| YouTube Channel

चतुष्पदवैकृत (catuSpadavaikRta)

 
वाचस्पत्यम्
Sanskrit
चतुष्पदवैकृत
न०
त० वृ० स० उक्ते चतुष्पदजन्तुप्रस-वादिविकारे यथा“परयोनावभिगमनं भवति तिरश्चामसाधु धेगूनाम् ।उक्षाणो वान्योऽन्यं पिबन्ति श्वा वा सुरभिपुत्रम् ।प्रासत्रयेण विद्यात् तस्मिन्निःसंशयं परागमनम् ।तत्पतिचातायैतौ श्लोकौ गर्गेण निर्दिष्टौ त्यागोविवासनं दानं तत्तस्याशु शुभं भवेत् तर्पयेद्व्राह्मणांश्चात्र जपहोमांश्च कारयेत् स्थालीपाकेन धातारपशुना पुरोहितः प्राजापत्येन मन्त्रेण यजेद्बहुलदक्षिणम्” ४६ अ०