| YouTube Channel

चतुर्विंशतिमूर्त्ति (caturviMzatimUrtti)

 
वाचस्पत्यम्
Sanskrit
चतुर्विंशतिमूर्त्ति स्त्री कर्म्म० विष्णोर्हस्तभेदेनचक्रादिविन्यासभेदेन चतुर्विंशतिसंख्यके मूर्त्तिभेदे तन्मूर्त्तिलक्षणं तद्भेदेन विष्णोर्नामभेदाश्च अग्निपु० उक्ताः यथा“ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः नारायणःशङ्खपद्मगदाचक्री प्रदक्षिणम् ततो गदी माधवोऽ-रिशङ्खपद्मी नमामि तम् चक्रकौमोदकीपद्मशङ्खी४ गोविन्द ऊर्जितः मोक्षदः श्रीगदी पद्मी शङ्खीविष्णु श्च चक्रधृक् चक्रशङ्खाब्जगदिनं मधुसूदनमा-नमे भक्त्या त्रिविक्रमः पद्मो गदी शङ्खी चक्य्र-पि शङ्खचक्रगदापद्मी वामनः पातु मां सदा ।मुक्तिदः श्रीधरः पद्मी चक्री गदी शङ्ख्यपि ।हृषीकेशो १० गदाचक्री पद्मी शङ्खी पातु नः वरदःपद्मनाभ ११ स्तु शङ्खाब्जारिगदा धरः दामोदरः १२पद्मशङ्खगदाचक्री नमामि तम् रक्षेद्गदी शङ्ख-चक्री वासुदेवो १३ ऽब्जभृज्जगत् सङ्कर्षणो १४ गदीशङ्खी पद्मी चक्री पातु नः चक्री शङ्खगदीपातु प्रद्युम्नः १५ पद्मभृत् प्रभुः अनिरुद्ध १६ श्चक्रगदीशङ्खी पद्मी पातु नः सुरेशोऽर्य्यब्जशङ्खाढ्यःश्रीगदी पुंरुषोत्तमः १७ अधोक्षजः १८ पद्मगदी चक्रीशङ्खी पातु नः देवो नृसिंह १९ श्चक्राब्जगदा-शङ्खी नमामि तम् अच्युतः २० श्रीगदी पद्मी चक्रीशङ्खी पातु नः बालरूपी शङ्खगदी उपेन्द्र २१श्चक्रपद्म्यपि जनार्द्दनः २२ पद्मचक्री शङ्खधारीगदाधरः शङ्खी चक्री पद्मी हरिः २३ कौमो-दकीधरः कृष्णः २४ शङ्खी गदी पद्मी चक्री मे भुक्ति-मुक्तिदः आदिमूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्षणोऽभवत् ।सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः केशवादिप्रभेदेन एकैकस्य त्रिधा क्रमात् द्वादशाक्षरकं स्तोत्रंचतुर्विंशतिमूर्त्तिमत् यः पठेच्छृणुयाद्द्वापि निर्ललःसर्तमाप्नुयात्” ।चतुर्विंशतिमूर्त्तीनां दक्षहस्तोर्द्ध्वादिष्वस्तन्यासभेदेननामभेदविवृतिः ।मूर्त्तिनाम दक्षोर्द्धे दक्षाधः वामोर्द्ध्वे वामाधः ।१ केशवस्य पद्मम् शङ्खः चक्रम् गदा२ नारायणस्य शङ्खः पद्मम् गदा चक्रम्३ माधवस्य गदा चक्रम् शङ्खः पद्मम्४ गोविन्दस्य चक्रम् गदा पद्मम् शङ्खः५ विष्णोः गदा पद्मम् शङ्खः चक्रम्६ मधुसूदनस्य चक्रम् शङ्खः पद्मम् गदा७ त्रिविक्रमस्य पद्मम् गदा शङ्खः चक्रम्८ वामनस्य शङ्खः चक्रम् गदा पद्मम्९ श्रीधरस्य पद्मम् चक्रम् गदा शङ्खः१० हृषीकेशस्य गदा चक्रम् प्रद्यम् शङ्खः११ पद्मनाभस्य शङ्खः पद्मम् चक्रम् गदा१२ दामोदरस्य पद्मम् शङ्खः गदा चक्रम्१३ वासुदेवस् गदा शङ्खः चक्रम् पद्मम्१४ सङ्कर्षणस्य गदा शङ्खः पद्मम् चक्रम्१५ प्रद्युम्रस्य चक्रम् शङ्खः गदा पद्मम्१६ अनिरुद्धस्य चक्रम् गदा शङ्खः पद्मम्१७ पुरुषोत्तमस्य चक्रम् पद्मम् शङ्खः गदा१८ अधोक्षजस्य पद्मम् गदा चक्रम् शङ्खः१९ नृसिंहस्य चक्रम् पद्मम् गदा शङ्खः२० अच्युतस्य गदा पद्मम् चक्रम् शङ्खः२१ उपेन्द्रस्य शङ्खः गदा चक्रम् पद्मम्२२ जनार्हनस्य पद्मम् चक्रम् शङ्खः गदा२३ हरेः शङ्खः चक्रम् पद्मम् गदा२४ कृष्णस्य शङ्कः गदा पद्मम् चक्रम्हेमाद्रिव्र० ख० मुद्रितपुस्तके ११४ पृ० चतुर्विंशतिमूर्त्ती-नां ध्यानवाक्यत्वेन यन्मुद्रितं तत्र केशवमूर्त्तिं विहायवयोर्विंशतिमूर्त्तीनां ध्यानानि सन्ति तत्र चरमे विष्णु-र्बिभर्त्ति यः” इत्यत्र “कृष्णोबिभर्त्ति य” इत्येव भवितु-मुचितम् विष्णोः पूर्व्वमुक्तत्वात् कृष्णस्यानुक्तत्वात् ।तथा वासुदेवादीनां त्रयोविंशतिमूर्त्तीनामेव मूर्त्ति-ज्ञापकाः सार्द्धैकादशश्लोकाः सन्ति केशवमूर्त्तिज्ञापक-मर्द्धपद्यं पतितम् तच्च संस्कर्त्तुः प्रमादवशात्एवं मूर्त्तिभेदलक्षणैक्यमपि इति सुधीभिश्चित्यम् ।चतुर्षु हस्तेषु चतुरस्त्रविन्यासभेदाच्चतुर्विंशतिसंख्यकाएवमूर्त्तिभेदा भवन्ति “स्थानान्तमेकादिचथाङ्कघातःसंख्याविभेदाः” लीला० उक्तदिशा २४ संख्याइति तद्वृत्तौ उक्तम्