| YouTube Channel

चतुरङ्गं (caturaGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
चतुरङ्गं,
क्ली,
(चत्वारि अङ्गानि यस्य ।) हस्त्यश्व-रथपदातिरूपं सैन्यम् यथा, रामायणे ।“चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि ।”अक्षक्रीडाविशेषः चौरंखेला इति भाषा
यथा, --युधिष्ठिर उवाच ।“अष्टकोष्ठ्याञ्च या क्रीडा तां मे ब्रूहि तपोधन ! ।प्रकर्षेणैव मे नाथ चतूराजी यतो भवेत्
व्यास उवाच ।अष्टो कोष्ठान् समालिख्य प्रदक्षिणक्रमेण तु ।अरुणं पूर्व्वतः कृत्वा दक्षिणे हरितं बलम्
पार्थ ! पश्चिमतः पीतमुत्तरे श्यामलं बलम् ।राज्ञो वामे गजं कुर्य्यात् तस्मादश्वं ततस्तरिम्
कुर्य्यात् कौन्तेय ! पुरतो युद्धे पत्तिचतुष्टयम् ।कोणे नौका द्वितीयेऽश्वस्तृतीये तु गजो वसेत्
तुरीये वसेद्राजा वटिकाः पुरतः स्थिताः
पञ्चकेन वटी राजा चतुष्केणैव कुञ्जरः
त्रिकेण तु चलत्यश्वः पार्थ ! नौकाद्वयेन तु
कोष्ठमेकं विलङ्घ्याथ सर्व्वतो याति भूपतिः ।अग्र एव वटी याति बलं हन्त्यग्रकोणगम् ।यथेष्टं कुञ्जरो याति चतुर्द्दक्षु महीपते !
तिर्य्यक् तुरङ्गमो याति लङ्घयित्वा त्रिकोष्ठकम् ।कोणकोष्ठद्वयं लङ्घ्य व्रजेन्नौका युधिष्ठिर !
सिंहासनं चतूराजी नृपाकृष्टन्तु षट्पदम् ।काककाष्ठं बृहन्नौका नौकाकृष्टप्रकारकम्
घाताघाते वटी नौका बलं हन्ति युधिष्ठिर ! ।राजा गजो हयश्चापि त्यक्त्वा घातं निहन्ति
अत्यन्तं स्वबलं रक्षेत् स्वराजा बलमुत्तमम् ।अल्पस्यारक्षया पार्थं ! हन्तव्यं बलमुत्तम्
नौकायाश्चत्वारि पदानि अश्वस्याष्टौ पदानिइत्याधिक्यमश्वस्य
मतङ्गजस्य गर्व्वेण राजा क्रीडति निर्भरम् ।तस्मात् सर्व्वबलं दत्त्वारक्ष कौन्तेय ! कुञ्जरम्
सिंहासनं चतूराजी यदवस्थानतो भवेत् ।सर्व्वसैन्यैर्गजैर्वापि रक्षितव्यो महीपतिः
अन्यद्राजपदं राजा यदाक्रान्तो युधिष्ठिर ! ।तदा सिंहासनं तस्य भण्यते नृपसत्तम् !
राजा नृपतिं हत्वा कुर्य्यात् सिंहासनं यदा ।द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत्
द्विगुणं पण्यं दातव्यत्वेन प्रापयेत्
मित्रसिंहासनं पार्थ यदारोहति भूपतिः ।तदा सिंहासनं नाम सर्व्वं नयति तद्बलम्
यदा सिंहासनं कर्त्तुं राजा षष्ठपदाश्रितः ।तदा घातेऽपि हन्तव्यो बलेनापि सुरक्षितः
विद्यमाने नृपे यत्र स्वकीये नृपत्रयम् ।प्राप्नोति तदा तस्य चतूराजी यदा भवेत्
नृपेणैव नृपं हत्वा चतूराजी यदा भवेत् ।द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत्
स्वपदस्थं यदा राजा राजानं हन्ति पार्थिव ।चतुरङ्गे तदा भूप ! वाहयेच्च चतुर्गुणम्
यदा सिंहासने काले चतूराजी समुत्थिता ।चतूराजी भवत्येव तु सिंहासनं नृप !
अत्रेदं बीजं उभयथा जयेऽपि परसिंहासनाधि-कारात् परराजवधे शौर्य्याधिक्यनिष्कण्टकत्व-दर्शनात् क्रीडायामपि तथा कल्प्यते
*
राजद्वयं यदा हस्ते आत्मनो राज्ञि संस्थिते ।परेण संहृतश्चैको बलेनाप्यपहार्य्यते
राजद्वयं यदा हस्ते स्यादन्यकरे परः ।तदा राजा हि राजानं घातेऽपि तं हनिष्यति
नृपाकृष्टे यदा राजा गमिष्यति युधिष्ठिर ! ।घाताघातेऽपि हन्तव्यो राजा तत्र रक्षकः
कोणं राजपदं त्यक्त्वा वटिकान्तं यदा व्रजेत् ।वटी नयेत् पदं नाम तदा कोष्टबलं षट्
यदि तस्य भवेत् पार्थ ! चतूराजी षट्पदम् ।तदापि चतूराजी भवत्येव संशयः
पदातेः षट्पदे विद्धे राज्ञा वा हस्तिना तथा ।षट्पदं भवेत्तस्य अवश्यं शृणु पार्थिव
मप्तमे कोष्ठके या स्याद्बटिका दशकेन वै ।तदान्योन्यञ्च हन्तव्यं सुखाय दुर्ब्बलं बलम्
त्रिवटीकस्य कौन्तेय ! पुरुषस्य कदाचन ।षटपदं भवत्येव इति गोतमभाषितम्
नौकैका वटिका यस्य विद्यते खेलने यदि ।गाढावटीति विख्याता पदं तस्य दुष्यति
गाढाघात्यापदं राजपदं कोणपदञ्च तत् ।हस्ते रङ्गे बलं नास्ति काककाष्ठं तदा भवेत्
वदन्ति राक्षसाः सर्व्वे तस्य स्तो जयाजयौ ।प्रार्थिते पञ्चमे राज्ञि मृतवट्याञ्च षट्पदे
अशौचं स्यात्तदा राजन् ! चलित्वा चालितंपदम् ।द्बिरावृत्त्या गतौ तस्माद्धन्यात् परबलं जयी
सिंहासनं भवत्येव काककाष्ठं भण्यते
उपविष्टञ्च यत् स्थानं तस्योपरिचतुष्टये ।नौकाचतुष्टयं यत्र क्रियते यस्य नौकया
नौकाचतुष्टयं तत्र बृहन्नौकेति भण्यते ।न कुर्य्यादेकदा राजन् ! गजस्याभिमुखं गजम्
यदि कुर्व्वीत धर्म्मज्ञ ! पापग्रस्तो भविष्यति ।स्थानाभावे यदा पार्थ ! हस्तिनं हस्तिसम्मुखम्
करिष्यति तदा राजन्निति गोतमभाषितम् ।प्राप्ते गजद्वये राजन् ! हन्तव्यो वामतो गजः
”इति तिथ्यादितत्त्वे चतुरङ्गक्रीडनम्