| YouTube Channel

चटुलः (caTulaH)

 
शब्दकल्पद्रुमः
Sanskrit
चटुलः, त्रि, (चटतीति चट् + बाहुलकादुलच् ।यद्वा, चटु + “सिध्मादिभ्यश्च ।” ९७ ।इति मत्वर्थे लच् ।) चञ्चलः इति हेमचन्द्रः ।६ ९१
(यथा, रघुः ५८ ।“त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैःप्रौढप्रियानयनविभ्रमचेष्टितानि
”)सुन्दरः इत्युणादिकोषः