| YouTube Channel

चतुर्द्दशी (caturddazI)

 
शब्दकल्पद्रुमः
Sanskrit
चतुर्द्दशी,
स्त्री,
(चतुर्द्दश + टित्त्वात् ङीप् ।)तिथिविशेषः सा तु चन्द्रस्य चतुर्द्दशकला-क्रियारूपा तत्पर्य्यायः भूता इतितिथ्यादितत्त्वम्
(“सा शुक्ला पूर्णिमायुताग्राह्या युग्मात् कृष्णा पूर्व्वयुता ।“कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्द्दशी ।पूर्व्वविद्धैव कर्त्तव्या परविद्धा कुत्रचित् ।उपवासादिकार्य्येषु एष धर्म्मः सनातनः
”इति निगमवचनात् अपराह्णव्यापित्वे तु शुक्ल-चतुर्द्दश्यपि पूर्व्वविद्धा ग्राह्या‘चतुर्द्दशी तु कर्त्तव्या त्रयोदश्या युता विभो ! ।मम भक्तैर्महाबाहो ! भवेद्या चापराह्णिकी ।दर्शविद्धा कर्त्तव्या राकाविद्धा तथा मुने
’इति स्कन्दपुराणात् मम भक्तैरिति ईश्वरोक्तेःशिवव्रतविषयम् त्रयोदश्यां दिवातनमुहूर्त्त-चतुर्द्दश्यलाभे तु पद्मपुराणम् ।‘एकादश्यष्टमी षष्ठी उभे पक्षे चतुर्द्दशी ।अमावास्या तृतीया उपोष्याः स्युः परा-न्विताः
’एतद्विषय एव ।‘शिवा घोरा तथा प्रेतासावित्री चतुर्द्दशी ।कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम्
’इति वचनम् ।” इति तिथ्यादितत्त्वम्
)तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे ।“विरुद्धशीलः पुरुषः सरोष-श्चौरः कठोरः परवञ्चकश्च ।परान्नभोक्ता परदारचित्त-श्चतुर्द्दशी चेत् जननस्य काले
”मासविशेषे तत्र कर्म्माणि यथा ज्यैष्ठकृष्ण-चतुर्द्दश्यां स्त्रीकर्त्तृकसावित्र्यादिदेवतापूजास्वामिपूजा
भाद्रशुक्लचतुर्द्दश्यां अनन्त-पूजा चतुर्द्दशपिष्टकभक्षणं डोरकबन्धनञ्च
कार्त्तिककृष्णचतुर्द्दश्यां चतुर्द्दशशाकभक्षणं चतु-र्द्दशदीपदानं यमतर्पणञ्च
अग्रहायणशुक्ल-चतुर्द्दश्यां गौरीपूजा पाषाणाकारपिष्टकभक्ष-णञ्च
माघकृष्णपक्षे रटन्त्याख्यचतुर्द्दश्यां काली-पूजारुणोदये स्नानञ्च
फाल्गुनकृष्णपक्षे शिव-रात्र्याख्यचतुर्द्दश्यामुपवासः शिवपूजा
चैत्र-शुक्लपक्षे मदनचतुर्द्दश्यां मदनवृक्षपल्लवेन काम-देवपूजा इति स्मृतिः