोकपितामहः
रथमारोपयामास लोकानां हितकाम्यया ।स तेन रथमुख्येन सागरान्तां वसुन्धराम्
त्रिःसप्तकृत्वो द्रुहिणोऽकारयत्तं प्रदक्षिणम् ।तस्य तत्प्लावितं तेजः पृथिवीमन्वपद्यत
तेनौषध्यः समुद्भूता याभिः सन्धार्य्यते जगत् ।स लब्धतेजा भगवान् ब्रह्मणा वर्द्धितः स्वयम्
”तस्य क्षीणत्वपूर्णत्वयोः कालो यथा, --“कृष्णाष्टमीदिनादूर्द्ध्वं यावच्छुक्लाष्टमीदिनम् ।तावत् कालं शशी क्षीणः पूर्णस्तत्रोपरि स्मृतः
”इत्यग्निपुराणे ज्योतिःशास्त्रम्
तस्य क्षयवृद्धिकारणं यथा, पाद्मे स्वर्गखण्डे ।“अश्विन्याद्यास्तु दक्षस्य उपयेमे सुता विधुः ।रोहिण्यामेव सततं बद्धप्रेमा रराम
दृष्ट्वा तदितरास्ताश्च तप्ताः पितरमब्रुवन् ।अस्माकं कामदस्तात ! जामाता तव रोहिणीम् ।रमयत्येव सततं तेन तप्ता वयं पितः !
तत् श्रुत्वा चाप्रियं दक्षः सोममाह भजस्व भोः ।प्रेम्ना समेन सर्व्वास्त्वं दुहितॄर्म्मम मानद !
जगृहे तद्वचो नैव सोमः सप्रेम रोहिणीम् ।तथैव रमयामास श्रुत्वा दक्षश्चुकोप
शशाप ते भविता ह्यपत्यं मद्वचोऽतिगः ।यक्ष्मणा परिग्रस्तो भव त्वं क्षीणरेतकः
अथक्षयमिते तस्मिन् सर्व्वास्ताः सहिताः स्त्रियः ।पितरं शरणं प्राप्ताः क्षीयते नः पतिः पितः ! ।न वयं तेन वर्त्तामो विना सुखनिराकृताः
उवाच दक्षस्ताः सर्व्वाः शापो मे नान्यथा भवेत् ।मासमध्ये पक्षमेकं वर्द्धतां क्रमेण वै
क्षयं क्रमेण प्राप्नोतु पक्षमेकं व्यवस्थया ।एवं शापं वरञ्चैव ददावस्मै व्यवस्थया
तथैव राजते व्योम्नि क्षयवृद्धी दधद्विधुः
”स गौरवर्णः वायुकोणस्त्रीवैश्यजातिसत्त्वगुण-कर्कटराशिमृगशिरोनक्षत्ररौप्यलवणरसमुक्ता-गैरिकादिधातुसर्पाणामधिपतिः आर्द्रभूमि-चारी तपस्वी अपराह्णकाले प्रबलः श्लेष्मप्रकृतिःस्थूलो युवा शुभग्रहः शुभ्राभश्च इति ताजक-जातकादयः
अर्द्धादूनः शशी पापः इतिसमयामृतम्
*
कर्पूरम् स्वर्णम् (यथा, ऋग्वेदे १४१ १२ ।“उतनः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः
”)जलम् काम्पिल्लः इति मेदिनी रे ३१
द्बीप-विशेषः इति शब्दमाला
विसर्गः इतितन्त्रम्
कमनीयः मेचकः तु वर्हचन्द्रकः ।इति हेमचन्द्रः
रक्तरजतम् तत्तु शोणमुक्ता-फलम् (योगोक्तेडानाडी यथा, हठयोग-प्रदीपिकायाम् ।“बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत्
”“चन्द्रेण चन्द्रनाड्येडया ।” इति तट्टीका
भ्रूमध्य-भागस्थसोममण्डलम् यथा, तत्रैव ४९ ।“चन्द्रात् स्रवति यः सारः स्यादमरवारुणी
”“चन्द्रात्भ्रुवोरन्तर्वामभागस्थात् सोमात् ।”तट्टीका
)आह्लादजनकद्रव्ये त्रि इति भरतधृतव्याडिः