| YouTube Channel

चतुःषष्टिकला (catuHSaSTikalA)

 
Shabdartha Kaustubha
Kannada
चतुःषष्टिकला
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅರವತ್ತನಾಲ್ಕು ವಿದ್ಯೆಗಳು
L R Vaidya
English
catur-zazwi˚kalA {% f. pl. %} the sixty-four arts.
वाचस्पत्यम्
Sanskrit
चतुःषष्टिकला स्त्री चतुःषष्टिमिता कला उपविद्याभेदेताश्च कलाशब्दे श्रीधरधृतवाक्ये दर्शिताः खिलशुक्र-नीतिशास्त्रे तु अ० अन्यविधा उक्ता यथा“पृथक् पृथक् तु विद्यानां लक्षणं संप्रकाशितम् ।कलानां पृथग् लक्ष्म नाम चास्तीह केवलम् पृथक्पृथक् क्रिया चात्र कलाभेदस्तु जायते यां यांकलां समाश्रिता, तन्नाम्रा जातिरुच्यते हावभावादिसंयुक्तं नर्त्तनं कला स्मृता अनेकवाद्यविकृतौज्ञानं तद्वादने कला वस्त्रालङ्कारसंधानं स्त्रीयूनोश्चकला मता अनेकरूपाविर्भावकृतिज्ञानं कलास्मृता शय्यास्तरणसंयोगे पुष्पादिग्रथनं कला ।द्यूताद्यनेकक्रीडाभिरञ्जनं तु कला स्मृता अनेकासनसंधाने रतिज्ञानं कला स्मृता कलासप्तकमेतद्धिगान्धर्वे समुदाहृतम् मकरन्दासवादीनां मद्यादीनांकृतिः कला गुह्यशल्यहृतौ ज्ञाने सिरा-व्रणव्यधः कला हीनादिरससंयोगे ऽन्नादिसंपाचनं१० कला वृक्षादिप्रसवारोपपालनादिकृतिः ११ कला ।पाषाणधात्वादिद्रु तिस्तम्भस्य करणं १२ कला याव-दिक्षुविकाराणां कृतिज्ञानं १३ कला स्मृता धात्वो-षधीनां संयोगक्रियाज्ञानं १४ कला स्मृता धातु-साङ्कर्य्यपार्थक्यकरणं १५ तृ कला स्मृता संयोग-पूर्वविज्ञानं १६ धात्वादीनां कला स्मृता द्वारनिष्कासनज्ञानं १७ कलासंज्ञं तु तत् स्मृतम् कलादशकमेतत्तु ह्यायुर्वेदागमेषु शस्त्रसन्धानविक्षेपः १८ पदादिन्या-सतः कला सन्ध्याधाताकृष्टिभेदैर्मल्लयुद्धं ११ कला-स्मृता कलाऽभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनम्२० वाद्यसंकेततोव्यूहरचनादि २१ कला स्मृता ।गजाश्वरथगुप्त्या तु युद्धसंयोजनं २२ कला कलापञ्चकमेतद्धि धनुर्वेदागसस्थितम् विविधासनमुद्रा-भिर्देवतातोषणं २३ कला सारथ्यञ्च गजाश्वादेर्गति-शिक्षा २४ कला स्मृता मृत्तिकाकाष्ठपाषाणधातु-भाण्डादिसत्क्रिया २५ २६ २७ २८ पृथक् कलाचतुष्कं तु चित्रीद्याने खनिः २९ कला तडागवापी-प्रासादसमभूमिक्रिया ३० कला घट्याद्यनेकयन्त्राणांबाणाद्यानां कृतिः ३१ कला हीनमध्यादिसंयोगवर्णादेरञ्जनं ३२ कला जलवाय्वग्निसंयोगनिरो-धादिक्रिया ३३ कला नौकारथादियानानां कृतिज्ञानं३४ कला स्मृता! सूत्रादिरज्जुकरणे विज्ञानं ३५ तुकला स्मृता अनेकतन्तुसंयोगैः पटबन्धः ३६ कला-स्मृता वेधादिसदसज्ज्ञानं ३७ रत्नानां तु कला स्मृता ।स्वर्ण्णादीनां तु याथात्म्यविज्ञानं ३८ कला स्मृता ।कृत्रिमस्वर्ण्णरत्नादिक्रियाज्ञानं ३८ कला स्मृता ।स्वर्णाद्यलङ्कारकृतिः ३९ कला लेपादिसत्कृतिः ४० ।मार्द्दवादिक्रियाज्ञानं ४१ चर्म्मणां तु कला मता ।पशुचर्म्माङ्गनिर्हारक्रियाज्ञानं ४२ कला स्मृता ।दुग्धदोहादिविज्ञानं ४३ घृतान्तं तु कला स्मृता ।सीवने कञ्चुकादीनां विज्ञानं ४४ तु कला स्मृता ।बाह्वादिभिश्च तरणं ४५ कलासंज्ञं जले स्मृतम् ।मार्जने गृहभाण्डादेर्विज्ञानं ४६ तु कला मता वस्त्रसम्मार्जनं ४७ चैव क्षुरकर्म्म ४८ कले ह्युभे तिलमां-सादिस्नेहानां कला निष्कासनं ४९ मता सीराद्या-कर्षणे ज्ञानं ५० वृक्षद्यारोहणे ५१ कला मनोऽ-नुकूलसेवायाः कृतिज्ञानं ५२ कला मता वेणुतृणादिपात्राणां कृतिज्ञानं ५३ कला मता काचपात्रादिकरणविज्ञानं ५४ तु कला मता संसेचनं ५५ संहर-णं ५६ जलानां तु कला स्मृता लोहाभिसारशस्त्रास्त्र-कृतिज्ञानं ५७ कला मता गजाश्ववृषभोष्ट्राणां प-ल्यानादिक्रिया ५८ कला शिशोः संरक्षणे ज्ञानं ५९धारणे ६० क्रीडने ६१ तथा सुयुक्तताडनज्ञान ६२मपराधिजने तथा नानादेशीयवर्ण्णानां सुसम्यग्-लेखनं ६३ कला ताम्बूलरक्षादिकृतिविज्ञानं ६४तु कला स्मृता आदाने आशुकारित्वं प्रतिदाने-चिरक्रिया कलासु द्वौ गुणौ ज्ञेयौ सर्व्वास्वेतौ मनी-षिभिः चतुःषष्टिः कलाह्येताः संक्षेपेण निदर्शिताः ।यां यां कलामाश्रितोयस्तांतां कुर्य्यात् एव हि” ।“चतुःषष्टिकलाविद्या ईश्वरीप्रीतिवर्द्धनम्” गायत्रीकव-चम् वा रस्य विसर्गषत्वे चतुष्षष्टिकलाप्यत्र