| YouTube Channel

चडि (caDi)

 
Shabdartha Kaustubha
Kannada
चडि - कोपे (भ्वा० आत्म० अक० से०) चण्डते
पदविभागः - > धातुः
कन्नडार्थः - > ರೇಗು /ಸಿಟ್ಟು ಮಾಡು /ಕೋಪಿಸಿಕೊ
चडि - कोपे (चुरा० उभ० सक० से०) चण्डयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಕೋಪಿಸಿಕೊ /ಸಿಟ್ಟು ಮಾಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चण्ड्
मूलधातुः:
चडि
धात्वर्थः:
कोपे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
चण्डते
धातुप्रदीपः
Sanskrit
चडिँ चडि कोपे
- चण्डते चण्डः पतिचण्डिभ्यामालञ् (उण्, 1/114) चण्डालः स्वार्थेऽण् चाण्डालः ।। 277 ।।
चडिँ चडि कोपे
- चण्डयति चण्डः 54
क्षीरतरङ्गिणी
Sanskrit
चडिँ चडि कोपे
- चण्डते चण्डः, चण्डा, चण्डी पतिचण्डिभ्यामालञ् (उ0 1116) चण्डालः चुरादौ (1044) चण्डयति 272
चडिँ चडि कोपे
- चण्डयति चण्डः, चण्डा, चण्डी भ्वादौ (1182) चण्डते, चण्डालः 49
धातुवृत्तिः
Sanskrit
चडिँ चडि (अर्थः) कोपे
( चण्डते ) इत्यादि ( चण्डनः ) "क्रुधमण्ड'' इति वा "अनुदात्तेतः'' इति वा युच् ( चण्डालः ) "चण्डपतिभ्यामालच्'' इत्यालच् चण्डालस्यापत्यं, ( चाण्डालकिः) अत इञि "सुधातुरकङ् च'' "व्यासवरुडनिषादचण्डालबिम्बानाम्'' इत्यकङादेशोन्त्यस्य चाण्डलीति शार्ङ्गरवादित्वात् ङीनि तद्युक्तादिति सूत्रकरणे "[ कुलाललकुटकर्मारव्यासवरुडनिषादचण्डालकित्रामित्रेभ्यष्छन्दस्युपसंख्यानम्'' इति उक्तत्वाच्छान्दसः ( चणलः चण्डीति ) "कृदिकारादक्तिनः'' इति ङीष् अयं चुरादौ 275
कृदन्तरूपमाला
Sanskrit
1 {@“चडि कोपे”@} 2 3 चण्डकः-ण्डिका, चण्डकः-ण्डिका, चिचण्डिषकः-षिका, चाचण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 4 ज्ञेयानि।
5 चण्डः- 6 चण्डा-चण्डी, 7 चण्डनः, 8 चण्डा, 9 चण्डालः -- इति रूपाण्यस्य धातोर्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(४८९)
02
=>
(१-भ्वादिः-२७८। अक। सेट्। आत्म।)
03
=>
[[२। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
04
=>
(१४९)
05
=>
[[३। पचाद्यचि (३-१-१३४) रूपम्। ‘अजाद्यतष्टाप्’ (४-१-४) इति स्त्रियां टाप्। गौरादिपाठात् (४-१-४१) ङीषि चण्डी इत्यपि भवति।]]
06
=>
[[आ। ‘अभुण्डितोच्चण्डगतीनशण्डनान् कुमार्गवैतण्डिकपण्डितावृतान्।’ धा। का। १-३७।]]
07
=>
[[४। ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इति तच्छीलादिषु कर्तृषु युच्।]]
08
=>
[[५। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादौ अकारप्रत्ययः।]]
09
=>
[[६। ‘पतिचण्डिभ्यामालञ्’ (द। उ। ८-११६) इत्यालञ् प्रत्ययः।]]