| YouTube Channel

चक्षुष्यः (cakSuSyaH)

 
Wordnet
Sanskrit
Synonyms:
केतकः, केतकी, इन्दुकलिका, तीक्ष्णपुष्पा, दीर्घपत्रः, पांसुका, अमरपुष्पः, अमरपुष्पकः, कण्टदला, कनककेतकी, कनकपुष्पी, द्रोणीदलः, करतृणम्, क्रकचच्छदः, गन्धपुष्पः, दलपुष्पा, दलपुष्पी, चक्षुष्यः, चामरपुष्पः, छिन्नरुहा, जम्बालः, जम्बुलः, धूलिपुष्पिका, नृपप्रिया, फरेन्द्रः, वलीनकः, विफलः, व्यञ्जनः, शिवद्विष्टा, सुगन्धिनी, सूचिपुष्पः, सूचिका, स्त्रीभूषणम्, स्थिरगन्धः, स्वर्णकेतकी, हनीलः, हलीमः, हेमकेतकी, हैमः
noun
क्षुपविशेषः- यस्य सवासिकस्य पुष्पस्य पत्राणि क्रकचस्य इव तीक्ष्णानि सन्ति।
"अधुना उद्यानस्थस्य केतकस्य पुष्पं विकसति।"
Synonyms:
तीक्ष्णगन्धकः, शोभाञ्जनः, शिग्रुः, तीक्ष्णगन्धकः, अक्षीवः, तीक्ष्णगन्धः, सुतीक्ष्णः, घनपल्लवः, श्वेतमरिचः, तीक्ष्णः, गन्धः, गन्धकः, काक्षीवकः, स्त्रीचित्तहारी, द्रविणनाशनः, कृष्णगन्धा, मूलकपर्णी, नीलशिग्रुः, जनप्रियः, मुखमोदः, चक्षुष्यः, रुचिराञ्जनः
noun
सः वृक्षः यस्य दीर्घबीजगुप्तिः शाकार्थे उपयुज्यते।
"श्यामः तीक्ष्णगन्धकस्य बीजगुप्तिम् उञ्छति।"
शब्दकल्पद्रुमः
Sanskrit
चक्षुष्यः,
पुं,
(चक्षुषे हितः “शरीरावयवात्यत् ।” इति यत् ।) केतकवृक्षः ।पुण्डरीकवृक्षः इति मेदिनी ये ८२
शोभाञ्जनवृक्षः इति राजनिर्घण्टः
रसा-ञ्जनम् इति हेमचन्द्रः
चक्षुष्यः, त्रि, (चक्षुषे हितः चक्षुष् + यत् ।)प्रियदर्शनः इति जटाधरः
(यथा, राज-तरङ्गिण्याम् ४९५ ।“धिया भाग्यानुगामिन्या चेष्टमानो याचितम् ।अभूत् सर्व्वस्य चक्षुष्यः तु दुर्ल्लभवर्द्धनः
”चक्षुजः इति विश्वः यथा, माघे ५७ ।“चक्षुष्यः खलु महताम्परैरलङ्घ्यः
”“चक्षुषि भवश्चक्षुष्यः प्रियोऽक्षिजश्च ।” इति तट्टी-कायां मल्लिनाथः
) चक्षुर्हितः इति मेदिनी ।ये ८२
(यथा, सुश्रुते सूत्रस्थाने २० अध्याये ।“दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्द्धनः
”)