| YouTube Channel

चट (caTa)

 
शब्दसागरः
English
चट r. 1st. and 10th cls. (चटति, चाटयति-ते)
1. To break, to pierce.
2. To
kill, to injure. भ्वादि-पर-सक-सेट् वधे भेदे चुरा-उभ-सक-सेट्
Wilson
English
चट r. 1st and 10th cl. (चटति चाटषति)
1 To break, to pierce
2 To kill, to injure.
Monier Williams Cologne
English
चट See क्रम-.
Shabdartha Kaustubha
Kannada
चट - भेदने (चुरा० उभ० सक० से०) चातयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಭೇದಿಸು /ಒಡೆ /ಬೇರ್ಪಡಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चट्
मूलधातुः:
चट
धात्वर्थः:
भेदने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
चाटयति-ते
धातुप्रदीपः
Sanskrit
चटँ चट
स्फुट भेदने
- चाटयति उच्चाटनम् प्रचाटनम् स्फोटयति आस्फोटयाञ्चकार स्फोटकः अन्यत्र स्फुटति स्फोटते चुरादिणिचोऽनित्यत्वाच्चटति विचटतीति ब्रुवते 182, 183
Sanskrit Tibetan
Tibetan
khro byed
१) क्रूर २) चट ३) रोषण
शब्दकल्पद्रुमः
Sanskrit
चट, भेदे इति कविकल्पद्रुमः (भ्वां-परं-सकं-सेट् ।) चटति इति दुर्गादासः
चट, वधे भेदे इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) क, चाटयति इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
चट भेदे
भ्वा०
पर०
सक०
सेट् चटति अचटीत्--अचाटीत् ।चचाट चटुः चाटुः
चट बधे भेदे
चु०
उभ०
सक०
सेट् चाटयति ते अचीचटत् तउद् + नेदने बधे उत्त्रासने स्थानान्तरायने “उच्चा-टनीयः करतालिकानाम्” नैष० उच्चाटनम्
क्षीरतरङ्गिणी
Sanskrit
चटँ चट
मानकरूपान्तरम् - स्फुटँ
स्फुट भेदे
- उच्चाटयति स्फोटयति भ्वादौ (1226) स्फोटति तुदादौ (678) स्फुटति 188
धातुवृत्तिः
Sanskrit
चटँ चट
मानकरूपान्तरम् - स्फुटँ
फुट (अर्थः) भेदने
( चाटयति ) ( स्फोटयति ) विकाशे स्फोटते इति शपि स्फुटतीति शे 186-187
कृदन्तरूपमाला
Sanskrit
1 {@“चट भेदने”@} 2 चाटकः-टिका, चिचाटयिषकः-षिका
चाटयिता-त्री, चिचाटयिषिता-त्री
उच्चाटयन्-न्ती, 3 विचटन् 4 -न्ती, उच्चिचाटयिषन्-न्ती
चाटयिष्यन्-न्ती-ती, चिचाटयिषिष्यन्-न्ती-ती
चाटयमानः, चिचाटयिषमाणः
चाटयिष्यमाणः, चिचाटयिषिष्यमाणः
उच्चाट्-उच्चाटौ-उच्चाटः
-- उच्चाटितम्-तः, चिचाटयिषितः-तवान्
चाटः, चिचाटयिषुः
चाटयितव्यम्, चिचाटयिषितव्यम्
चाटनीयम्, चिचाटयिषणीयम्
चाट्यम्, चिचाटयिष्यम्
ईषच्चाटः-दुश्चाटः-सुचाटः
-- चाट्यमानः, चिचाटयिष्यमाणः
चाटः, चिचाटयिषः
चाटयितुम्, चिचाटयिषितुम्
चाटना, चिचाटयिषा
चाटनम्, चिचाटयिषणम्
चाटयित्वा, चिचाटयिषित्वा
उच्चाट्य, उच्चिचाटयिष्य
चाटम् २, चाटयित्वा २, चिचाटयिषम्
चिचाटयिषित्वा २। 5
प्रासङ्गिक्यः
01
=>
(४८८)
02
=>
(१०-चुरादिः-१७२२। सक। सेट्। उभ।)
03
=>
[[१। ‘अनित्यण्यन्ताः चुरादयः’ इति वचनात् णिजभावपक्षे शतरि रूपम्।]]
04
=>
[[आ। ‘द्रागामयन् विचटदस्थिकयाऽथ मुष्ट्या प्रास्फोटयत् तमजितोऽपि घाटिताङ्गम्।’ धा। का। ३-३९।]]
05
=>
[पृष्ठम्०४७३+ ३०]