| YouTube Channel

चतुष्पदः (catuSpadaH)

 
Apte Hindi
Hindi
चतुष्पदः
वि* चतुर्-पद -
चार पैरों वाला
चतुष्पदः
वि* चतुर्-पद -
चार अंगों वाला
चतुष्पदः
पुं*
चतुर्-पदः -
चौपाया
Wordnet
Sanskrit
Synonyms:
भिण्डः, भिण्डा, भिण्डाक्षुपः, भिण्डकः, भिण्डीतकः, भेण्डी, भेण्डीतकः, अस्रपत्रकम्, चतुष्पुण्ड्रा, करपर्णः, क्षेत्रसम्भवः, चतुष्पदः, चतुःपुण्डः, सुशाकः, वृत्तबीजः
noun
क्षुपविशेषः- यस्य बीजगुप्तिः शाकरूपेण खाद्यते।
"आयुर्वेदे भिण्डस्य उष्णत्वं ग्राहित्वं रूचिकरत्वम् इत्येते गुणाः प्रोक्ताः।"
Synonyms:
पशुः, चतुश्चरणः, चतुष्पदः, मलुकः, मोकम्, शरण्डम्, शुद्धजदः
noun
सः प्राणी यः चतुर्भिः चरणैः चलति।
"गौः ग्राम्यः पशुः अस्ति।"
Synonyms:
चतुष्पदः
noun
एकः क्षुपः
"चतुष्पदस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
चतुष्पदः,
पुं,
(चत्वारि पदानि यस्य ।) पशुः ।(यथा, बृहत्संहितायाम् २१ १७ ।“तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः
”)करणविशेषः इति मेदिनी दे ४८
तत्रजातस्य फलं यथा, कोष्ठीप्रदीपे ।“चतुष्पदभवो मर्त्यः सदाचारविवर्जितः ।स्वल्पवित्तः क्षीणदेहश्चतुष्पादधनान्वितः
”“मेषवृषसिंहराशयः मकरपूर्व्वार्द्धंधनुःपरार्द्धञ्च ।”इति दीपिका
(चतुष्पदविशिष्टे त्रि यथा, महाभारते ।१ ९० ११ ।“चतुष्पदं द्विपदञ्चापि सर्व्वमेवं भूता गर्भभूताभवन्ति
”व्याधिनिवारणोपायाः यथा, --“वैद्यो व्याध्युपसृष्टस्तु भेषजं परिचारकः ।एते पादाश्चिकित्सायाः कर्म्मसाधनहेतवः
गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् ।व्याधिमल्पेन कालेन महान्तमपि साधयेत्
वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः ।उद्गातृहोतृब्रह्माणो यथाध्वर्य्युं विनाध्वरे
वैद्यस्तु गुणवानेकस्तारयेदातुरान् सदा ।प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती ।लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ।सत्यधर्म्मपरो यश्च भिषक् पाद उच्यते
आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि ।आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते
प्रशस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम् ।युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम्
दोषघ्नमम्लानिकरमविकारि विपर्य्यये ।समीक्ष्य दत्तं काले भेषजं पाद उच्यते
स्निग्धोऽजुगुप्सुर्ब्बलवान् युक्तो व्याधितरक्षणे ।वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः
”इति सुश्रुते सूत्रस्थाने ३४ अध्याये
)