| YouTube Channel

चङ्क्रमणं (caGkramaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
चङ्क्रमणं,
क्ली,
(पुनःपुनरतिशयेन वा क्राम्यतीति ।चङ्क्रम + भावे ल्युट् ।) पुनःपुनर्भ्रमणम् (यथा, भागवते २१ ५० ।“नूनं चङ्क्रमणं देव ! सतां संरक्षणाय ते ।वधाय चासतां यत्त्वं हरेः शक्तिर्हि पालिनी
”)अतिशयभ्रमणम् इति व्याकरणम्
(यथा, सुश्रुते सूत्रस्थाने १९ अध्याये ।“स्थानासनं चङ्क्रमणं यानयानातिभाषणम्
”)अनतिदेहपीडाकारकचङ्क्रमणस्य गुणाः आयु-र्बलमेधाग्नीन्द्रियशुद्धिकारित्वम् सदोपानद्रहित-पादचङ्क्रमणदोषाः अनारोग्यत्वम् अनायुष्य-त्वम् इन्द्रियदृष्टिनाशित्वञ्च इति राजवल्लभः