| YouTube Channel

चतुर्म्मुखः (caturmmukhaH)

 
शब्दकल्पद्रुमः
Sanskrit
चतुर्म्मुखः,
पुं,
(चत्वारि मुखानि अस्य यद्वाचत्वारो वेदाश्चत्वारि मुखानीवास्य ।) ब्रह्मा ।इति शब्दरत्नावली
(यथा, रधुः १० २२ ।“चतुर्व्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ।चतुर्वर्णमयो लोकस्त्वत्तः सर्व्वं चतुर्म्मुखात्
”“सर्व्वं चतुर्म्मुखात् चतुर्म्मुखरूपिणस्त्वत्तः जात-मिति शेषः ।” इति तट्टीकायां मल्लिनाथः
शिवः यथा, महाभारते १३ १७ ७६ ।“चतुर्म्मुखो महालिङ्गश्चारुलिङ्गस्तथैव
”)औषधविशेषः यथा, --“रसगन्धकलौहाभ्रं समं सूताङ्घ्रि हेम ।सर्व्वं खल्लतले क्षिप्त्वा कन्यारसविमर्द्दितम्
एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् ।संस्थाप्य तत उद्धुत्य सर्व्वरोगेषु योजयेत्
एतद्रसायनवरं त्रिफलामधुसंयुतम् ।तद्यथाग्निबलं खादेत् बलीपलितनाशनम्
क्षयमेकादशविधं कासं पञ्चविधन्तथा ।कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेहकान्
शूलं श्वासञ्च हिक्काञ्च मन्दाग्निं चाम्लपित्तकम् ।व्रणान् सर्व्वानाढ्यवातं विसर्पं विद्रधिन्तथा
अपस्मारग्रहोन्मादान् सर्व्वार्शांसि त्वगामयान् ।क्रमेण सेवितं हन्ति वृक्षमिन्द्राशनिर्यथा
पौष्टिकं बल्यमायुष्यं पुत्त्रप्रसवकारणम् ।चतुर्म्मुखेण देवेन कृष्णात्रेयेण सूचितम्
”इति प्रयोगामृते चतुर्म्मुखरसः
(औषधान्तरं यथा, --“मृतं सूतं मृतं स्वर्णं द्वाभ्यां तुल्या मनः शिला ।विमर्द्दितञ्च तैलेन चातसीसम्भवेन
तद्गोल वस्त्रतो बद्ध्वा म्रक्षयेल्लेपयेत्ततः ।अतसीफलकल्केन दोलायन्त्रे त्र्यहं पचेत्
उद्धृत्य धारयेद्वक्त्रे जिह्वास्यदन्तरोगनुत्
”इति चतुर्म्मुखो रसः
इति वैद्यकरसेन्द्रसारसंग्रहे मुखरोगाधिकारे
)