| YouTube Channel

चतुर्द्दशन् (caturddazan)

 
Wilson
English
चतुर्द्दशन्
mfn.
plur. (-दश) Fourteen.
E.
चतुर, and दशन् ten.
वाचस्पत्यम्
Sanskrit
चतुर्द्दशन्
पु०
ब० व० चतुरधिकादश (चौद्दा) चतु-रधिकदशसंख्यायां तत्संख्येये ततः पूरणे डट् ।चतुर्दश तत्संख्यापूरणे
त्रि०
स्त्रियां ङीप् सा चचन्द्रस्य चतुर्दशकलाया ह्रासवृद्धिरूपक्रियारूपायांतिथौ “चतुर्दश्यष्ठमी तैव अमावास्या पूर्णिमा”ति० त०
पु०
।उभयपक्षयोस्तस्या उभयदिनसत्त्वे कर्म्मभेदे कस्या ग्राह्यतातन्निर्ण्णयः कालमा० चतुर्द्दशीप्रक० यथा“अथ चतुर्दशी निर्णीयते अत्रापि शुक्लकृष्णपक्षभेदेनव्यवस्था भवति तत्र युग्मशास्त्रेण शुक्लचतुर्दशी पर-विद्धा ग्राह्या तथा व्यासोऽपि “शुक्ला चतुर्द्दशी ग्राह्यापरविद्धा सदा व्रते” इति पूर्वविद्धाप्रतिषेध उत्तरविद्धाविधिश्चेत्युभयम्भविष्यत्पुराणे पठ्यते “सदा कार्यात्रयोदश्या तु युक्ता चतुर्दशी पौर्णमासीयुता सास्याच्चतुर्द्दश्या पूर्णिमेति” नारदीयेऽपि “तृतीयै-कादशी षष्ठी शुक्लपक्षे चतुर्दशी पूर्वविद्धा कर्त्तव्याकर्त्तव्या परसंयुतेति” यत्तु भाद्रशुक्लचतुर्दश्यामनन्तव्रतम्भविष्योत्तरेऽभिहितम् तत्र पूर्वविद्धा परविद्धा वामध्याह्नव्यापिनी ग्राह्येति केचिदाहुः लिङ्गञ्चतत्र प्रमाणत्वेनोदाहरन्ति “मध्याह्ने भोज्यवेलायां समुत्तीर्य सरित्तटे ददर्श शीला सा स्त्रीणां समूहं रक्तवाससाम् चतुर्दश्यामर्चयन्तम्भक्त्या देवं पृथक् पृथ-गिति” “अत्र मध्याह्ने भोज्यवेलायामित्यनेन मध्याह्नस्यकर्मकालत्वं प्रतीयते अतस्तद्व्यापिनी तिथिर्ग्राह्या ।नैतत्सारम् यथा विनायकव्रते “मध्याह्ने पूजयेन्नृपेतिसध्याह्नः कर्मकालत्वेन विहितः नात्र तथा विधिरस्ति ।उदाहृतं तुं लिङ्गमर्थवादगतत्वान्न स्वातन्त्र्येण कम्यचिदर्थस्य प्रमापकं किन्तु सति प्रमाणान्तरे तस्योपोद्बलकंभवति नचात्र प्रमाणान्तरम्पस्यामः अढोनमध्याह्नः कर्मकालः तथा सति ह्यौदयिकी ग्राह्येतिवचनेन युग्मशास्त्रादिभिश्चोदयव्यापिनी ग्राह्या सा चतिथ्यन्तरवत्त्रिमूहूर्त्तेति मुख्यः कल्पः “द्विमुहुर्त्तेत्यनुकल्पःएवं सति शिष्टाचारोप्यनुगृहीतो भवति चैत्रश्रावणचतुर्दश्यौ शुक्लपक्षे अपि रात्रियोगिन्यौ ग्राह्येति ।तथा बौधायनः “मधोः श्रावणमासस्य शुक्ला या तुचतुर्दंशी सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्णगामिनीति” परा मासान्तर्वर्त्तिनी शुक्लचतुर्दशी ।कृष्णा चतुदशी तु पूवविद्धैव ग्राह्या तथा चापस्तम्बः“कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी पूर्वविद्धा तुकर्त्तव्या परविद्धा कस्यचिदिति” अपराह्णव्यापित्वेतु शुक्लचतुर्दश्यपि पूर्वविद्धा ग्राह्या तथा स्कन्दपुराणे“चतुर्दशी कर्त्तव्या त्रयोदश्या युता विभो! ।मम भक्तैर्महाबाहो भवेद्या चापराह्णिकी दर्शविद्धा-न कत्त व्या राकाविद्धा कदाचनेति” अत्र मम भक्तैरि-तीश्वरोक्तिलिङ्गाच्छिबचतुर्दशीविषयत्वं द्रष्टव्यम् तदेवंव्रतान्तरेषु चतुर्दशी निर्णीता अथ शिवरात्रिव्रतंनिर्णीयते तत्रेदञ्चिन्त्यते किमयं शिवरात्रिशब्दःरूढः? किं वा यौगिकः? उत लाक्षणिकः? ।अथ वा योगरूढ? इति किन्तावत्प्राप्तम् रूढैति ।तिथिविशेषे शिवरात्रिशब्दस्य संज्ञारूपेण स्मरणात् ।तथा स्क० नागरखण्डे “माघमासस्य शेषे या प्रथमाफाल्गुनस्य कृष्णे चतुर्दशी सा तु शिवरात्रिःप्रकीर्त्तितेति” कामिके “माघमासेऽ सिते पक्षे विद्य-ते या चतुर्दशी तद्रात्रिः शिवरात्रिः स्यात्सर्वपुण्यशु-भावहेति” यद्यप्यत्र शिवस्य रात्रिः शिवरात्रिरित्यव-यवार्थः प्रतीयते तथापि योगात् रूढेर्बलवत्त्वाद्योगोऽत्रन ग्राह्यः प्राबल्यञ्चाश्वकर्णादिशब्देष्ववगम्यते अश्व-स्य कर्ण इत्यवयवार्थप्रतीतावपि तमुपेक्ष्य रूढ्या वृक्षवि-शेषवाचित्वस्वीकारात् ननु काकदन्तपरीक्षासमानीऽयंविचारः यद्ययं शिवरात्रिंशब्दोरूढः यदि वायौगिकः उभयथाप्यनुष्ठाने विशेषाभावात् मैवम् ।अस्त्रेव महान्विशेषः यौगिकत्वे शिवसम्बन्धिब्रतजातंसर्वं यस्यां रात्रावनुष्ठीयते सा सर्वाशवरात्रिः स्यात् ।माघमासादिपदञ्च तदानीमुपलक्षणं भवेत् रूढिपक्षे तु माघमासादेर्षिशेषणत्वात् तद्विशिष्टायाएकस्याएव तिथेः शिवरात्रित्वम् अतः कर्त्तव्यएवविचारः तत्राहीनन्यायेन रूढिमेवाद्रियामहे तस्यच न्यायस्य संग्राहकावेतौ श्लोकौ भवतः “अहीनस्यद्वादशेति प्रकृतौ विकृतावुत हीन इति योगेनप्रकृतौ तद्विकल्प्यताम् शीघ्रधीहेतुतो रूढेरहीनेविकृताविदम् उत्कृष्यतां द्वादशत्वं साह्रात् प्रकृत-कर्मणः” अयमर्थः ज्योतिष्टोमे श्रूयते “तिस्र-एव साह्नस्योपसदोद्वादशाहीनस्य यज्ञस्य सवीर्यत्वायेति” ।अह्ना सह वर्तत इति साह्नः एकदिननिष्पाद्योज्योति-ष्टोमः तस्य प्राचीनेषु त्रिषु दिनेष्वङ्गत्वेनानुष्ठेया होमाउपसच्छब्दवाच्याः तास्तिस्र उपसदो विधाय पुनरहीन-शब्दवाच्यस्य कर्मणो द्वादशोपसदो विधीयन्ते तत्रसंशयः किमिदं द्वादशोपसत्त्वं द्विरात्राद्यहीनप्रकृतिभूते साह्नशब्दवाच्ये प्रकृते ज्योतिष्टोमे निविशते? आहो-स्विदहीनशब्दवाच्ये विकृतिरूपे द्विरात्रादावुत्कृष्यते?इति तदर्थमिदञ्चिन्त्यते अहीनशब्दो यौगिको रूढो-वेति तत्र हीन इति व्युत्पत्तेर्विस्पष्टं प्रतिभासा-द्यौगिकएवायम् तदर्थश्च प्रकृतावुपपन्नः साङ्गप्रधानस्यसर्बस्य साक्षाद्वाचकशब्दैरेवोपदिष्टत्वेन हीनत्वाभावाद्बि-कृतौ तु विशेषएव वाचकशब्दैरुपदिश्यते इतरत्सर्व-मतिदेशात् प्राप्यते अत उक्तिसङ्कोचात् विकृतेर्हीन-त्वम् एवञ्च सत्यहीनशब्दस्य ज्योतिष्टोमेप्रवृत्तिसम्भवा-त्प्रकराणानुग्रहणाच्च तत्रैव द्वादशत्वं निविशते चपूर्ववाक्यविहितेन त्रित्वेन बाधः शङ्कनीयः वाक्ययोःसमानबलत्वेन व्रीहियववद्विकल्पोपपत्तेः तस्माद्-ज्योतिष्टोमएव द्वादशत्वविधिरिति प्राप्ते ब्रूमः विकृति-रूपे द्विरात्रादाविदं द्वादशत्वं विपीयते कुतः अ-हीनशब्दस्य श्रौतप्रयोगबाहुल्येन तत्रैव रूढत्वात् ।रूढिश्च शीघ्रबुद्धिहेतुत्वेन योगाद्बलीयसी, योगे त्वबय-वार्थं प्रथमतो निश्चित्य पश्चात्समुदायार्थो निश्चेतव्य इतिविलम्बः चात्रे प्रकरणबिरोधः शङ्कनीयःबलीयसा वावयेन प्रकरणस्य बाधितत्वात् तस्मादिदंद्वादशत्वं प्रकृतज्योतिष्टोमादुत्कृष्य विकृतिषु तिरात्रा-दिषु निवेशनीयमिति अत्र यथा रूढोऽहीनशब्द-स्तथा शिवरात्रिशब्दोऽपि रूढ इति प्रथमः पक्षः अ-पर आह यौगिकएवायं शिवरात्रिशब्दः कुतःशिवसम्बन्धमुपजीव्य तच्छब्दस्य प्रवृत्तत्वात् तथा चस्कन्दपुराणे “माथस्य कृष्णपक्षे या तिथिश्चैव चतुर्द्दशी ।शिवरात्रिस्तु सा ख्याता सर्वपापनिषूदनी” “तस्य रात्रिःसमाख्याता शिवरात्रिः शिवप्रिया तस्यां सर्वेषु लि-ङ्गेषु सदा संक्रमते हरः यानि कानि लिङ्गानिचराणि स्थावराणि तेषु संक्रमते देवि! तस्यां रात्रौयतोहरः शिवरात्रिस्ततः प्रोक्ता तेन सा हरवल्ल-भेति” शिवरहस्ये “तत्प्रभृत्येव देवर्षे माघकृष्णचतु-र्द्दशी शिवरात्रिः समाख्याता प्रियेयन्त्रिपुरद्विषः” इतिस्क० अवन्तिखण्डे “माघफाल्गुनयोर्मध्ये असिता याचतुर्द्दशी शिवरात्रिस्तु सा ख्याता सर्वपापनिषूदनी” ।तस्माच्छिवसम्बन्धिनी रात्रिः शिवरात्रिरिति यौगि-कोऽर्थः प्रोक्षणीन्यायेन ग्रहीतव्यः तस्य न्यायस्यसंग्राहकावेतौ श्लोकौ “संस्कारजातियोगेषु कं ब्रूतेप्रोक्षणीरिति संस्कारं सार्वभौमत्वाज्जातिमुद्वेजनो-क्तितः अन्योन्याश्रयतो नाद्योन जातिः कल्प्यशक्तितः ।यौगिकः कॢप्तशक्तित्वाकॢप्तिर्व्याकरणे स्थिता” अयमर्थः ।दर्शपूर्ण मासाङ्गतया श्रूयते “प्रोक्षणीरासादयतीति” ।तत्र संशयः किमयं प्रोक्षणीशब्दोऽभिमन्त्रणासाद-नाद्युदकसंस्कारं ब्रूते? किं वा जलावान्तरजातिविशेषम्? आहोस्वित् प्रोक्ष्यन्ते पात्राण्याभिरिति यो-गम्? तत्र संस्कारं ब्रूत इति तावत्प्राप्तङ्कुतः? सार्वभौमत्वात् सर्वेषु हि संस्कारविधिवाक्यादिप्रदेशेषुप्रोक्षणीशब्दः श्रूयते “प्रोक्षणीरासादयेध्माबर्हिरुपसादयेति” प्रैषवाक्यप्रयोगः “प्रोक्षणीरासादयतीति”विधिवाक्ये एवमभिमन्त्रणादिवाक्यान्यप्युदाहरणीयानि तस्मात्संस्कारं ब्रूतैत्येकः पक्षः जातिं ब्रूतइति पक्षान्तरम् लोके हि जलक्रीडासु प्रोक्षणीभिरुद्वेजिताः स्म इत्युदकजातौ प्रयोगो दृश्यते तत्र नतावत्संस्कारं ब्रूत इत्याद्यः पक्ष उपपद्यते कुतः?अन्योन्याश्रयत्वात् नापि जातिं ब्रूत इति द्वितीयःपक्षोयुक्तः उदकजातौ प्रोक्षणीशब्दशक्तेर्व्यवहारेपूर्वमकॢप्तत्वेनातः परं शक्तेः कल्पनीयत्वप्रसङ्गात् ।नच योगेऽपि शक्तिः कल्पनीया व्याकरणेनैव कॢप्तत्वात्व्याकरणे हि उक्ष सेचन इत्यस्माद्धातोः करणे ल्युट्प्रत्य-येन शब्दो व्युत्पादितः तथा सति प्रकर्षेणोक्ष्यते अने-नेति योगेन सेचनसाधनमुदकादिकं सर्वं प्रोक्षणशब्दवाच्यं सम्पद्यते प्रकृते तु स्त्रीशब्दवाच्यानामपांसेचनसाधनत्वात् तद्वचनस्य प्रोक्षणशब्दस्य ङीप्प्रत्ययान्त-त्वेन प्रोक्षणीरितिद्वितीयाबहुवचनान्तः शब्दोनिष्प-द्यते नन्वहीनाधिकरणे रूढेः पाबल्यमुक्तम् ।प्रोक्षण्यधिकरणेच योगस्य प्राबल्यमुच्यते अतःपरस्परविरोधः मैवम् लब्धात्मिका हि रूढिर्योगमपहरतीति नच प्रोक्षणीशब्दे रूढिर्लभ्यते ।वृद्धव्यवहारेण जातावव्युत्पादितत्वात् अहीनशब्दोऽपिद्विरात्रादिषु वृद्धैर्व्युत्पादित इतिचेत् व्याकरणेव्युत्पादितत्वात् “अह्नः खःक्रतौ” इत्यनेन घाररुचेनवार्तिकेनाहन्शब्दात् स्वप्रत्ययमुत्पाद्य तस्येनादेशं कृत्वाक्रतुविषयतया व्युत्पादितो अहीनशब्दः नन्वेवं सतिघट्टकुटीप्रभातन्यायस्तव प्रसज्येत यतोऽहीनशब्दे योग-म्परिहर्त्तुकामेन भवता व्याकरणमुपजीव्य योगे पर्यव-सानं कृतम् नायन्दोषः पूर्बपक्षिणोऽभिमते समासलक्षणे योगे पर्यवसानस्यानभिधानात् नच नञ्समासोऽपि व्याकरणेषु व्युत्पादित इति शङ्कनीयम् ।नञ्समासस्वीकारे सति “अयज्ञोवाएष” इत्यादाविवाऽ-हीनशब्दस्याद्युदात्तत्वप्रसङ्गात् मध्योदात्तोह्ययं शब्दआम्नायते तस्मात्पक्षद्वये योगसाम्येऽपि समासरूपयोगम्पूर्वपक्षाभिमतं निराकृत्य श्रौतरूढिः सिद्धान्तिना स-माश्रिता तामेव रूढिं प्रकटयितुं वररुचिना वार्त्तिकंकृतम् अतः सत्यपि प्रकृतिप्रत्ययविभागे यौगिकत्वं नशङ्कितुं शक्यते तथा गोत्वजातौ रूढस्यापि गोशब्दस्यौणादिकसूत्रेषु “गमेर्डोः” इति प्रकृतिप्रत्ययविभा-गङ्कृत्वा गच्छतीति गौरिति व्युत्पत्तिः प्रदर्शिता तद्व-दत्राप्यवगन्तव्यम् प्रोक्षणीशब्दे तु रूढिज्ञापनायकिञ्चित्सूत्रं स्वतन्त्रं विहितमस्ति किन्तर्हिसर्वधातुसाधारणेनावयवार्थव्युत्पादकेन ल्युट्प्रत्ययेनव्युत्पादितत्वात् यौगिक एवायं प्रोक्षणीशब्दः ।तस्मात्प्रोक्षणीशब्दावच्छिवरात्रिशब्दो यौगिक इतिद्वितीयः पक्षः अन्ये तु पुनर्मन्यन्ते लाक्षणिकोऽयंशिवरात्रिशब्दः तिथिवाचकेन शब्देन तत्तिथौक्रियमाणस्य व्रतविशेषस्य लक्ष्यमाणत्वात् अतएवे-शानसंहितायामुक्तम् “शिवरात्रिव्रतन्नाम सर्वपापप्रणाशनम् आचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् अर्द्धरात्रादधश्चोर्ध्वं युक्ता यत्र चतुर्दशी ।तत्तिथावेव कुर्वीत शिवरात्रिव्रतं व्रती शिवरात्रिव्रतङ्कायं भूतान्वितमहानिशि शिवरात्रिव्रतन्देव करि-ष्ये शिवसन्निधौ निर्विघ्नं कुरु मे देव भक्तग्राह्य!महेश्वरेति” नारदीयसंहितायाम् “अर्द्धरात्रयुता-यत्र माघकृष्णचतुर्दशी शिवरात्रिव्रतं तत्र कुर्या-ज्जागरणं तथेति” पद्मपुराणेऽपि “अर्द्धरात्रादध-श्चोर्ध्वं यदि युक्ता चतुर्दशी तत्तिथावेब कुर्वोत शिव-रात्रिव्रतं व्रती” स्कन्दपुराणे “शिवरात्रिव्रतन्देव!कथयस्व महेश्वरेति” नच कालवाचकस्य शब्दस्यलक्षकत्वमदृष्टचरमिति शङ्कनीयम् कालवाचकाभ्या-ममावास्यापौर्णमासीशब्दाभ्यां यागत्रयरूपयोरिष्ट्यो-स्तत्कालसम्बन्धिन्योरुपलक्षितत्वात् अतएव श्रूयते”“यएवंविद्वान् पौर्णमासीं यजते एवं विद्वानमावास्यांयजते” इति स्मृतिष्वपि सर्वत्र तिथिवाचकैः शब्दैस्त-त्सम्बन्धिनो व्रतविशेषा लक्ष्यन्ते स्कन्दपुराणे “जन्मा-ष्टमी नैव कृता कदाचित्कल्पायुतं पच्यते रौरवेष्विति” ।ऋष्यशृङ्गोऽपि “एकादशीन्तु कुर्वीत क्षीयते द्वादशीयदेति” एवमन्यत्राप्युदाहार्यम् तस्माल्लाक्षणिकोऽयंशिवरात्रिशब्द इति तृतीयः पक्षः अथ सिद्धान्तं ब्रूमः ।योगरूढएवायं शिवरात्रिशब्दः योगोद्वितीयपक्षो-पन्यासेन दर्शितः रूढिश्च प्रथमोपन्यासेन तत्रेकस्यस्वीकारे सत्यन्यविषयं शास्त्रन्तदनुग्राहकौदाहृतोन्यायश्च वाध्येत नच यौगिकत्वे सति शिवव्रतोपेतेषुत्रयोदश्यादितिथ्यन्तरेषु शिवरात्रित्वं प्रसज्येतेति-वाच्यम् तस्यातिप्रसङ्गस्य रूढ्या निवारणात् यथापङ्कजशब्दे पङ्काज्जायत इति योगं स्वीकृत्य भेकादिष्वतिपसङ्गो रूढिस्वीकारेण निवार्यते तद्वदत्रापि योगरूढतायां कोऽप्यतिप्रसङ्गः नच मुख्य सम्भवतिलक्षणाश्रयणमुचितम् अथोच्येत लक्षणायाअभावे ब्रतविषयत्वन्न स्यादिति तन्न बहुब्रीहिस्वीकारे योगेनैव तत्सिद्धेः शिवस्य प्रिया रात्रिर्यस्मिन्-व्रतेऽङ्गत्वेन विहिता तद्व्रतं शिवरात्र्याख्यं तस्मान्निर्मन्थ्यन्यायेनात्र योगरूढः शिवरात्रिशब्दः तस्यात्रन्यायस्य संग्राहकः श्लोकः “निर्मन्थ्यो यौगिको योगरूढोवा योगभासनात् यौगिकोऽचिरजातेऽग्नौ नियतेर्योगरूढिभाक्” अस्यायमर्थः इष्टकाचयने श्रूयते“निर्मन्थ्येनेष्टकाः पचन्तीति” तत्र संशयः किमयं निर्म-न्थ्यशब्दो यौगिकः? किं वा योगरूढः? इति निःशे-षेण मथ्यत इति योगस्य प्रतीयमानत्वात्प्रोक्षणीन्यायेनयोग इति पूर्वःपक्षः अत्र द्वावग्नी विद्येते चिरमिर्म-थितोऽचिरनिर्मथितश्च चयनम्प्रक्रम्योस्यां निर्माय तस्यामुखायाङ्कञ्चित्कालन्धारणाय योऽग्निर्निर्मथ्यते सोऽचिरनिर्मथितः तेनेष्टकाः पच्यन्ते तस्यैव पत्यासन्नत्वात् ।तथा मन्थनस्याग्निद्वितयसाधारण्येऽप्यचिरनिर्मथितमग्निं नियन्तुं रूढिराश्रयणीया यथा वा नावनीत-ङ्घृत मित्यत्र नवनीतजन्यत्वयोगस्य चिराचिरयोरुभयोःसाधारण्येऽपि नूतनएव वृते नावनीतशब्दो लोके प्रसिद्धे-र्नियम्यते तद्वदत्राप्यवगन्तव्यम् तथा सति प्रती-यमानयोगस्यापरिहृंतत्वान्नियत्यै रूढिस्वीकाराच्च योग-रूढोऽयं निर्मन्थ्य इति राद्धान्तः अनेनैव न्यायेनशिवरात्रिशब्देऽपि योगरूढिराश्रीयते तत्र शिवस्यरात्रिः शिवरात्रिरिति तत्पुरुषसमासेन योगेन प्रवत्त-मानः शब्दोरूढ्या माघकृष्णचतुर्दशीरूपे कालविशेषे-नियम्यते शिवस्य रात्रिर्यस्मिन् व्रते इति वहुब्रीहिसमासेन योगेन प्रवृत्तः शब्दोरूढ्याव्रतविशेषे नियम्यते ।तच्च शिवरात्रिव्रतमेकदाशीजयन्तीव्रतवत्संयोगपृथक्त्वन्यायेन नित्यङ्काम्यञ्चेत्युभयविधम् तत्र नित्यत्वमक-रणे प्रत्यवायवीप्सानित्यनिश्चलशब्दैरवगन्तव्यम् ।तत्राकरणे प्रत्यवायः स्कन्दपुराणे पठ्यते “परात्परतरन्नास्ति शिवरात्रिः परात्परम् पूजयति भक्त्ये-शं रुद्रन्त्रिभुवनेश्वरम् जन्तुर्जन्मसहस्रेषु भ्रभते नात्रसंशयः” बीप्सापि तत्र पठिता “वर्षेवर्षे महादेवि!नरोनारी पतिव्रता शिवरात्रौ महादेवङ्कामम्भक्त्याप्रपूजयेदिति” नित्यनिश्चलशब्दौ तत्रैव “माघकृष्णचतुर्दश्यां यः शिवं शंसितव्रतः मुमुक्षुः पूजयेन्नित्यंस लभेदीप्सितम्फल मिति” “अर्णवो यदि वा शु-ष्येत् क्षीयते हिमवानपि मेरुमन्दरलङ्काश्च श्रीशैलो-विन्ध्य एव चलन्त्येते कदाचिद्वै निश्चलं हि शिव-व्रतमिति” काम्यत्वञ्च फलश्रवणादवगन्तव्यम् तच्चस्कन्दपुराणे “शिवञ्च पूजयित्वा योजागर्त्ति चतु-र्दशीम् मातुः पयोधररसन्न पिबेत्स कदाचन यदी-च्छेद्वाञ्छितान् भोगान् दिवि देवमनोरमान् आग-मोक्तविधिं कृत्वा प्राप्नोति परमम्पदम् मम भक्तस्ततोदेवि शिवरात्रिमुपोषकः गणत्वमक्षयन्दिव्यमक्षयंशिवशासनम् सर्वान्भुक्त्वा महाभोगान्मृतो भूयोनजायते” इति काम्यव्रतस्येशानसंहितायां वर्षसंख्या-पढ्यते “एवमेतद्वतङ्कुर्यात्प्रतिसंवत्सरं व्रती द्वाद-शाब्दिकमेतत्स्याच्चतुर्विंशाब्दिकन्तु वा सर्वान् कामान-वाप्नोति प्रेत्य चेह मानवः” इति नित्यकामरूपस्यास्यव्रतस्य सर्वाधिकारित्वमीशानसंहितायामुक्तम् “शिव-रात्रिव्रतन्नाम सर्वपापप्रणाशनम् आचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकमिति” अधिकारिणियमाः स्कन्दपुराणे दर्शिताः “माघमासे तु कृष्णा या-फाल्मुनादौ चतुर्दशी सा पुण्या तिथिर्ज्ञेया सर्व-पातकनाशिनी अहिंसा सत्यमक्रोधो ब्रह्मचर्यं दयाक्षमा शान्तात्मा क्रोधहीनश्च तपस्वी ह्यनसूयकः ।तस्मै देयमिदन्देवि! गुरुपादानुगोयदि अन्यथायोददातीदं तदा नरकं व्रजेदिति” उक्ताधिकारिणानुष्ठेयं व्रतस्वरूपं त्रिविधम् “उपवासो जागरणं-पूजा तदुक्तं नागरखण्डे “उपवासप्रभावेणबलादपि जागरात् शिवरात्रौ तथा तस्य लिङ्गस्यापिच पूजया अक्षयान्लभते भोगान् शिवसायुज्यमाप्नुयादिति” स्क० सह्यखण्डे “स्वयञ्च लिङ्गमभ्यर्च्यसोपवासः सजागरः अजानन्नपि निष्पापो निषादोगणतां गतः” अत्रेदञ्चिन्त्यते किमेता उपवासजागरपूजा व्रतस्य स्वरूपे स्वेच्छया विकल्प्यन्ते? उत समुच्चि-ताएवेति? तत्र विकल्प्यन्ते इति तावत्प्राप्तम् कुतः ।एकैकस्येतरनिरपेक्षतया विधानात् तथाहि स्कन्द-पुराणे केवलोपबासविधिः पट्यते “अखण्डितव्रतोयोहि शिवरात्रिमुपोषयेत् सर्वान् कामानवाप्नोतिशिवेन सह मोदत इति” तथा केवलजागरणं पठ्यते“कश्चित्पुण्यविशेषेण व्रतहीनोऽपि यः पुमान् जागर-ङ्कुरुते तत्र रुद्रसमतां व्रजेत्” तथा केवलपूजा प-ठ्यते “यःपूजयति भक्त्येशमनेकफलतां व्रजेदिति” ।तस्मादुपवासादयस्त्रयोऽपि विकल्प्यन्ते यदि नागर-स्वण्डसह्यखण्डयोः समुच्चयविधिरस्तीत्युच्यते तर्हि-प्रत्येकं वा समुदायोवा यथेष्टमनुष्ठीयतामिति प्राप्ते-ब्रूमः वैश्वानरविद्योपासनन्यायेन समुदाय एवात्रानुष्टेयः तस्य न्यायस्य संग्राहकावेतौ श्लोकौ“वैश्वानरमुपास्तेऽत्र प्रत्येकसमुदायतः विकल्पः समु-दायो वा नियतोद्विविधाद्विधेः विकल्प इति चेन्मै-त्वं ससमुदायप्रशस्तितः अवयुत्यानुवादेन प्रत्येकोक्त्यु-पपत्तितः” इति अयमर्थः छन्दोगैराम्नायते“बैश्वानरमुपास्ते इति द्युलोकादित्यवाय्वाकाशोदकपृथिवीरूपैः षड्भिरवयवैरुपेतोऽवयवी सर्वात्मको विराट्पुरुषो वैश्वानरशब्दवाच्यः तत्र संशयः किं द्यु-लोकाद्यवयवा अवयवी प्रत्येकं विकल्पेनोपास्याः?उतावयव्येव नियमेनोपास्यः? इति विकल्प इतितावत् प्राप्तम् कुतः द्विविधस्य विधेः श्रूयमाण-त्वात् प्राचीनशालसत्ययज्ञेन्द्रद्युंम्नजनवुडिडोद्दालकनामभिः षद्भिर्महर्षिभिः क्रमेण द्युलोकादयः षड-वयवाः प्रत्येकमुपासिताः तद्वृत्तान्तकथनपरेषुवाक्येषु षण्णामवयवानां प्रत्येकमुपस्तिविधये निय-माश्च फलसहिता उपलभ्यन्ते पुनश्चान्ते षड्भ्यस्तेभ्योमहर्षिभ्योऽश्वपती राजा समुदायोपास्तिमवोचत अतो-द्विविधविधिबलेन यथेच्छं विकल्प इति प्राप्ते ब्रूमः ।समुदायएवात्र नियमेनीपासितव्यः कुतः प्रस्तुत-त्वात् अवयवोपास्तिवाक्यान्यवयुत्यानुवादरूपत्वेना-प्युपपद्यन्ते तस्मात्समुदाय उपास्य इति राद्धान्तः ।अनेन न्यायेन प्रकृतेऽप्युपवासादीनान्त्रयाणां समुदायस्यैवव्रतरूपत्वम् नमु क्वचिदुपवासादित्रसं विधाय पुनःपक्षान्तररूपेणोपवासव्यतिरिक्तं द्वयं पठ्यते “अथवाशिवरात्रिञ्च पूजाजागरणैर्नयेदिति” नायन्दाषः ।अथ वेत्यनुकल्पोपक्रमेणाशक्तविषयत्वोपपक्षे अत्र व्रतेविहितान्त्रयाणां परस्परमङ्गाङ्गिभावबोधकप्रमाणा-भावादाग्नेयादिषड्यागवत्प्रत्येककालसम्बन्धविधानात्फल-विधानाच्च समं प्राधान्यन्द्रष्टव्यम् अस्यैवोपोद्वलकंलिङ्गमभिधीयते लुब्धकस्य भद्राश्वजन्म प्राप्तवतोदुर्वाससा सह संवादे पठ्यते “कृष्णपक्षे चतुर्द्दश्यान्नकञ्चिन्मृगमाप्तवान् अण्वपि प्राणरक्षार्थं क्षुधा-सम्पो डितोऽ वसत्” इत्युपक्रम्य “धनुःकोट्याहतान्येवविल्वपत्राणि मानद! पतितानि महाराज! शम्भोःशिरसि भूतले तत्रैव रस्थौ राजेन्द्र! सर्वरात्रमत-न्द्रितः रात्रिशेषं स्थितोव्याधः स्तब्धवृष्टिरनामिषः ।प्रभाते विमले जाते दृष्ट्वा तत्रैव शङ्करम् विल्वपत्रैर्नर-श्रेष्ठ! कन्दमूलैश्च पारितः” इति एतस्मिन् यथोक्तति-थिन्निर्णेतुम् इदं विचार्यते किंव्रतान्तरेष्विवात्राप्युदयास्तमयवेध आदर्त्तव्यः? किं वा प्रदोषवेधः? आहोस्विन्निशीथवेध? इति तत्र पूर्वेद्युरुदये त्रयोदशीवेधः परेद्युरस्तमये दशवेध इत्युदयास्तमये वेधोयुक्तः तस्य व्रतान्तरेषुकॢप्तत्वात् कॢप्तस्य कल्प्याद्बलीयस्त्वात् मैवम् ।समान्याद्विशेषस्य बलीयस्त्वात् समान्यरूपोह्युदयास्तमयवेधः सर्वतिथिसु समानत्वात् विशेषरूपौप्रदोषनिशीथवेधौ कृष्णचतुर्दशीलक्षणे तिथिविशेषेशिवरात्र्याख्यं व्रतविशेषमुपजीव्य प्रवृत्तत्वात् एतदे-वाभिप्रेत्य ईशानसंहितायामुक्तम् “उदयेऽन्विताःक्वचिद्ग्राह्याः क्वचिदस्तमयेऽन्विताः व्रतिभिस्तिथयोयस्माद्वर्जयित्वा व्रतन्त्विदमिति” अस्मिंस्तु व्रते प्रदोषघेधोवायुपुराणे दर्शितः “त्रयोदश्यस्तगे सूर्ये चतसृ-ष्वेव नाडिषु भूतविद्धा तु या तत्र शिवरात्रिव्रतञ्चरे-दिति” स्मृत्यन्तरेऽपि “प्रदोषव्यापिनी ग्राह्या शिव-रात्रिचतुर्दशी रात्रौ जागरणं यस्मात्तस्मात्तां समु-पोषयेदिति” कामिके “आदित्यास्तमये काले अस्ति-चेद्या चतुर्दशी तद्रात्रिः शिवरात्रिः स्यात्सम्भवेदुत्तमीत्तमेति” निशीथवेधो नारदीयसंहितायांदरितः “अर्द्धरात्रयुता यत्र माघकृष्णचतुर्दशी ।शिवरात्रिव्रतन्तत्र सोऽश्वमेधफलं लभेदिति” स्मृत्य-न्तरेऽपि “भवेद्यत्र त्रयोदश्यां भूतव्याप्ता महानिशा ।शिवरात्रिव्रतन्तत्र कुर्याज्जागरणन्तथेति” ईशान-संहितायाम् “माघकृष्णचतुर्दश्यामादिदेवोमहा-निशि शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभः ।तत्कालव्यापिनी ग्राह्यां शिवरात्रिव्रते तिथिः अर्द्ध-रात्रादधश्चोर्ध्वं युक्ता यत्र चतुर्दशी तत्तिथावेवकुर्वीत शिवरात्रिव्रतं व्रती नार्द्धरात्रादधश्चोर्ध्वंयुक्ता यत्र चतुर्दशी नैव तत्र व्रतङ्कुर्य्यादायुरैश्वर्यहानिदेति” “व्याप्यार्द्धरात्रं यस्यान्तु लभ्यते या चतुर्दशी ।तस्यामेव व्रतङ्कार्यं मत्प्रसादार्थिभिर्नरैः पूर्वेद्यु-र्वा परेद्युर्वा महानिशि चतुर्दशी व्याप्ता सा दृश्यतेयस्यान्तस्यां कुर्यात्व्रतन्नरः लिङ्गाविर्भावकाले तु व्याप्ता-ग्राह्या चतुर्द्दशी तदूर्ध्वाधोन्विता भूता सा कार्य्याव्रतिभिःसदा मम प्रियकरी ह्येषा माघकृष्णचतुर्द्दशी ।महानिशान्वितायान्तु तत्र कुर्य्यादिदं व्रतमिति” एवंसति पूर्व्वेद्युरेव यत्र प्रदोषनिशीथोभयव्याप्तिस्तत्र व्रत-माचरणीयम् पूर्व्वेद्युरेवोमयव्याप्तौ स्कन्दपुराणे प-ठ्यते “त्रयोदशी यदा देवि! दिनभुक्तिप्रमाणतः जा-गरे शिवरात्रिःस्यान्निशि पूर्ण्णा चतुर्दशी दिनभुक्तिरस्त-मयः परेद्युरेवोभयव्याप्तौ कामिके पठ्यते “निशाद्वयेचतुर्द्दश्यां पूर्वा त्याज्या परा शुभेति” दिनद्वयेऽप्युभय-व्याप्तिस्तु सम्भव्यते यामद्वयवृद्धेरभावात् दिन-द्वयेऽप्युभयव्याप्त्यभाबोऽपि सम्भाव्यते यामद्वयक्षयस्या-भावात् एकैकस्मिन् दिनएकैकव्याप्तौ तु कथमिति चेत् ।सा ह्येवं प्रसज्यते पूर्व्वेद्युर्निशीथव्याप्तिः परेद्युःप्रदोषव्याप्तिरिति तत्रैकव्याप्तेर्दिनद्वये समानत्वेऽपिजयायोगस्य प्रशखत्वाद्दर्शयोगस्य निन्दितत्वाच्च पूर्वेद्यु-रेवोपवासः जयायोगप्राशस्त्यञ्चानेकवचनैरादृतत्वादवग-स्यते तथा स्कन्दपुराणे पठ्यते “कृष्णाष्टमी स्कन्द-षष्ठी शिवरात्रिचतुर्द्दशी एताः पूर्व्वयुताः कार्य्यास्ति-थ्यन्ते पारणम्भवेत्” “जन्माष्टमी रोहिणी शिव-रात्रिस्तथैव पूर्व्वविद्धैव कर्त्तव्या तिथिभान्ते चपारणम्” “श्रावणी दूर्गनवमी तथा दुर्वाष्टमी या ।पूर्व्वविद्धा तु कर्त्तव्या शिवरात्रिर्बलेर्दिनमिति” “जयन्ती शिवरात्रिश्च कार्य्ये भद्राजयान्विते” इति नागर-खण्डे “माघफाल्गुनयोर्मध्ये असिता या चतु-र्द्दशी अनङ्गेन समायुक्ता कर्त्तव्या सा सदा तिथिरिति” पद्मपुराणे “अर्द्धरात्रात् पुरस्ताच्चेज्जयायोगोयदा भवेत् पूर्व्वविद्धैव कर्त्तव्या शिवरात्रिः शिव-प्रियैरिति” व्रह्मवैवर्त्ते “रुद्रव्रतेषु सर्वेषु कर्त्तव्यसंमुखी तिथिः अन्येषु व्रतकल्पेषु परयुक्तामुपावसेदिति” दर्शयोगनिन्दा स्कन्दपुराणे दर्शिता“महतामपि पापानां दृष्टा वै निःकृतिः पुरा दृष्टाकुर्वतां पुंसां कुहूयुक्तां तिथिं शिवामिति” अन्यान्यपि यानि कानिचिद्दर्शयोगनिन्दावचनानि तत्र तत्रस्मर्य्यन्ते तानि सर्व्वाण्यस्मिन्विषये योजनीयानि ।यदा पूर्व्वेद्युर्निशीथादूर्द्ध्वं पवृत्ताचतुर्द्दशी, परेद्युः क्ष-यवशात्निशीथादर्वागेव समाप्ता तदा पूर्व्वेद्युः प्रदोषनिशीथव्याप्त्योरुभयोरप्यसम्भवात्परेद्युः प्रदोषव्याप्ते-रेकस्याः सद्भावाच्च परविद्धैव ग्राह्या एतदेवाभिप्रेत्य-स्तर्य्यते “माघासिते भूतदिनं कदाचिदुपैति योगं यदिषञ्चदश्या जयाप्रयुक्तां तु जातु कुर्य्याच्छिवस्य-रात्रिं प्रियकृच्छिवस्येति” यदा पूर्व्वेद्युः प्रदोषादूर्ध्वप्रवृत्ता चतुर्द्दशी, परेद्युः क्षयवशात्प्रदोषादर्वागेव समाप्तातदा परेद्ध्युर्व्याप्तिद्वयाभावात्पूर्वेदुर्निशीथव्याप्तेः स-द्भावाज्जयायोगाच्च पूर्व्वेद्युरेवोपवासः अत्रायं वि-वेकः सम्पन्नः दिनद्वये निशीथव्याप्तौ तदव्याप्तौ चप्रदोषव्याप्तिर्नियामिका तथा दिनद्वयेऽपि प्रदोषव्याप्तौतदव्याप्तौ निशीथव्याप्तिर्निर्यामिका एकैकस्मिन्दिन एकैकव्याप्तौ जयायोगो नियामक इति अस्यशिवरात्रिव्रतस्याहोरात्रसाध्यत्वेनाहनि रात्रौ सम्बन्धेसाधारणे सति अहर्वेधमुपेक्ष्य प्रदोषनिशीथयोरेवकुतः शास्त्राणां पक्षपात इति चेत् रात्रेरत्र प्रधा-नत्वादिति ब्रूमः तत्प्राधान्येन चोपपत्तिः स्कन्द-पुराणे पट्यते “निशि भ्रमन्ति भूतानि शक्तयः शूलभृद्-यतः अतस्तस्यां त्रयोदश्यां सत्यां तत्पूजनम्भवेदिति” ।तस्यान्त्रयोदश्यामिति व्यधिकरणे सप्रम्पौ तथाचायमर्थः सम्पद्यते त्रयोदशीनिशीथे तस्यां चतुर्द्दश्यांविद्यमानायां शिवपूजनम्भवेदिति नागरखण्डेऽपि“माघमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर! अहं या-स्यामि भूपृष्ठे रात्रौ नैव दिवा कलौ लिङ्गेषु चसमस्तेषु चरेषु स्थावरेषु संक्रमिष्याम्यसन्दिग्धंवर्षपापविशुद्धये रात्रौ तस्यां हि मे पूजां यः करि-ष्यति मानवः मन्त्रैरेतैः सुरश्रेष्ठ! विपापः भवि-ष्यतीति” सा शिवरात्रिचतुर्दशी त्रिधा भवति ।एकतिथ्यत्मिका तिथिद्वयात्मिका तिथित्रयात्मिकाचेति तत्र सूर्य्योदयमारभ्य प्रवृत्ता परदिनोदयप-र्य्यन्तैकतिथ्यात्मिका सा वेधदोषाभावात्प्रशस्ता ।तिथिद्वयात्मकत्वं द्वेधा भवति जयायोगेन दर्श-योगे तत्र योगद्वयमेकैकस्मिन्विषये प्रशस्तम् ।स विषयविशेषः पूर्वमेवोदाहृतः तिथित्रयात्मकत्व-न्त्वतिप्रशस्तम् एतदेवाभिप्रेत्य पुराणे पठ्यते “त्रयो-दशीकलाप्येका मध्ये चैव चतुर्दशी अन्ते चैव सिनी-बाली त्रिस्पृश्यां शिवमर्चयेत्” यथा त्रिस्पृशी प्रशस्तातथा वारविशेषेण योगविशेषेण प्रशस्ता भवति तथाच स्कन्दपुराणे पठ्यते “माघकृष्णचतुर्दश्यां रविवारोयदा भवेत् भौमोवाथ भवेद्देवि! कर्त्तव्यं व्रतमुत्त-मम् शिवयोगस्य योगे वै तद्भवेदुत्तमोत्तमम् शिव-रात्रिव्रतन्त्वेतत्तद्भवेदुत्तमोत्तममिति” ननु यदा पूर्व-विद्धायामुपवासस्तदा परेद्युः किं तिथ्यन्ते पारणम्भवतिकिं वा तिथिमध्ये शास्त्रन्तु पक्षद्वयेऽपि समानम् ।तत्र तिथ्यन्तपारणघचनानि पूर्वमुदाहृतानि “तिथिमध्यपारणवचनन्तु स्क न्दपुराणे पठ्यते “उपोषणं चतु-र्दश्यां चतुर्दश्यान्तु पारणम् कृतैः सुकृतलक्षैश्च लभ्यतेवाथ बा वा ब्रह्मा स्वयं चतुर्वक्त्रैः पञ्चवक्त्वैस्तथाप्यहम् ।सिक्थे सिक्थे फलन्तस्य शक्तौ वक्तुं पार्वति! ब्र-ह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै संस्थितानिभवन्तीह भूतायां पारणे कृते” “तिथीनामेव सर्वासा-मुपवासव्रतादिषु तिथ्यन्ते पारणङ्कुर्य्याद्विना शिवचतुर्दशीमिति” बाढम् अस्ति हि द्विविधं शास्त्रंतस्य द्विविधस्य शास्त्रस्य प्रतिपत्प्रकरणोक्तन्यायेनव्यवस्था द्रष्टव्या यदा यापत्रयादर्वागेव चतुर्दशी परि-समाप्यते तदा तिथ्यन्ते पारणम् यदा तु चतुर्दशीयामत्रयमतिक्रामति तदा चतुर्दशीमध्ये पूर्वाह्णे पारण-ङ्कर्य्यात्” ति० त० अन्यथोक्तं गौडमात्रग्राह्यत्वान्नोक्तम् ।चतस्रोदशा अस्य चतुर्दशायुक्ते
त्रि०
“अधीति-बोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नु पाधिभिः चतु-र्दशत्वं कृतवान् कुतः? स्वयं वेद्मि विद्यासु चतुर्दश-स्वयम्” नैष० प्रकारे धाच् चतुर्दशधा चतुर्दशप्रकारे
अव्य०
नान्तत्वात् पूरणे डटि प्राप्ते असंख्यादेरिति पर्य्युदासेऽपि क्वचिदार्षे मट् चतुर्दशम चतुर्दशपूरणे
त्रि०
“मनुर्वा इन्द्रसावर्णिश्चतुर्दशम इत्यपि”भाग० १३ १५