| YouTube Channel

चतुर्दोल (caturdola)

 
शब्दसागरः
English
चतुर्दोल
n.
(-लं) A royal letter.
E.
चतुर् four, (supporters, ) दोल a swing.
Yates
English
चतु-र्दोल (लं) 1.
n.
A royal litter.
Wilson
English
चतुर्द्दोल
n.
(-लं) A royal litter.
E.
चतुर four, (supporters, ) दोल a swing.
Monier Williams Cologne
English
चतुर्—दोल
m.
n.
a royal litter,
Bhoj.
Apte Hindi
Hindi
चतुर्दोलः
पुं*
चतुर्-दोलः -
राजकीय पालकी
चतुर्दोलम्
नपुं*
चतुर्-दोलम् -
राजकीय पालकी
Shabdartha Kaustubha
Kannada
चतुर्दोल
पदविभागः - > पुल्लिङ्गः / नपुंसकलिङ्गः
कन्नडार्थः - > ನಾಕು ಜನರು ಹೆಗಲ ಮೇಲೆ ಹೊರುವ ರಾಜನ ಒಂದು ವಾಹನ /ಶಿಬಿಕೆ /ಚೌಕಟ್ಟಿನ ದೋಲಿ
विस्तारः - > "राज्ञो यत् द्विपदं यानं विशेषाख्यमलं विदुः चतुर्भिरुह्यते यत्तु चतुर्दोलं तदुच्यते ॥" - भोजदेवः
L R Vaidya
English
catur-dola {% m.n. %} a royal litter.
शब्दकल्पद्रुमः
Sanskrit
चतुर्द्दोलं,
क्ली,
पुं,
(चतुर्भिर्वाहकैर्दोल्यते उत्क्षिप्यनीयते उह्यते इति यावत् दोलि + कर्म्मणिघञ् यद्वा, चतुर्भिदण्डैरुपलक्षितं दोलंदोलायमानयानविशेषः ।) स्वनामख्यातयान-विशेषः यथा, --“राज्ञो यद्द्विपदं यानं विशेषाख्यमलं विदुः ।चतुर्भिरुह्यते यत्तु चतुर्द्दोलं तदुच्यते
भोजस्तु ।चतुर्भिर्वाहकैर्द्दण्डैः षड्भिः कुम्भैः सुसंस्थितैः ।स्तम्भैरष्टाभिरुदितं चतुर्द्दोलमनुत्तमम्
तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् ।चतुर्व्विधानां भूपानां चतुर्द्दोलाः प्रकाशिताः
त्रिहस्तसम्मितायामो द्विहस्तपरिणाहवान् ।हस्तद्वयोन्नतः प्रोक्तश्चतुर्द्दोलो जयाख्यया
चतुर्हस्तायतो यस्तु सार्द्धद्धन्द्वस्तदन्यथा ।चतुर्द्दोलः समाख्यातः कल्याणस्तावदुन्नतः
पञ्चहस्तायतो यस्तु त्रिहस्तपरिणाहवान् ।तावदेवोन्नतो वीरश्चतुर्द्दोल उदाहृतः
आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः ।चतुर्द्दोलो ह्ययं सिंहस्तदर्द्धेनोन्नतः शुभः
सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः ।आद्यः समरवर्षासु परः केलिघनात्यये
सर्व्वेषामेव काष्ठानां दण्डः स्याद्वज्रवारणः ।चन्दनेनैव घटना सर्व्वेषामुपयुज्यते
लोलजं सर्व्ववस्त्रेषु कनकं सर्व्वधातुषु ।कुम्भश्च पद्मकोषश्च गिरिश्चेति यथाक्रमम्
त्रैदेशानां महीन्द्राणां चतुर्द्दोलेषु विन्यसेत्
दर्पणञ्चार्द्धचन्द्रश्च हंसः केकी शुको गजः ।अश्वः सिंहश्च तस्याग्रे आदित्यादिदशोत्तरान्
मणिनियमस्तु दण्डवत्
रक्तः शुक्लश्च पीतश्च कृष्णश्चित्रस्तथारुणः ।नीलः कपिल इत्युक्तः पताकानान्तु संग्रहः
चतुर्द्दोलः सपताकः शुभयानमिति स्मृतः
मुक्तास्तवकैर्द्दशभिर्युक्तः स्याद्राजकेशानाम् ।चामरदण्डैर्द्दशभिर्दिग्जयिनां चतुर्द्दोलः
चासपक्षस्य पुच्छश्चेत् सर्व्वोपरि परिन्यसेत् ।यात्रासिद्धिरयं नाम्ना चतुर्द्दोलो महीभुजाम्
स्तम्भच्छादरहितो निश्छदिरुक्तश्चतर्द्दोलः मानंपूर्व्ववत्
पुनर्द्विविधः प्रोक्तः सध्वजश्चाथनिर्ध्वजः ।ध्वजान् षडत्र न्यस्यन्ति षडर्गविजयैषिणः
तेषां मानन्तु चत्वारः स्वामिहस्तैकसम्मिताः ।कोणेषु पश्चादग्रे हस्तद्वयमितौ ध्वजौ
सुवर्णं रजतं युग्मं त्रिविधानां महीभुजाम् ।मणिचामरकुम्भानां खड्गादीनां विनिश्चयः
चतुर्द्दोलध्वजे राज्ञां विज्ञेयो नवदण्डवत् ।निर्ध्वजे चतुर्द्दोले मानमन्यतमं शृणु
आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः ।विजयो नाम विज्ञातश्चतुर्द्दोलो महीभुजाम्
विजयो मङ्गलो भव्यो वितस्त्येकैकवृद्धितः ।त्रिविधानां महीन्द्राणां यानत्रयमुदाहृतम्
अष्टाभिरुह्यते यस्तु अष्टदोलमुशन्ति ।सोपानद्वितयञ्चात्र विज्ञेयं शिल्पिनिर्म्मितम्
भोजस्तु ।अष्टाभिर्व्वाहकैर्द्दण्डैः षड्भिस्तु दशभिर्घटैः ।स्तम्भैस्तु दशभिर्ज्ञेयमष्टदोलं महीभुजाम्
तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् ।चतुर्व्विधानां भूपानामष्टदोलाः प्रकाशिताः
षड्भिर्हस्तैर्म्मितायामः परिणाहश्चतुर्भुजः ।चतुर्हस्तोन्नतो राज्ञामष्टदोलं जयं विदुः
आयामपरिणाहाभ्यां पञ्चहस्तमितो हि यः ।कल्याणाख्योऽष्टदोलोऽयं चतुर्हस्तमितोन्नतिः
सप्तहस्तायतः कार्य्ये प्रवरे पञ्चहस्तकः ।पञ्चहस्तोन्नतो वीरश्चाष्टदोलो महीभुजाम्
आयामपरिणाहाभ्यामष्टहस्तमितो हि यः ।सिंहनामाष्टदोलोऽयं विज्ञेयः षड्भुजोन्नतः
सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः ।काष्ठवस्त्रघटादीनां मणीनां चामरस्य
चतुर्द्दोलवदुन्नेयो नियमोऽन्योऽपि सूरिभिः ।पूर्व्ववन्निश्छदेर्मानं ध्वजमानमिहोच्यते
दशध्वजास्तेषु चाष्टौ स्वामिहस्तद्वयोन्नताः ।पश्चादग्रे ध्वजौ राज्ञश्चतुर्हस्तमितौ मतौ
मणिचामरपक्षाणां निर्णयो निष्पताकवत् ।निर्ध्वजश्चाष्टदोलो यः शिविकेति गद्यते
मणिकुम्भमुखादीनां नियमो नवदण्डवत् ।इत्यष्टदोलकथनम्
*
एवं द्बादशषोडशविंशतिदोलादिकाः कार्य्याः ।मानं सार्द्धद्विगुणं सार्द्धत्रिगुणितं युक्तमेतेषाम्
विंशतिदोलात् परतो भोजमते सम्भवेद्यानम् ।यानं बह्वनुयोज्यं बहुगुणमेतज्जगाद वै व्यासः
भविष्योत्तरेऽपि ।यदुक्तं द्वैपदं यानं तेन मानेन यो नृपः ।स्वयानं कुरुते दिव्यं चिरं सुखमश्नुते
स्वयोगयुक्तयानस्थो भोगमाप्नोति मानवः ।परयौगिकयानस्थः क्लेशमाप्नोति पुष्कलम्
यो दम्भादथवाज्ञानाद्यानं प्रकुरुतेऽन्यथा ।तस्यैतानि विनश्यन्ति आयुर्व्विद्या यशो धनम्
प्रधानं यानमाश्रित्य नियमोऽयं समाश्रितः ।नाप्रधाने निर्णयोऽस्ति तल्लिङ्गन्तु मनोज्ञता
”इति युक्तिकल्पतरुः
वाचस्पत्यम्
Sanskrit
चतुर्द्दोल पुं
न०
(चण्डोल) इति (चन्दोल) इति ख्याते“राज्ञोयद् द्विपदं यानं विशेषाख्यमलं विदुः चतुर्भि-रुह्यते यत्तु चतुर्दोलं तदुच्यते” उक्ते चतुर्भिर्बाह्येयानविशेषे प्रसङ्गाच्चतुर्दोलाष्टदोललक्षणभेदादिकं भोज-देवोक्तं प्रदर्श्यअते “चतुर्भिर्वाहकैर्दण्डैः षड्मिःकुम्भैः सुसंस्थितैः स्तम्भैरष्टाभिरुदितं चतुर्द्दोलमनु-त्तमम् तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् ।चतुर्विधानां भ्रपानां चतुर्द्दोलाः प्रकाशिताः त्रिहस्तु-सम्मितायामो द्विहस्तपरिणाहवान् हस्तद्वयोन्नतःप्रोक्तश्चतुर्द्दोलोजयाख्यया चतुर्हस्तायतोयस्तु सार्द्धहस्त-स्तु विस्तृतौ चतुर्द्दोलः समाख्यातः कल्याणस्तावदुन्नतः ।पञ्चहस्तायतोयस्तु त्रिहस्तपरिणाहवान् तावदेवो-न्नतोवीरश्चतुर्द्दोल उदाहृतः आयामपरिणाहाभ्यांचतुर्हस्तमितोहि यः चतुर्द्दोलोह्ययं सिंहस्तदर्धे-नोन्नतः शुभः सर्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि-निश्छदिः आद्यः समरवर्षासु परः केलिघनात्यये ।सर्वेषामेव काष्ठानां दण्डः स्याद्वज्रवारणः चन्दने-नैव घटना सर्वेषामुपयुज्यते लोमजं सर्ववस्त्रेषुकनकं सर्वधातुषु कुम्भश्च पद्मकोषश्च सिरिश्चेतियथाक्रमम् त्रैदेशानां महीन्द्राणां चतुर्दोलेषुविन्यसेत् दर्पणं चार्द्धचन्द्रश्च हंसः केकी शुकी-गजः अश्वः सिंहश्च तस्याग्रे आदित्यादिदशो-त्तरान्” मणिनियमस्तु दण्डवत् “रक्तः शुक्लश्चपीतश्च कृष्णश्चित्रस्तथाऽरुणः नीलः कपिल इत्युक्तःपताकानान्तु सङ्ग्रहः चतुर्दोलः सपताकः शुभयानमिति स्मृतः मुक्तास्तवकैर्वशभिर्युक्तः स्वाद्राजके-शानाम् चामरदर्ण्डर्दशभिर्दिग्जयिनां चतुर्दोलः ।चाषपक्षस्य पुच्छश्चेत् सर्वोपरि परिन्यसेत् यात्रा-सिद्धिरयं नाम्ना चतुर्दोलो महीभुजाम् स्तम्भश्छ-दिरहितो निश्छदिरुक्तश्चतुर्दोलः” मानं पूर्ववत् ।“स पुनर्द्विविधः प्रोक्तः सध्वजश्चाथ निर्ध्वजः ध्वजान्षडत्र न्यस्यन्ति षड्वर्गविजयैषिणः तेषां मानन्तुचत्वारः स्वाभिहस्तैकसम्मिताः कोणेषु पश्चादग्रेषुहस्तद्वयमितौ ध्वजौ सुवर्णं रजतं युग्मं त्रिविधानांमहोभुजाम् मणिचामरकुम्भानां खड्गादीनांविनिश्चयः चतुर्दोलध्वजोराज्ञां विज्ञेयो नवदण्डवत् ।निर्ध्वजे तु चतुर्दोले मानमन्यविधं शृणु आयामपरिणाहाभ्यां चतुर्हस्तमितोहि यः विजयोनामविज्ञातश्चतुर्दोलोमहीभुजाम् विजयो मङ्गलोभव्योवितस्त्येकैकवृद्धितः त्रिविधानां महीन्द्राणांयानत्रयमुदाहृतम् अष्टाभिरुह्यते यस्तु अष्टदोलमुशन्ति तम् सोपानद्वितयञ्चात्र विज्ञेयं शिल्पिनिर्मितम्” भोजस्तु “अष्टाभिर्वाहकैर्दण्डैः षड-भिस्तु दशभिर्घटैः स्तम्भैस्तु दशभिर्ज्ञेयमष्टदोलं मही-भुजाम् तद्भेदाजयकल्याणवीरसिंहा यथाक्रमम् ।चतुर्विधानां भूपानामष्टदोलाः प्रकीर्त्तिताः षड्भि-र्हस्तैर्मितायामः परिणाहे चतुर्भुजः चतुर्हस्तोन्नतोराज्ञामष्टदोलं जयं विदुः आयामपरिणाहाभ्यांपञ्चहस्तमितोहि यः कल्याणाख्योऽष्टदोलोऽयं चतुर्हस्तमितोन्नतिः सप्तहस्तायतः कार्योविस्तरे पञ्च-हस्तकः पञ्चहस्तोन्नतो वीरश्चाष्टदोलो महीमुजाम् आयामपरिणाहाभ्यामष्टहस्तमितोहि यः ।सिंहनामाष्टदोलोऽयं विज्ञेयः षड्भुजोन्नतः सर्वोऽथद्विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः काष्ठवस्त्रघटादीनां मणीनां चामरस्य चतुर्दोलवदुन्नेयोनियमोऽन्योऽपि सूरिभिः पूर्ववन्निश्छदेर्मानं ध्वज-मानमिहोच्यते दशध्वजास्तेषु चाष्टौ स्वामिहस्तद्वयोन्नताः पश्चादग्रे ध्वजौ राज्ञश्चतुर्हस्तमितौ मतौ ।मणिचामरपक्षाणां निर्णयो निष्पताकवत् निर्ध्वजश्चाष्टदोलोयः शिविकेति गद्यते मणिकुम्भमुखादीनांनियमो नवदण्डवत्” “एवं द्वादश षोडशविंशति दोला-दिकाः कार्य्याः मान सार्द्धद्विंगुणितं सार्द्धत्रिगुणितंयुक्तमेतेषाम् विंशतिदोलात् परतो भोजमते सम्भवेद्या-नम्” यानं वह्वनुयोज्यं बहुगुणमेतज्जगाद वैव्यासः” भविष्योत्तरेऽपि “यदुक्तं द्वैपदं यानं तेनमानेन योनृपः स्वयानं कुरुते दिव्यं चिरं सुखम-श्नुते स्वयोगयुक्तयानस्थो भोगमाप्नोति मानवः ।परयौगिकयानस्थः क्लेशमाप्नोति पुष्कलम् योदम्भादथ-वाऽज्ञानाद्यानं प्रकुरुतेऽन्यथा तस्यैतानि विनश्यन्तिआयुर्विद्यायशोधनम् प्रधानं यानमाश्रित्य नियमोऽयंसमाश्रितः नाप्रधाने निर्णयोऽस्ति तल्लिङ्गन्तु मनोज्ञता”