| YouTube Channel

चतुश्चक्र (catuzcakra)

 
Monier Williams Cologne
English
चतुश्—चक्र
m.
N.
of a sacrifice,
Baudh.
i, 13, 30
of a phenomenon in the sky,
MBh.
vii, 199, 19
चतुश्—चक्र
n.
N.
of a mystical diagram, Tantr.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
चतुश्चक्र m. ein best. Opfer, Baudh. 1, 6, 13, 30
eine best. Himmels erscheinung, MBh. 7, 199, 19.
वाचस्पत्यम्
Sanskrit
चतुश्चक्र
न०
रुद्रयामलोक्ते दीक्षाङ्गेमन्त्रशुद्धिज्ञापके चक्रभेदेयथा “चतुश्चक्रम् प्रवक्ष्यामि शृणु पार्वतीवल्लभ वाम-दक्षिणयोगेन रेखापञ्चकमालिस्वेत् पूर्वपश्चिमभेदेन पञ्चरेखाः समालिखेत् पतुष्कोष्ठे दक्षभागे चतुष्कोष्ठे चमन्त्रवित् तदधश्च चतुष्कोष्ठे तद्वामस्थे चतुर्गृह ।प्रलिखेत् क्रमशश्चाद्ये चतुर्मन्दिरमध्यगे स्निग्धञ्चशीतलं जप्नं सिद्धञ्चापि ततः परम् अकारञ्च उकारञ्चऌमोकारं ततः परम् स्निग्धस्थमिति वर्णं शीत-लस्थं शृणु प्रभो! आकारञ्च ऊकारञ्च ऌमौकारंततः परम् तदधोजप्रगेहस्थं वर्णं शृणु महाप्रभो ।इकारञ्च ऋकारञ्च एतमोङ्कारसः परम् सिद्धगेहस्थितंवर्णं शृणु सर्वसुखप्रदम् ईकारञ्च ॠकारञ्च औका-रञ्च ततः परम् दक्षे चतुर्गेहस्थितान् वर्णान् तव वदामितान् आह्लादं चापि प्रत्यायं मुख्यञ्च शुद्धमित्यपि ।एतत्कोष्ठस्थितान् सर्वान् शुभाशुभफलप्रदान् कका-रञ्च खकारञ्च झकारञ्च ञकारकम् आह्लादस्थ-मिति प्रोक्तं प्राप्तिमात्रेण सिद्धिदम् प्रत्यायस्थंगकारञ्च घकारं सचमित्यपि मुस्व्यस्थं हि ङका-रञ्च टकारं डठमित्यपि शुद्धस्थञ्च ढकारञ्च णकारंप्ततमित्यपि तदधःस्थं चतुर्गेहं लौकिकं सन्धिकंतथा मानसिकं राजसिकं चतुर्गेहस्थितं त्विमम् ।लौकिकस्थं थकारञ्च दकारं मकारकम् सात्विकस्थंधकारञ्च नकारञ्च यकारकम् मानसिकस्थं शृणु भोपकारं फकारकम् तद्वामस्थचतुर्गेहं शृणुपञ्चानन! प्रभो! सुप्तं क्षिप्तञ्च लिप्तञ्च दुष्टमन्दं प्रकी-र्त्तितम् एतद्गेहस्थितान् वर्णमात्रान् गृह्णातियोनरः वर्जयित्वा सुप्तमन्त्रं क्षिप्तं लिप्तञ्च दुष्टकम् ।ऐहिके सिद्धिमाप्नोति परे मुक्तिमबाप्नुयात् यद्यभाम्य-वशात् सुप्तादिषु गेहेषु लभ्यते तदा मन्त्रं शोधयेत्वै सुप्तस्तम्भितकीलितैः वर्द्धितैर्दोषजालस्थैरशुभंभूतशुद्धये भूतलिप्या पुटीकृत्य जप्त्वा सिद्धिं ततोलभेत् तु वा वर्जयेत् गेहं चतुष्कं वर्णवेष्टितम् ।सुप्तगेहस्थितं वर्णं शृणुष्व पञ्चकानन बकारञ्चभकारञ्च ततोऽन्यगृहसंस्थितम् शकारञ्च लकारञ्चलिप्तगेहस्थितं द्वयम् षकारञ्च क्षकारञ्च लिप्तगेहस्थितंद्वयस् दुष्टगेह स्थितं नाथ! सकारं गगनं तथा ।निजस्वभावमुक्तं यत्तन्मन्त्रं समुपाश्रयेत्”