| YouTube Channel

चञ्चना (caJcanA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चन च”@} 2 घटादिः।
3 अत्र सिद्धान्तकौमुद्याम्, ‘वन च’ इति घटादिषु पठयते।
प्रामाणिकः पाठः।
‘चन च’ इत्येव भाब्यम्।
अत एव, क्षीरस्वामि- माधव-नारायणभट्टादिभिः हिंसार्थकत्वेन चनधातुः घटादौ पठितः, व्याख्यातश्च।
“तञ्जावूर् सरस्वतीमहाल्” ग्रन्थालये मुद्रिते पाणिनीय- धातुपाठनामके कोशेऽपि, ‘चन च’ इत्येव दृश्यते।
अतः बहुकोशप्रमाणानु- सारेण हिंसार्थकचनधातो रूपाणि प्रदर्शितानि।
‘चनु च’ इति क्षीरस्वामि- पाठः।
तदानीमुदित्त्वेन क्त्वायामिड्विकल्पः।
तेन चनित्वा-चान्त्वा, इति रूपद्वयमिति विशेषः।]] चकारात् हिंसायामिति पूर्वधातुगतं सम्बध्यते।
चानकः-निका, 4 चनकः-निका, चिचनिषकः-षिका, 5 चञ्चनकः-निका, चंचनकः-निका
6 चनिना-त्री, चनयिता-त्री, चिचनिषिता-त्री, चञ्चनिता-त्री
चनन्-न्ती, चनयन्-न्ती, चिचनिषन्-न्ती
-- चनिष्यन्-न्ती-ती, चनयिष्यन्-न्ती-ती, चिचनिषिष्यन्-न्ती-ती
-- -- चनयमानः, चनयिष्यमाणः, -- चञ्चन्यमानः, चञ्चनिष्यमाणः
7 विचान्-विचानौ-विचानः, -- -- -- चनितम्-तः, चनितः, चिचनिषितः, चञ्चनितः-तवान्
चनः, चनः, चिचनिषुः, चञ्चनः
चनितव्यम्, चनयितव्यम्, चिचनिषितव्यम्, चञ्चनितव्यम्
चननीयम्, चननीयम्, चिचनिषणीयम्, चञ्चननीयम्
चान्यम्, चन्यम्, चिचनिष्यम्, चञ्चन्यम्
ईषच्चनः-दुश्चनः-सुचनः
-- -- चन्यमानः, चन्यमानः, चिचनिष्यमाणः, चञ्चन्यमानः
चानः, चनः, चिचनिषः, चञ्चनः
चनितुम्, चनयितुम्, चिचनिषितुम्, चञ्चनितुम्
8 चान्तिः, चनना, चिचनिषा, चञ्चना
चननम्, चननम्, चिचनिषणम्, चञ्चननम्
चनित्वा, चनयित्वा, चिचनिषित्वा, चञ्चनित्वा
प्रचन्य, 9 प्रचनय्य, प्रचिचनिष्य, प्रचञ्चन्य
चानम् २, चनित्वा २, 10 चनम् २, चानम् २, चनयित्वा २, चिचनिषम् २, चिचनिषित्वा २, चञ्चनम्
चञ्चनित्वा २।
प्रासङ्गिक्यः
01
=>
(४९४)
02
=>
(१-भ्वादिः-८०३। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
[[५। ‘घटादयो मितः’ (गणसूत्रं भ्वादौ) इति मित्त्वम्। तेन, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाया ह्रस्वः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[६। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति, यङन्तेऽभ्यासस्य नुगागमः। ‘स पदान्तवद्वाच्यः’ (वा। ७-४-८५) इति वचनात् परसवर्णविकल्पः। एवं यङन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
06
=>
[पृष्ठम्०४७६+ २५]
07
=>
[[१। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः।]]
08
=>
[[२। ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे, ‘तितुत्रत--’ (७-२-९) इतीण्णिषेधः।]]
09
=>
[[३। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
10
=>
[[४। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्थाम्’ (६-४-९३) इति ण्यन्ताण्णमुलि दीर्घविकल्पः।]]
1 {@“चन्चु गतौ”@} 2 3 चञ्चकः-ञ्चिका, चञ्चकः-ञ्चिका, चिचञ्चिषकः-षिका, 4 चाचचकः-चिका
चञ्चिता-त्री, चञ्चयिता-त्री, चिचञ्चिषिता-त्री, चाचचिता-त्री
चञ्चन्-न्ती चञ्चयन्-न्ती, चिचञ्चिषन्-न्ती
-- चञ्चिष्यन्-न्ती-ती, चञ्चयिष्यन्-न्ती-ती, चिचञ्चिषिष्यन्-न्ती-ती
-- -- चञ्चयमानः, चञ्चयिष्यमाणः, -- चाचच्यमानः, चाचचिष्यमाणः
5 चक्-चग्-चचौ-चचः
-- -- 6 चक्तम्-चक्तः-चक्तवान्, चञ्चितः, चिचञ्चिषितः, चाचचितः-तवान्
7 चञ्चः- 8 चञ्चा, चञ्चः, चिचञ्चिषुः, चाचञ्चः
चञ्चितव्यम्, चञ्चयितव्यम्, चिचञ्चिषितव्यम्, चाचचितव्यम्
चञ्चनीयम्, चञ्चनीयम्, चिचञ्चिषणीयम्, चाचचनीयम्
9 चङ्क्यम्, चञ्च्यम्, चिचञ्चिष्यम्, चाचच्यम्
ईषञ्चञ्चः-दुश्चञ्चः-सुचञ्चः
-- -- 10 चच्यमानः, चञ्च्यमानः, चिचञ्चिष्यमाणः, चाचच्यमानः
चङ्कः, चञ्चः, चिचञ्चिषः, चाचचः
चञ्चितुम्, चञ्चयितुम्, चिचञ्चिषितुम्, चाचचितुम्
चक्तिः, चञ्चना, चिचञ्चिषा, चाचचा
चञ्चनम्, चञ्चनम्, चिचञ्चिषणम्, चाचचनम्
11 चञ्चित्वा-चक्त्वा, चञ्चयित्वा, चिचञ्चिषित्वा, चाचचित्वा
प्रचच्य, प्रचञ्च्य, प्रचिचञ्चिष्य, प्रचाचच्य
चञ्चम् २, चञ्चित्वा २, चक्त्वा २, चन्चम् २, चञ्चयित्वा २, चिचञ्चिषम २, चिचञ्चिषित्वा २, चाचचम्
चाचचित्वा २।
प्रासङ्गिक्यः
01
=>
(४९६)
02
=>
(१-भ्वादिः-१९०। सक। सेट्। पर।)
03
=>
[[१। उपदेशे नकारोपधोऽयं धातुः। नकारस्य, ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनु- स्वारः। तस्य, ‘अनुस्वारस्य ययि परसवर्णः’ (८-४-५८) इति परसबर्णो ञकारः। एवम् सर्वत्र ज्ञेयम्।]]
04
=>
[[२। अन्तरङ्गत्वेन यङ्निमित्तकः धातोरुपधाभूतनकारस्य लोपः। अनन्तरं यलोपाल्लोपौ। एवं यङन्ते सर्वत्र बोध्यम्।]]
05
=>
[[३। क्विपि, उपधानकारलोपे, कुत्वे चर्त्वविकल्पे रूपम्।]]
06
=>
[[४। उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेथः। ‘अनिदितां हल उपधायाः क्ङिति’ (६-४-२४) इत्युपधानकारलोपः। धातोर्गत्यर्थत्वेन, ‘क्तोऽधिकरणे च’ (३-४-७६) इति, ‘गत्यर्थाकर्मक-- (३-४-७२) इत्यनेन चाधिकरणे, कर्तरि क्तप्रत्ययो ज्ञेयः।]]
07
=>
[पृष्ठम्०४७८+ २४]
08
=>
[[१। पचाद्यचि (३-१-१३४) स्त्रियां टाप्। ‘चञ्चा तृणमयः पुमान्’ इति मेदिनी- कोशः।]]
09
=>
[[२। निष्ठायामनिट्त्वात्, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्। एवं घञ्यपि कुत्वं बोध्यम्।]]
10
=>
[[३। ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारलोपः।]]
11
=>
[[४। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिद्विकल्पः। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति सेटः क्त्वायाः कित्त्वनिषेधात् नकारलोपो न।]]