| YouTube Channel

चते (cate)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चत्
मूलधातुः:
चते
धात्वर्थः:
याचने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
चतति-ते
अनुबन्धादिविशेषः:
एदित्
धातुप्रदीपः
Sanskrit
चतेँ चते
मानकरूपान्तरम् - चदेँ
चदे याचने
- चतति चतते अचतीत् चतुरः चातकः चत्वारः चदति चदते अचदत् अचदीत् ।। 868, 869 ।।
क्षीरतरङ्गिणी
Sanskrit
चतेँ चते
मानकरूपान्तरम् - चदेँ
चदे च, याचने
- चकारो भाषार्थं रेट्रर्थः मन्दिवाशि (उ0 138) इत्युरच्-चतुरः चतेरुरन् (उ0 558) चत्वारः चतेर्वरच्- चत्वरम् 836, 837
धातुवृत्तिः
Sanskrit
चतेँ चते
मानकरूपान्तरम् - चदेँ
चदे (अर्थः) याचने
( चचात चेततुः चतिता अचीतीत् ) एदित्त्वान्न्वृद्धिः (चिचतिषति चाचत्यते चाचत्ति चातयति अचीचतत् चतते चेते चिचतिषते ) इत्यादि ( चतित्वा चतितः चत्यम् ) "चतितकिशसि'' इति यत् ( चतुरः ) "मन्दिशि'' इत्यादिनापेरच् चतुरः, अविद्यमाना वा चतुरा यस्य अचतुरः, तस्य भावः ( आचातुर्य्यम्) ब्राह्मणादिपाठात् ष्यञ् "न नञ्पूर्वात् तत्पुरुषात्'' इति निषेधोत्रैव अचतुरेति पर्युदासात् भवति ( चत्वारः ) "चतेरुरम्" इत्युरन् ( सूत्रम्) चतुरनहुहोरामुदात्तः (इति सूत्रम्) इति सर्वनामस्थाने आमागमः तदन्विधेरत्रेष्टत्वात् प्रियचत्वाः (प्रियचत्वारौ)इत्यादावाम् भवति हे (प्रियचत्वः) "अम् सम्बुद्धौ''इत्यमागमः अयं समास एव केवलस्य नितृयबहुववनान्तत्वात् सम्बुद्ध्यभावात् "आमि"इति नुटि चतुर्णाम् अत्रापि तदन्तविधिना(परमचतुरर्णाम्) इत्यात्रापि नुट् भवति "षट्चतुर्भ्यश्च''इति बहुवचनर्दिशात् यत्र संख्यायाः प्राधान्यं तत्रैवायमिति प्रियचतुरामित्यादौ अप्रधानपे नुट् भवति (चतुर्षु) इत्यत्र "रोः सुपि'' इति नियमान्न विसर्जनीयः स्त्रियां "त्रिचतुरोः स्त्रियां तिसृचतसृ'' इति विभक्तौ चतस्त्रादेशे ( सूत्रम्) अविरऋतः (इति सूत्रम्) इति अजादावृकारस्य पूर्वसवर्णदीर्घापवादे रेफे (चतस्त्रः) इत्यादि "ऋन्नेभ्यो ङीप्''स्वस्त्रादिपाठात् "न षट्स्वस्त्रादिभ्यः'' इति निषिध्यते (चतसृणामित्यत्र) [नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन ] इति नुट् आजादिविभक्त्यभावे रेफादेशः नामि दीर्घो"न तिसृचतसृ'' इति प्रतिषेधान्न्भवति चतस्त्रादेशस्तदन्तेपि भवति (परमवतस्त्रः) इत्यादि यत्र बहुव्रीह्मादिना समासस्यान्यलिङ्गत्वं तत्रापि चतुरर्थस्रीत्वाश्रयोयमादेशो भवति प्रियाश्चतस्रे यस्य (प्रियचतसा ब्राह्मणः प्रियचतस्रावित्यादि) सावानाडादेशः आजादौ "अचिर ऋतः'' अयं परत्वात्. पूर्वसवर्णत्वं बाधते "ऋतोङिसर्वनामसथानयोः'' गुणं बाधित्वा पूर्वविप्रतिषेधेन, तेनाजादौ सर्वत्र रेफ एव भवति अत्र "नद्यृतश्च'' इति कप् सन्निपातपरिभाषया भवति कपि हि प्रकृतिविभक्त्योरानन्तर्यं विहन्यते प्रियाश्चत्वारोस्याः (प्रियचत्वा स्री प्रियचत्वारौ) इत्यत्र अङ्गस्य स्त्रीत्वेपि चतुरर्थस्यास्रीत्वात् चतस्त्रादेशो भवति चतुर्णो पूरणः चतुर्थः) "तस्य पूरणे उट्'' इति डटि "षट्कतिकतिपयचतुरां थुक्'' इति थुक्, ( तुर्यः, तुरीयः ) ( सूत्रम्) चतुरश्छयतावाद्यक्ष्ज्ञरलोपश्च (इति सूत्रम्) इति पूरणाथे ठयतौ आद्यक्षरलोपश्चेति चशब्दस्य लोपः तुरीयं भिक्षायाः(तुरीयभिक्षा), चतुर्थंभिक्षायाः(चतुर्थभिक्षा) ( सूत्रम्) द्वितीयातृतीयचथुर्थतुर्याण्यन्तरस्याम् (इति सूत्रम्) इति द्वितीयादीन्येकदेशवाचिना षष्ठ्यन्तेन सह वा समस्यन्ते इति तत्पुरुषः एकदेशिसमासः अन्यदा षष्ठीसमासे (भिक्षातुरीयं, भिक्षाचतुर्थमिति भवति) पूर्वनिपातभेदः (चतुष्टयम्) ( सूत्रम्) संख्याया अवयवे तयप् (इति सूत्रम्) इति अवयवे वर्त्तमानायाः संख्याया अवयविनि तयप् "खरवसानयोः'' इति रेफस्य विसर्जनीये "हस्वात्तादौ तद्धिते'' इति सस्य षत्वं तकारस्य जसि "प्रथमचरमतय'' इति वा सर्वनामत्वात् (चतुष्टये, चतुष्टयाः) स्त्रियां "टिड्णञ्''इत्यादिना ङीप् (चतुष्टयी चतुर्भुङ्क्ते) चतुरो वारान् भुङ्क्त इत्यर्थः ( सूत्रम्) द्वित्रिचतुर्भ्यः सुच् (इति सूत्रम्) इति क्रियाभ्यावृतिऋतगणने कृत्वसुच् "रात्सस्य'' इति सकारलोपः एककर्तृकाणां तुल्यजातीतयानां क्रियाणां जन्मसंख्यानं क्रियाभ्यावृत्तिगणनम् स्वाद्युत्पत्तिः स्वरादिषु सुजितिपाठातृ अव्ययत्वात् सुब्लुक् ( चतुः करोति चतुष्करोति ) ( सूत्रम्) द्वस्त्रिश्चतुरिति कृत्वोर्ये (इति सूत्रम्) इति कृत्वोर्थे वर्तमानानामेषां विसर्जनीयस्य कुष्वोर्वा षत्वम् अन्यदा तु "कुप्वोःकःपौ च'' इति विसर्जनीयजिह्वामूलीयौ ( चतुष्कपालम् चतुष्यात् ) ( सूत्रम्) दुदुपधस्य चाप्रत्ययस्य (इति सूत्रम्) इकारोकारोपधस्य यो विसर्जनीयोऽप्रत्ययसम्बन्धी तस्य कुष्वोः षत्वमिति षत्वम् अविद्यमानानि विशिष्टानि शोभमानापि चत्वारि यस्य सः ( अचतुरः विचतुरः सुचतुरः) "अचतुर'' इत्यादिना बहुव्रीहौ अचि निपात्यन्ते त्र्ययश्चत्वारो वार्थोऽन्यपदार्थः (त्रिचतुराः) वृत्तिस्वाभाव्यात् संदिग्धेस्य वृतिः चतुर्णां समोपे ( उपचतुराः) ( सूत्रम्) संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये (इति सूत्रम्) अव्ययादीनि पूर्वपदानि संक्येयवाचीनि संहृयया समस्यन्त इति बहुव्रीहिः चतुरोच्प्रकरणे [ त्र्युपाभ्यामुपसंख्यानम् ] इत्यच् समासान्तः ( चात्वालः ) यत उत्तरवेद्यर्थाः पांसवो हियते तदुच्यते "स्थाचतिमृजेरालज्वाञालीयवः'' इति यथासंख्यात् वालञ् ( चत्वरम् ) "छित्वरचतृवर'' इति रचि निपात्यते उणादिवृतौ छद अपवारण इत्यस्य निपातनमुक्तम् द्वितीयादिश्च पठ्यते (चदित्र चदते) इत्यादि 851
कृदन्तरूपमाला
Sanskrit
1 {@“चते याचने”@} 2 3 ‘चते चदे याचने’ इति क्षीरस्वामिसम्मतः पाठः।
चकारः ‘परिभाषणे’ इति पूर्वधात्वर्थस्याप्यनुवृत्तिसूचकः।]] 4 चातकः 5 -तिका, चातकः-तिका, चिचतिषकः-षिका, चाचतकः-तिका
चतिता-त्री, चातयिता-त्री, चिचतिषिता-त्री, चाचतिता-त्री
चतन्-न्ती, चातयन्-न्ती, चिचतिषन्-न्ती
-- चतिष्यन्-न्ती-ती, चातयिष्यन्-न्ती-ती, चिचतिषिष्यन्-न्ती-ती
-- चतमानः, चातयमानः, चिचतिषमाणः, चाचत्यमानः
चतिष्यमाणः, चातयिष्यमाणः, चिचतिषिष्यमाणः, चाचतिष्यमाणः
चत्-चद्-चतौ-चतः
-- -- -- चतितम्-तः, चातितः, चिचतिषितः, चाचतितः-तवान्
चतः, चातः, चिचतिषुः, चाचतः
चतितव्यम्, चातयितव्यम्, चिचतिषितव्यम्, चाचतितव्यम्
चतनीयम्, चातनीयम्, चिचतिषणीयम्, चाचतनीयम्
6 चत्यम्, चात्यम्, चिचतिष्यम्, चाचत्यम्
ईषच्चतः-दुश्चतः-सुचतः
-- -- चत्यमानः, चात्यमानः, चिचतिष्यमाणः, चाचत्यमानः
चातः, चातः, चिचतिषः, चाचतः
चतितुम्, चातयितुम्, चिचतिषितुम्, चाचतितुम्
चत्तिः, चातना, चिचतिषा, चाचता
चतनम्, चातनम्, चिचतिषणम्, चाचतनम्
चतित्वा, चातयित्वा, चिचतिषित्वा, चाचतित्वा
प्रचत्य, प्रचात्य, प्रचिचतिष्य, प्रचाचत्य
चातम् २, चतित्वा२, चातम् २, चातयित्वा २, चिचतिषम् २, चिचतिषित्वा २, चाचतम्
चाचतित्वा
7 8 इत्यादिनोरच्प्रत्ययः।
चत्यतेऽसौ जनैरिति चतुरः = प्रभुर्जनः।]] चतुरः, 9 ष्वरच् प्रत्यये रूपम्।
चतन्तेऽस्मिन् भूतानीति चत्वरम् = चतुष्पथम्।
चत्वरी = वेदिः।]] चत्वरम्।
प्रासङ्गिक्यः
01
=>
(४९१)
02
=>
(१-भ्वादिः-८६५। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
[[१। ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः।]]
05
=>
[[आ। ‘रेटत्तटा या खलु चातकैश्च चाद्यं जलं प्रोथति दातुमुर्व्याम्।।’ धा। का। २। २५।]]
06
=>
[[२। ‘तकिशसिचतियतिजनीनामुपसंख्यानम्’ (वा। ३-१-९७) इति यत्।]]
07
=>
[पृष्ठम्०४७५+ ३१]
08
=>
[[१। ‘मन्दिवाशि--’ [द। उ। ८। २१]
09
=>
[[२। औणादिके [द। उ। ८। ४७]