| YouTube Channel

चतुर्भद्रं (caturbhadraM)

 
शब्दकल्पद्रुमः
Sanskrit
चतुर्भद्रं,
क्ली,
(चत्वारि भद्राणि यत्र वृन्दे यद्वा, चतुर्णां धर्म्मार्थकाममोक्षसंज्ञकानां भद्राणांश्रेयसां समाहारः ।) सबलधर्म्मार्थकाममोक्षम् ।इत्यमरः ५८
अन्यूनाधिकशक्ति-धर्म्मार्थकाममोक्षम् इति तट्टीकासारसुन्दरी
(तत्तन्मङ्गलमयगुणयुक्ते त्रि यथा, महा-भारते ६२ १७ ।“स चेन्ममार सृञ्जय ! चतुर्भद्रतरस्त्वया ।पुत्त्रात् पुण्यतरस्तुभ्यं मा पुत्त्रमनुतप्यथाः
”)