| YouTube Channel

चक्षिँङ् (cakSi~G)

 
धातुप्रदीपः
Sanskrit
चक्षिङ् व्यक्तायां_वाचि
- इकारोऽनुदात्तेतश्च हलादेः (3/2/149) इति विशेषणार्थो युजर्थश्च यद्येवं तत एवात्मनेपदं सेत्स्यति किं ङित्करणेन ? अन्तेदित्त्वान्नुम् स्यात् नुम् मा भूदित्यर्थः एवं तर्ह्यकारोऽस्तु तत एवात्मनेपदं युजपि भविष्यति वैचित्र्यार्थमनुबन्धद्वयस्योपादानमित्येके आत्मनेपदानित्यत्वज्ञापनार्थमित्यन्ये आचष्टे आचक्षाते आचक्षते वा लिटि (2/4/55) इति (4) ख्याञादेशविकल्पः आचख्यौ आचख्ये आचचक्षे अस्यतिवक्तिख्यातिभ्योऽङ् (3/1/52) अख्यत् अख्यत प्रियाख्यः मूलविभुजादिकः (325, वा) गोसंख्यः पशुसंख्यः विचक्षणः नृचक्षाः असुन् सञ्चक्ष्या दुर्जनाः वर्जनीया इत्यर्थः ।। 7 ।।
क्षीरतरङ्गिणी
Sanskrit
चक्षिङ् व्यक्तायां_वाचि
10।अनुदात्तोऽनुदात्तेत् - ङित्करणं नुम्निषेधार्थम्, अन्तग्रहणं हि तत्र (7158 सुत्रे) अनुवर्तते, गणकृत्यमनित्यम् (तु0 सीर0 परि0 121) इति ज्ञापनार्थं यथा-स एवायं नागः सहति कलभेभ्यः परिभवम् (सुभाषित 631) आचष्टे चक्षिङः ख्याञ् (2454) आख्याता वा लिटि (2455) चख्यौ चख्ये, चचक्ष, चचक्षे अस्यतिवक्तिख्यातिभ्योऽङ् (3152) आख्यत् ध्याख्या (8257) इति ख्यातः चक्षेः शिच्च (उ0 2119) इत्युस्-चक्षुः चक्षेर्बहुलं शिच्च (उ04233) इत्यसुन्-नृचक्षा राक्षसः, अवचक्षाः 7
धातुवृत्तिः
Sanskrit
चक्षिङ् (अर्थः) व्यक्तायां_वाचि
अनुदात्तेत् अयं दर्शनकर्म्मा च, यथा-"विश्वारूपाभिवष्टे शवाभिः' इति प्रायेणायमाङ्पूर्वः ( चष्टे ) "स्कोः'' इति कलोपः ( आचक्षात आचक्षते ) कलोपे "षढोः कः सि'' इति कत्वं, चड्ढवे कलोपष्टुत्वयोर्जश्त्वं, (षाढः) ( चचक्षे चचक्षाते चचक्षिरे, चचक्षिवे चचक्षिध्वे चचक्षे चचक्षिवहे चख्ये चख्याते, चख्यिरे चक्षिष्वेचख्ये चख्यिवहे चख्यिमहे ) "वा लिटि'' इति ख्याञादेशा वा, उभयत्र क्रादिनियमादिट् "आतो लोप इटि च'' इत्याल्लोपोऽऽजादौ किति इटि च, ध्वम्याल्लाप इणन्तादङ्गात्परइडिति "विभाषेटः'' इति मूर्द्धन्यविकल्पाभावः परस्तादुपपादायिष्यते ख्याञा ञित्वात्पक्षे परस्मैपदमापि भवति, ( चख्यौ )"आत णलः, '' ( चख्यतुः चख्युः, चख्यिथ चख्याथ चख्यथुः चख्य चख्यौ चख्यिव) थलि''अवस्तास्वत्, ऋता भारद्वाजस्य'' इताड्विकल्पः, क्शादिरप्ययादेश इष्यतेइति वृत्तौ, तेन ( चक्शे चक्शाते चक्शिषे चक्शिवहे चक्शतुः चिक्शुःचक्शिथ चक्शाथ, चक्श चक्शो चक्शिव ) इति भवति भाष्ये तु ख्याञ्क्शाञावुक्त्वोभयोः संग्राहकमादेशान्तरमुक्तम् यथा-ख्शादिर्वा अथवा ख्शादिर्भविष्यति केनेदानीं क्शादिर्भविष्यति? चर्त्वेन अथ ख्यादिः कथम्, [असिद्धे शस्य यववनं विभाषा ] इति असिद्धे शस्येत्यस्यकैयटः, "पूर्वत्रासिद्वम्''इत्यधिकारे णत्वविधानानन्तरं [शस्य यत्वं विभाषा वक्तव्यम् ] इति, हरदतोऽप्येवम् सुधाकरस्तु वाशब्दापजीवनाय "यरोऽनुनासिकेऽनुनासिको वा'' इत्यस्यानन्तरमिति अस्याश्च कल्पनायाः प्रयोजनानि सुप्रख्यस्य भावः सौप्रख्यमित्यत्र "योपधाद्गुरूपात्तमाद्वुञ् इति योपधलक्षणे वुञि, यत्वस्य पूर्वत्रासिद्धत्वेनायोपधत्वाद्वुञभावात् "गुणववनब्राह्मणादिभ्यः कर्मणि च'' इति ष्यञ्, तथा सुप्रख्येन निर्वृत्तो देशस्सौप्रख्यस्तत्र भवः सोप्रख्यीय इत्यत्र "धन्वयापधाद्वुञ्'' इति वुञ् भवति, यत्वस्यासिद्वत्वात्तदभावाद्वृद्धाच्छः पुंसः ख्यानं पुंख्यानमित्यत्र संयोगान्तत्वेन सलोपे [ सम्पुंकानां सो वक्तव्य ] इत्यम्परे खयि मकारस्य विधीयमानःसकारो यत्वस्यासिद्धत्वादम्परत्वाभावान्नभवति, (चख्यिध्वे) इत्यत्र ध्वमि इट्याल्लोप "इणः षीध्वं'' "विभाषेटः'' इति मुर्द्धन्यो यत्वस्यासिद्धत्वाद् भवति, [नमःख्यात्र] इत्यत्रापि यत्वस्य "शर्परे खरि विसर्जनीयः''इति विसर्जनीये कर्त्तव्येऽसिद्धत्वादस्ति शर्परतेति विसर्जनीयः, अन्यथा "कुप्वोःकःपौ च'' इति विसर्जनीयजिह्वामूलीयौ द्वौस्यातां, किं ख्यातमित्यत्र "संयोगादेरातो धातोर्यण्वत'' इति निष्ठानत्वे कर्त्तव्ये यत्वस्यासिद्धत्वान्नत्वाभावः, तथा पर्याख्यानमित्त्यत्र "कृत्यचः'' इति णत्वे यत्वस्यासिद्धत्त्वादनटा शकारेण व्यवधानाद् णत्वाभावः ननु ख्यातं इत्यत्र "न ध्याख्या''इति नत्वप्रतिषेधस्य सिद्धत्वात्कथमिदिं भाष्ये प्रयोजनमुक्तम् अत्रकैयटः-"न ध्याख्या'' इति नु प्रतिषेधः ख्या प्रकथन इत्यस्यैव प्रतिपदोक्तत्वादस्य तु शस्य यत्वेन लाक्षणिकत्वादिति मन्यत इति ननु [ नमः ख्यात्रे ] इत्यत्र जिह्वामूलीयस्याभावः कथं प्रयाजनमुक्तं, यस्मात्स दुर्वारः तथाहि "ख्या प्रकथन'' इत्यस्मादपि तृचि ख्यातृशब्दस्य सद्भावात्तत्स्थस्य यकारस्यानादेशत्वादसिद्धत्वाभावत् शर्परत्वमिति "शर्परे खरिविसर्जनीय'' इत्यस्याप्रसङ्गात् "कुप्वोः'' इति प्राप्तस्य जिह्वामूलीयस्य बाधकाभावात् नैष दोषः ख्यातिरप्यार्द्धधातुके ख्शादिः, असिद्धे शस्य यववनं विभाषेतदपि तस्यापि साधारणमिति अत्र प्रमाणं [ सस्थानत्वं नमः ख्यात्रे ] इत्यत्र सस्थानत्वं भवतीति भाष्यवार्त्तिकयोः सस्थानाभावस्य प्रयोजनकत्वेन कथनं, सस्थानमिति जिह्वामूलीयस्य संज्ञा, तथा चाह पदमञ्जर्यां हरदत्तः, ख्या प्रकथने इति वक्ष्यते सोऽपि ख्शादिः असिद्धे शस्य यवचनं विभाषेत्यापितस्यापि साधारणं द्रष्टव्यमिति आत्रेयोऽपि सर्वत्रार्द्धधातुके चक्षे इति वास्य रूपमिति एवं चक्षिङिव ख्यातिरपि निष्ठायां ख्शादिः शकारस्य चासिद्धे शस्य यवचनं विभाषेति वा यत्वं, तच्च "संयोगादेरातः'' इति निष्ठानत्वेऽसिद्धमिति यत्वस्याभावान्नत्वस्य नैव प्रसङ्ग इति "न ध्याख्या'' इति प्रतिषेधः ख्यात्यर्थोऽपि कर्त्तव्यो भवति अत्रेदं विचार्यते चक्शावित्यादौ यत्वाभावे चर्त्वे (चयो द्वितीयाः शरि पौष्करसादेः) इति खकारो भवति वा नेति, नेत्याह अस्मिन्कर्त्तव्ये चर्त्वस्य पूर्व्वत्रासिद्धत्वाद् द्वितीयभाविनःखयोऽभावात् खयो द्वितीया इत्येतत् "नादिन्याक्रोशे पुत्रस्य''इत्यत्र हि पठ्यते चैवं भ्रमितव्यं क्शादि रप्ययमादेश इष्यते इति वृत्तौ ककारादिरयमादेश उच्यत इति द्वितीयभाविनः खयः सम्भवादस्ति "खयो द्वितीया'' इत्यस्य प्राप्तिरिति, यतो वृत्तिकारनिर्देशो भाविचर्त्वापेक्षः अन्यथाऽथ वा खशादिभविष्यति केनेदानीं क्शादिर्भविष्यति चर्त्वेनेत्यादि भाष्यविरोधप्रसङ्गः (ख्याता, ख्यातासे, ख्याताहे, क्शाता, क्शाताहे, ख्याता, ख्यातासि, ख्यातास्मि क्शाताक्शातासि, क्शातास्मि, ) "चक्षिङः ख्याञादेशः, लिहवत् क्शादित्वमनुसन्धेयं, (ख्यास्यते ख्यास्यसे, ख्यास्ये, ख्यास्यतीत्यादि क्शादिपक्ष उदाहार्यः) चष्टां, चक्षातां, चक्षताम्, चक्ष्व, चक्षाथाम्, चड्ढवं, ) कलोपादि लङ्वत्( चक्षै, अचष्टअचक्षाताम् अचक्षत अचष्टा, अचड्ढवम् अचक्षि, अचक्ष्वहि चक्षीत, चक्षीयातां, चक्षीरन्, चक्षीथाः, चक्षीयाथां, चक्षीध्वं, चक्षीय ) आशिषि ( ख्यासीष्ट, ख्यासीयास्तां, ख्यासीष्ठाः, ख्यासीध्वं, ख्यासीय, ख्येयात् ख्येयास्तां, ख्येयासुः, ख्येयाः, ख्वेयास्तं, ख्येयासम् ) "एर्लिङि'' "वान्यस्य संयोगादेः'' इति वा लिङ्यार्द्धधातुके एत्वम् एत्वाभावे ( ख्यायात्, , ख्यायास्तां, ख्याया, ख्यायासं, क्शासीष्ट, क्शायात् क्शेयात् ) इत्यादि चोदाहार्यम्, ( अख्यत अख्येताम् अख्यन्त अख्यथाः अख्याध्वम्, अख्ये अख्यावहि अख्यत् अख्यताम्, अख्यन्, अख्यः, अख्यमख्याव, ) "अस्यतिवक्तिख्यातिभ्योऽङ्'' इति च्लेरङादेशः कर्त्तरि, ख्या इति प्रकथनार्थस्य चादेशस्य ग्रहणमिति वृत्तिः "आतो लोप इटि च'' इत्याल्लोपोऽङि अख्येतामित्यादौ "आतो ङित'' इतीयादेशः यञादावतोदीर्घः, अङ्विधौ ख्यातीति कृतयत्वायाः विकृतेर्निर्देशादकृतयत्वायाः प्रकृतेर्नग्रह इति यदाक्शादित्वं तदा सिजेव ( अक्शास्त, अक्शासाताम्, अक्शासत अक्शास्थाः, अक्शासि अक्शास्वहि अक्शासित् अक्शासिष्टाम्, अक्शासिषुः अक्शासीः अक्शासिषम् ) "यमरमनमाताम्'' इति सगिटौ ननु "निसमुपविभ्यो ह्वः'' इति कृतात्वस्यानुकरणेन विधीयमानस्तङ् निह्वास्यते इत्यादावाकारान्ते एव स्यान्न तु प्रकृतेरेदन्तस्य ह्वेइत्यस्य ( निह्वयते ) इत्यादि सिद्ध्यर्थं विकृतिरपि प्रकृतिं गृह्णात्येव, कथं विज्ञायते यदयं "नव्यो लिटि'' इत्यात्वभूतस्य वेञो निर्देशेनात्वप्रतिषेधं शास्ति ततो ज्ञायत इत्युक्तं न्यासे तद्वदिहापि विकृत्या प्रकृतेर्ग्रहणादङ् स्यात् मैवम् तत्र विककृत्या प्रकृतिग्रहणात्तङ् किं तु एजन्तैव प्रकृतिरनुक्रियते इत्यनुकरणस्यात्वं तु लक्षणवशात् "न व्यो लिटि'' इत्यत्राप्यनुकार्यमेजन्तमेव लक्षणवशादनुकरणमात्वभूतमिति विकृत्या प्रकृतिग्रहणस्येदं ज्ञापकं, सर्वमेतत्प्रपञ्चितं ह्वयतौ, [ अख्यास्यत, अख्यास्यत् अक्शास्यत अक्शास्यत्) कर्म्मणिख्यायते क्शायते इत्यादि स्यादिषु वा चिण्वदिटि ख्ययिष्यते, अख्यायिष्यत, अख्यायिषीष्ट, ख्यायितेत्यादि इडभावे ( ख्यास्यते अख्यास्यत, ख्यासीष्ट, ख्याता ) इत्यादि, क्शादिरप्युदाहार्यः, एवं कर्म्मकर्त्तर्यपि लुङि शब्दे कर्म्मणि नित्यश्चिण्, कर्म्मकर्त्तरि तु "अचः कर्म्मकर्त्तरि'' इति पाक्षिकः तदभावे द्विवचनादौ "अस्यतिवक्तिख्यातिभ्योऽङ्'' इत्यङ् (अख्यायि अख्यत अख्येताम्) इत्यादि क्शादित्वे त्वङ् नास्तीत्युक्तं, तेन ( अक्शायि ) इति चिणि तदभावे सिचि चिण्वदिटो भावाभावाभ्याम् ( अक्शायिष्ट अक्शास्त अक्शायिषाताम् अक्शासाताम् ) इत्यादि, तदेवं क्शादि पक्षे तशब्दे त्रैरूप्यम् सनि ( चिख्यासते, चिख्यासति, चिक्शासते, चिक्शासति चाख्यायते चाक्शायते ) यङ्लुकि लुमता ( 1 ) ( 1 ) अङ्गस्येत्येत्रेति पुस्तकान्तरेऽधिकम् तस्मिन्निति लुमता लुप्तप्रत्ययनिमित्ते आङ्गे चानाङ्गे कार्ये प्रत्ययलक्षणनिषेधाद्यङ्परत्वाभावान्न ख्याञादेशः नन्वार्धधातुक इति विषयसप्तमीति प्रागेव तदुपपत्तेः ख्याञादेशेन भाव्यं, मैवं, लुका तद्विषयत्वमेवापह्रियते तथा ( सूत्रम्) लुमताङ्गस्य (इति सूत्रम्) इत्यत्र कैयटे लुमता तस्मिन्निति चेद्धनि णिङादेशा सिद्ध्यन्तीति भाष्यवार्त्तिकयोरुक्तेः" लुङि च'' इत्यादौ विषयसप्तम्याश्रयणेनादेशाः सेत्यस्यन्तीत्याशङ्क्य लुका लुङो विषयापहारात् विषयसप्तम्याश्रयणेऽप्यसिद्धिरित्युक्तम्, एवं चाङ्विधौ ख्यातीति श्तिपानिर्देशः प्रकथनार्थस्य यङ्लुक्यङ्निवृत्त्यर्थो भवति, यदुक्तं वर्द्धमानेन, ख्यातीति श्तिपा निर्देशाद् यङ्लुकि अचाख्यासीदिति तदपि प्रकथनार्थपरं व्याख्येयं, (ख्यापयति, क्शापयति, अचिख्यपत्, अचिक्शपत्, आख्येयम्, आक्शेयम् ) आर्द्धधातुके इत्यस्य विषयसप्तमीत्वात् प्रागेव प्रत्ययोत्पत्तेः ख्याञादेश इति अजन्तलक्षणो यद्भवति "ईद्यति'' इतीत्वे गुणः, ( संचक्ष्यः ) वर्ज्जनीय इत्यर्थः [ वर्जने प्रतिषेधः ] इति ख्याञभावे हलन्तलक्षणो ण्यत्, शोभनंप्रचष्टि सुप्रख्यः, उपसृष्टादकर्म्मोपपदात् "आतश्चोपसर्गे''इति कः उपसृष्टात्कर्म्मोपपदात्तु कर्म्मण्यणि युकि गोप्रख्याय इति गां संचष्टे गोसंख्य इत्यत्र तु "समि ख्य'' इति कर्म्मणि समि चोपपदेऽणोपवादः कः तथा स्त्रियामाचष्टे स्त्र्याख्या इत्यत्र "मूलविभुजादिभ्य'' इति कोऽपि भवति तथानुपसृष्टात् कर्म्मोपपदात् "आतोऽनुपसर्गे कः'' इति के गोख्यः, अनुपसृष्टादनुपपदात्तु "श्याद्व्यध'' इत्याकारान्तलक्षणे णे युकि ख्याया इति, (गोख्यायो व्रजति गोसंख्यायो व्रजति प्रिया( 2 ) ( 2 )ख्येयो व्रजति ) इत्यत्र "अण् कर्म्मणि च'' इति कर्म्मणि क्रियायां चोपपदे विधीयमानोऽण् "आतोनुपसर्गे कः'' "समि ख्यः'' [मूलविभुजादिभ्य उपसंख्यानम्] इति विधीयमानं कं परत्वाद् बाधते तथाच वृत्तिः, कर्म्मणि सामान्यविहितोऽपि वासरूपविधेरभावाद् ण्वुला बाधितः पुनरण् विधीयते सोपवादत्त्वाद् ण्वुलं बाधते परत्वाच्च कादीन्, तेनापवादविषयेऽपि भवत्येवेति, वासरूपाभावश्च [ क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिप्रतिषेध] इति (ईषदाख्यानम्) ( सूत्रम्) आतो युच् (इति सूत्रम्) इति युच् इषदादिषु कृच्छ्राकृच्छ्रार्थेषु उपपदेषु, (आख्या) "आतश्चोपसर्गे'' इत्यङ्, सर्वेष्वपि कृत्सु क्शादिरप्युदाहार्यः अत्रेकारे विप्रतिपद्यन्ते अयमनुदात्तः, प्रयोजनं विचक्षण इत्यत्र "अनुदात्तेतश्च'' इति युजिति कैयटपदमञ्जरीकारादयः अत्र [आसनयोःप्रतिषेधः] इति ख्याञभावः "इदितो नुम्'' इति नुमिह भवति अन्तग्रहणानुवृत्तेरन्तेदित एव तद्विधानात्, अयं चासनयोश्चेति ख्याञ्प्रतिषेधः संज्ञायां, यदाह भाष्यकारः-"बहुलं तणीति वक्तव्यम् अन्नवधकगात्रविचक्षणाजिराद्यर्थां, किमिदं तणीति संज्ञाच्छन्दसोर्ग्रहणमिति, तेनासंज्ञायां भावादौ ल्युठ्याख्यानमिति भवति, अत्रानुदात्तेत्त्वादेव तङिसिद्धे ङकारोऽन्तेदित्त्वविघातायेति के चित् एवं हि चक्ष इत्यकारमेवानुदात्तमितमासजेत् तस्मादन्तेदित्त्वाभावार्थः सन्ननुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यमिति ज्ञापनार्थोऽयंङकारः, तेन "तालैः शिञ्जद्वलयसुभगैः'' "तृष्णे जृम्भसि, "प्रार्थयन्ति शयनोत्थितं प्रिया' इत्यादयः प्रयोगा उपपद्यन्ते ननु शिङ्क्तइति शिञ्जः जृम्भतइति जृम्भः, तद्वदाचरतीति क्वौ शतरि सिपि शिञ्जन् जृम्भसीति सिध्यतः तथा प्रार्थनं प्रार्थः, तत्करोतीति णौ प्रार्थयन्तीति, तत् किमनेन ज्ञापनेन, सत्यं, शब्दः सिद्ध्यन्ति अर्थास्तु सहृदयहृदयङ्गमा भवन्ति अत्रात्रेयः, ङित्करणमेकानुबन्धस्यात्मनेपदस्यानित्यत्वज्ञापनार्थमिति नेहार्जवं पश्यामः यस्मादवश्यं युजर्थमनुदात्तेत्त्वं कर्त्तव्यन्तेनैव तङि सिद्धे पुनस्तङर्थः क्रियमाणो ङकारोऽनुदात्तेत्त्वप्रयुक्तस्य तङो ऽनित्यत्वज्ञापनायैव भवति, तथा "गणकृतमात्मनेपदमनित्यम्, इति ज्ञापनार्थमिति तरङ्गीणीग्रन्थोऽप्येतेनैव प्रत्युक्तः, संमताकारस्त्विकार उच्चारणार्थ इति तन्मते विचक्षण इत्यत्र युज् स्यात् ल्युट्येव ख्याञभावोऽस्त्विति शक्यते वक्तुं, "सूर्या उभा चन्द्रमासा विचक्षण' इत्यन्तोदात्तावेक्षणात्, ल्युटि हि मध्योदात्तेन भाव्यं, चान्नवधकगात्रविचक्षणेति निर्द्देशो युचमपि कल्पयेत्, यस्मादयमार्द्धधातुके ख्याञभावमात्रपर इति ल्युट्येव ख्याञभावेऽपि चरितार्थः "अन्नवधक' इत्यत्रविचक्षण इति ल्युटीति वदन् न्यासकारोऽपि स्वरविरोधेनैव प्रत्युक्तः ( नृचक्षाः राक्षसः, ) असुन्नित्यसुन्प्रत्ययः, "असनयोश्च'' इति ख्याञभावः (चक्षुः चक्षेः) "शिच्च'' इत्युस्प्रत्ययः, तस्य शित्त्वात्सार्वधातुकत्वात् ख्याञभावः ( अवक्षुः चक्षुः करोति चक्षूकरोति ) "अरुर्म्मन'' इत्यादिना च्वौ सलोपे "च्वौ च'' इति दीर्घः,
शब्दतन्त्रस्वतन्त्रेण प्रक्रियेयं प्रपञ्चिता तस्या निःशेषतो मन्ये बोद्धारो भाष्यपारगाः 7