चतुर्द्दोल (caturddola)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritचतुर्द्दोल पुं (चण्डोल) इति (चन्दोल) इति ख्याते“राज्ञोयद् द्विपदं यानं विशेषाख्यमलं विदुः । चतुर्भि-रुह्यते यत्तु चतुर्दोलं तदुच्यते” उक्ते चतुर्भिर्बाह्येयानविशेषे । प्रसङ्गाच्चतुर्दोलाष्टदोललक्षणभेदादिकं भोज-देवोक्तं प्रदर्श्यअते । “चतुर्भिर्वाहकैर्दण्डैः षड्मिःकुम्भैः सुसंस्थितैः । स्तम्भैरष्टाभिरुदितं चतुर्द्दोलमनु-त्तमम् । तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् ।चतुर्विधानां भ्रपानां चतुर्द्दोलाः प्रकाशिताः । त्रिहस्तु-सम्मितायामो द्विहस्तपरिणाहवान् । हस्तद्वयोन्नतःप्रोक्तश्चतुर्द्दोलोजयाख्यया । चतुर्हस्तायतोयस्तु सार्द्धहस्त-स्तु विस्तृतौ । चतुर्द्दोलः समाख्यातः कल्याणस्तावदुन्नतः ।पञ्चहस्तायतोयस्तु त्रिहस्तपरिणाहवान् । तावदेवो-न्नतोवीरश्चतुर्द्दोल उदाहृतः । आयामपरिणाहाभ्यांचतुर्हस्तमितोहि यः । चतुर्द्दोलोह्ययं सिंहस्तदर्धे-नोन्नतः शुभः । सर्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि-निश्छदिः । आद्यः समरवर्षासु परः केलिघनात्यये ।सर्वेषामेव काष्ठानां दण्डः स्याद्वज्रवारणः । चन्दने-नैव घटना सर्वेषामुपयुज्यते । लोमजं सर्ववस्त्रेषुकनकं सर्वधातुषु । कुम्भश्च पद्मकोषश्च सिरिश्चेतियथाक्रमम् । त्रैदेशानां महीन्द्राणां चतुर्दोलेषुविन्यसेत् । दर्पणं चार्द्धचन्द्रश्च हंसः केकी शुकी-गजः । अश्वः सिंहश्च तस्याग्रे आदित्यादिदशो-त्तरान्” । मणिनियमस्तु दण्डवत् । “रक्तः शुक्लश्चपीतश्च कृष्णश्चित्रस्तथाऽरुणः । नीलः कपिल इत्युक्तःपताकानान्तु सङ्ग्रहः । चतुर्दोलः सपताकः शुभयानमिति स्मृतः । मुक्तास्तवकैर्वशभिर्युक्तः स्वाद्राजके-शानाम् । चामरदर्ण्डर्दशभिर्दिग्जयिनां चतुर्दोलः ।चाषपक्षस्य पुच्छश्चेत् सर्वोपरि परिन्यसेत् । यात्रा-सिद्धिरयं नाम्ना चतुर्दोलो महीभुजाम् । स्तम्भश्छ-दिरहितो निश्छदिरुक्तश्चतुर्दोलः” । मानं पूर्ववत् ।“स पुनर्द्विविधः प्रोक्तः सध्वजश्चाथ निर्ध्वजः । ध्वजान्षडत्र न्यस्यन्ति षड्वर्गविजयैषिणः । तेषां मानन्तुचत्वारः स्वाभिहस्तैकसम्मिताः । कोणेषु पश्चादग्रेषुहस्तद्वयमितौ ध्वजौ । सुवर्णं रजतं युग्मं त्रिविधानांमहोभुजाम् । मणिचामरकुम्भानां खड्गादीनांविनिश्चयः । चतुर्दोलध्वजोराज्ञां विज्ञेयो नवदण्डवत् ।निर्ध्वजे तु चतुर्दोले मानमन्यविधं शृणु । आयामपरिणाहाभ्यां चतुर्हस्तमितोहि यः । विजयोनामविज्ञातश्चतुर्दोलोमहीभुजाम् । विजयो मङ्गलोभव्योवितस्त्येकैकवृद्धितः । त्रिविधानां महीन्द्राणांयानत्रयमुदाहृतम् । अष्टाभिरुह्यते यस्तु अष्टदोलमुशन्ति तम् । सोपानद्वितयञ्चात्र विज्ञेयं शिल्पिनिर्मितम्” । भोजस्तु । “अष्टाभिर्वाहकैर्दण्डैः षड-भिस्तु दशभिर्घटैः । स्तम्भैस्तु दशभिर्ज्ञेयमष्टदोलं मही-भुजाम् । तद्भेदाजयकल्याणवीरसिंहा यथाक्रमम् ।चतुर्विधानां भूपानामष्टदोलाः प्रकीर्त्तिताः । षड्भि-र्हस्तैर्मितायामः परिणाहे चतुर्भुजः । चतुर्हस्तोन्नतोराज्ञामष्टदोलं जयं विदुः । आयामपरिणाहाभ्यांपञ्चहस्तमितोहि यः । कल्याणाख्योऽष्टदोलोऽयं चतुर्हस्तमितोन्नतिः । सप्तहस्तायतः कार्योविस्तरे पञ्च-हस्तकः । पञ्चहस्तोन्नतो वीरश्चाष्टदोलो महीमुजाम् । आयामपरिणाहाभ्यामष्टहस्तमितोहि यः ।सिंहनामाष्टदोलोऽयं विज्ञेयः षड्भुजोन्नतः । सर्वोऽथद्विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः । काष्ठवस्त्रघटादीनां मणीनां चामरस्य च । चतुर्दोलवदुन्नेयोनियमोऽन्योऽपि सूरिभिः । पूर्ववन्निश्छदेर्मानं ध्वज-मानमिहोच्यते । दशध्वजास्तेषु चाष्टौ स्वामिहस्तद्वयोन्नताः । पश्चादग्रे ध्वजौ राज्ञश्चतुर्हस्तमितौ मतौ ।मणिचामरपक्षाणां निर्णयो निष्पताकवत् । निर्ध्वजश्चाष्टदोलोयः शिविकेति स गद्यते । मणिकुम्भमुखादीनांनियमो नवदण्डवत्” । “एवं द्वादश षोडशविंशति दोला-दिकाः कार्य्याः । मान सार्द्धद्विंगुणितं सार्द्धत्रिगुणितंयुक्तमेतेषाम् । विंशतिदोलात् परतो भोजमते सम्भवेद्या-नम्” । यानं वह्वनुयोज्यं बहुगुणमेतज्जगाद वैव्यासः” । भविष्योत्तरेऽपि “यदुक्तं द्वैपदं यानं तेनमानेन योनृपः । स्वयानं कुरुते दिव्यं स चिरं सुखम-श्नुते । स्वयोगयुक्तयानस्थो भोगमाप्नोति मानवः ।परयौगिकयानस्थः क्लेशमाप्नोति पुष्कलम् । योदम्भादथ-वाऽज्ञानाद्यानं प्रकुरुतेऽन्यथा । तस्यैतानि विनश्यन्तिआयुर्विद्यायशोधनम् । प्रधानं यानमाश्रित्य नियमोऽयंसमाश्रितः । नाप्रधाने निर्णयोऽस्ति तल्लिङ्गन्तु मनोज्ञता” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
