चतुर्दशभुवन (caturdazabhuvana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaचतुर्दशभुवन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಭೂಲೋಕ ಮೊದಲಾದ ೧೪ ಲೋಕಗಳು
व्युत्पत्तिः - > चतुर्दशानां भुवनानां समाहारः
वाचस्पत्यम्
Sanskritचतुर्दशभुवन समा० द्विगुः पात्रादि न ङीप् स्त्रीत्वे ।भूलोकादिषु चतुर्दशसु लोकेषु । “झूर्लोकाख्योदक्षिणो व्यक्षदेशात् तस्मात् सौम्योऽयं भुवः स्वश्च मेरुः ।लभ्यः पुण्यैः खे महः स्याज्जनोऽतोऽनल्पानल्पैः स्या-त्तपः सत्यमन्त्यः” “सि० शि० भुवनकोषे भूलोकादिसप्तकमुक्तम् “अवनेरप्यधस्तात् सप्त भूविवरा एकैकशोयोजनायुतान्तरेणायामविस्तारेणोपकॢप्ताः । अतलंवितलं सुतलं तलातलं महातलं रसातलं पातालमिति” भाग० ५ । २४ । ११ श्लोके अतलादिसप्तकमुक्तम्तद्विवरणं तत्राध्याये दृश्यम् । भूलोकादिविवरणंकाशीख० २३ अ० । “पादगम्यं हि यत् किञ्चि-द्वस्त्वस्ति धरणीतले । तद्भूर्लोक इति ख्यातं साब्धिद्वीपाद्रिकाननम् । भूर्लोकाच्च भुवर्लोक आब्रध्नात्समुदाहृतः । आदित्यादाध्रुवं विप्र! स्वर्लोक इतिगीयते । महर्लोकः क्षितेरूर्द्धमेककोटिप्रमाणतः ।कोटिद्वयोत्तरः ख्यातो जनो भूर्लोकयोजनैः । चतुः-कोटिप्रमाणस्तु तपोलोकोहि भूतलात् । उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम्” ।योगिनां तनुमध्ये ध्येयानि स्थानभेदे चतुर्दश भुव-नादीनि योगस्वरोदये उक्तानि यथा ।“व्रह्माण्डे सन्ति ये अण्डाः पिण्डमध्येऽपि संस्थिताः ।तलं पादाङ्गुष्ठतले तस्योपरि तलातलम् । महातलं गुल्-फमध्ये गुल्फोपरि रसातलम् । सुतलं जङ्घयोर्म्म-ध्ये वितलं जानुमध्यगम् । ऊर्वोर्म्भध्ये तलंप्रोक्तं सप्त-पातालमारितम् । तलातलञ्चातलञ्च महातलरसा-तलम् । सप्तपातालमेतत्तु सुतलं वितलं तलम् । इदानींपिण्डमध्येतु सप्तलोकं शृणु प्रिये! । मूलाधारे तु भूर्लोकोलिङ्गाग्रे तु भुवस्ततः । स्वर्लोको लिङ्गमूले तु मेरुमूलेमहस्तथा । मेरुच्छिद्रे जनोलोको मेरुनाड्यां तप-स्तथा । कमले सत्यलोकस्तु इति लोकाः पृथक् पृथक्भूभुवः स्वर्महश्चेति जनश्चैव तपस्तथा । सप्तमासत्यलोकस्तुसप्त लोका इति स्मृताः । सप्तलोकैस्तु पातालैभु वनानिचतुर्दश । अथ ब्रह्माण्डमध्यस्थाश्चत्वारो लोकपालकाः ।पिण्डमध्ये तु तान् ज्ञात्वा सर्वसिद्धीश्वरोभवेत् । इन्द्रो-ब्रह्मा विष्णुरीशश्चत्वारश्चात्मदेवताः । मूलाधारे चतुःपत्रेगजारूढो महानिति । सृष्टिकर्त्ता च तत्रैव स्वाधिष्ठानेमहान् हरिः । मणिपूरे शूलपाणिरष्टसिद्धीश्वरो-महान् । तालुद्वारे तालुमध्ये ललाटे वक्षःकण्ठकेशृङ्गाटिकाकपाले च लम्बिकाब्रह्मरन्ध्रके । नवचक्र-मूर्द्ध्वचक्रं ९ त्निकूटेत्येकविंशतिः । ब्रह्माण्डानि वसन्तीति ज्ञातव्यानि प्रयत्नतः । सप्त द्वीपानि कथ्यन्तेऽधुना-तानि शृणु प्रिये! । जभ्वुद्वीपन्तु मज्जायां शाकद्वीपन्तुमध्यमे । शाल्मद्वीपः शिरोमध्ये मांसमध्ये कुशस्तथा ।त्वचि क्रौञ्चोलोममध्ये गोमेदद्वीप ईरितः । नखमध्येतथा श्वेतः सप्तद्वीपा वसुन्धरा । जम्बुःशाकस्तथा शा-ल्मःकुशःक्रौञ्चश्च गोमयः । श्वेतः सप्तेति खण्डानिसप्तखण्डैर्वसुन्धरा । सप्तान्येतानि रूपाणि देहमध्येस्थितानि च । समुद्राःसप्त कथ्यन्ते पिण्डमध्येव्यपस्थिताः । लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः ।लवणः स्वेदमध्ये तु इक्षूरक्ते मधुत्वचि । सर्पिर्मेदोवसा-मध्ये दधिक्षीरं ललाटके । वीर्य्यमध्येऽमृतोज्ञेयः पादेकूर्म्मः स्थितोमहान् । इदानीन्तु नवद्वारे नवखण्डा-नि संशृणु । पाय्वादौ भारतं खण्डं काश्मीरं त्रिकम-ण्डलु । द्विजखण्डमेकपादं खण्डं वक्ष्ये समण्डलम् ।कैवर्त्तगर्त्तगान्धारं नवखण्डमिति स्थितम् । इदानींपर्वताष्टौ च कथ्यन्ते शृणु यत्नतः । मेरुदण्डे सुमेरुस्तुपीठमध्ये हिमालयः । वामस्कन्दे तथा दक्षे मलयोमन्द-राचलः । विन्ध्यस्तु दक्षिणे कर्णे वामे मैनाक ईश्वरि! ।लन्ताटे मध्यदेशे तु श्रीशैलः परमेश्वरि! । तथा व्रह्मकपा-लस्थः कैलाशःपर्वतोमहान् । सुमेरुर्हिमवान् विन्ध्योमलयो-मन्दरस्तथा । श्नीशैलः मैनाकश्चेति कैलाशोऽष्टौ च पर्वताः ।अपरे पर्वताःसर्वे अङ्गुलीमध्यवासिनः । शरीरे नव-नाडीस्था नर्म्मदा च महेश्वरि! । इडायां यमुना देवि!पिङ्गलायां सरस्वती । सुषुम्णायां वहेद्गङ्गा चान्याऽन्यासु च नांडिषु । गङ्गासरस्वतीगोदानर्म्मदायमुना-तथा । कावेरी चन्द्रभागा च वितस्ता च इरावती ।द्विसप्ततिसहस्रेषु नदीनदपरिस्रवः । इतस्ततोदेहमध्येऋक्षाणि सप्तविंशतिः । योगाश्च राशयश्चैव ग्रहाश्च तिथ-यस्तथा । लहरीषु मीनमणी वाहनं स्थापनं तथा ।सर्वाङ्गेषुच देवेशि! समग्रमृक्षमण्डलम् । त्रयस्त्रिंशत्-कोटयस्तु निवसन्ति च देवताः । तथा पीठानि सर्वाणिदेहमध्ये स्थितानि च । हृदये व्योममध्ये तु अनन्ताद्या-स्तु वासुकिः । उदये व्योममध्ये तु परे नागा व सन्ति हि ।गन्धर्वकिन्नराःशूरा विद्याधराप्सरादयः । अनेकतीर्थ-वर्णाश्च गुह्यकाश्च वसन्ति हि । अनन्तसिद्धये वुद्ध्या प्रका-शोवर्त्तते हृदि । मेघस्य मण्डलं ज्ञेयमश्रुपाते तथैव च ।चन्द्रार्कौ नेत्रयोर्म्मध्ये जङ्घलोमसु साक्षिणः । तृणगु-ल्मादिकञ्चापि विश्वरूपंस्मरेत्ततः । समग्रदर्शनान्मुक्तःस्वर्गभोगञ्च सत्सुखम । तदेतच्चिन्तया याति रोगशोक-विवर्ज्यताम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
