| YouTube Channel

चतुष्टयं (catuSTayaM)

 
शब्दकल्पद्रुमः
Sanskrit
चतुष्टयं,
क्ली,
केन्द्रम् इति नीलकण्ठीयजातकम्
(चतःसंख्या यथा, कुमारे १३ ।“तस्मात् प्रदेशाच्च वितानवन्तंयुक्तं मणिस्तम्भचतुष्टयेन
”चत्वारोऽवयवा यस्य “संख्याया अवयवेतयप् ।” ४२ इति तयप् ततोरेफस्य विसर्गे सत्वे कृते “ह्रस्वात्तादौतद्धिते ।” १०१ इति षत्वम् ।) चतु-रवयवे त्रि इति मुग्धबोधम्
(यथा, मनुः १३० ।“वधेनापि यदा त्वेतान्निग्रहीतुं शक्नुयात् ।तदैषु सर्व्वमप्येतत् प्रयुञ्जीत चतुष्टयम्
”यथाच, कुमारे १७ ।“प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी
”)