| YouTube Channel

चतुष्कं (catuSkaM)

 
शब्दकल्पद्रुमः
Sanskrit
चतुष्कं,
क्ली,
(चत्वारोऽवयवा यस्य वा कन् ।चतुष्कं चतुरवयवम् यथा, मनुः ५० ।“पानमक्षाः स्त्रियश्चैव मृगया यथाक्रमम् ।एतत् कष्टतमं विद्याच्चतुष्कं कामजे गणे
”गृहविशेषः यथा, कुमारे ५६८ ।“चतुष्कपुष्पप्रकरावकीर्णयोःपरोऽपि को नाम तवानुमन्यते
”)यष्टिभेदः इति शब्दरत्नावली
(पुंसि तु राजविशेषः यथा, राजतरङ्गिण्याम् ।८ २८४९ ।“अथ पांक्तीहरिर्य्योऽभूच्चतुष्कः कोष्टकानुजः
”)