| YouTube Channel

चक्ष (cakSa)

 
शब्दसागरः
English
चक्ष (इङ्) चक्षिङ् r. 2nd cl. (चष्टे)
1. To speak, to tell.
2. To see
(in this
sense आङ् is usually prefixed.)
3. To eat. ख्या or कश are substitu-
ted for the radical letters in several tenses of this verb. कथने त्यागे
अदा-आ-सक-सेट्
Yates
English
चक्ष (ल, ङ, इ) चष्टे 2.
a. To speak.
With prefixed, to see.
Wilson
English
चक्ष (इङ्) चक्षिङ् r. 2nd cl. (चष्टे)
1 To speak, to tell.
2 To see
(in this sense आङ् is usually prefixed)
3 To eat. ख्या or क्श are substituted for the radical letters in
several tenses of this verb.
Monier Williams Cologne
English
चक्ष
m.
a false friend,
VarYogay.
iv, 50.
शब्दकल्पद्रुमः
Sanskrit
चक्ष, वदे इति कविकल्पद्रुमः
(अदां-आत्मं-सकं-सेट् ।) वदः कथनम् (दर्शने चइति केचित् ।) ङ, आचष्टे धर्म्मं धीरः ।तृतीयस्वरानुबन्ध इति प्राञ्चः इकार उच्चा-रणार्थ इति केचित् छन्दसि नुणागमार्थ इतिकेचित् वेदेषूच्चारणार्थ इति केचित् अत्रबहवस्तु तृतीयस्वरो भ्रमकारितः किन्तु चतुर्थ-स्वरानुबन्धोऽयं निष्ठाया इम्निषेधार्थः तेनवर्ज्जनार्थे ख्याञकसाञादेशयोरप्राप्तौ आचष्टंवर्ज्जनमित्याहुः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
चक्ष कथने त्यागे अदा० आत्म०
सक०
सेट् चष्टे अख्यत्अख्यत त्यागे तु सम--क्षिष्ट चख्यौ चख्ये चचक्षे ।भाष्यमते अक्शासोत् अक्शास्त चक्शौ चक्शे ।अनु + पश्चादुक्तौ “परायतीं मातरमन्वचष्ट” ऋ० १८ ।अभि + आभिमुख्येन दर्शने “कदा चिकित्वो अभिचक्षसे नः”ऋ० ।अव + अधोदर्शने “सुपर्णोऽवचक्षत क्ष्मां सोमः” ऋ० ७१ ।आ + आख्याने “विचक्षणः प्रस्तुतमाचचक्षे “स रावण-हृतां ताभ्यां वचसाचष्ट मैथिलीम्” रघुः ।अनु + + अन्वाख्याने “एतमेव तदन्वाचक्षते” शत० व्रा० ।अभि + + आभिमुख्येनाख्याने “अभ्याचष्टानुरागास्रैर-न्धीभूतेन चक्षुषा” भाग० ११ “अभ्याचष्टुं प्रच-क्रमे” १४ ।उद् + + उदाहरणे “तस्मादध्वर्य्युरेव गोर्वीर्य्याण्युदाचष्टे” शत० व्रा० ।प्रति + + प्रत्याख्याने निराकरणे “गुरुपुत्रीति कृत्वाऽहंप्रत्याचक्षे दोषतः” भा० आ० ७७ अ० ।वि + + व्याख्याने विवरणे “व्याचक्षाणस्य तु मे निदि-ध्यासस्व” शत० व्रा० १४ ।सम् + + सम्यगाख्याने “तत्सत्यं नः समाचक्ष्व” भाग० ।४ १३ ।परि + परितः कथने विख्यातौ “वेदप्रदानादाचार्य्यं पितरं परिचक्षते” मनुः ।प्र + प्रकर्षेण कथने विख्यातौ “तं देवनिर्म्मितं देशं ब्रह्मा-वर्त्तं प्रचक्षते” मनुः “दहति प्रेतमिति प्रचक्षते” रघुः ।प्रति + प्रत्युत्तरोक्तौ प्रतिरूपोक्तौ “यदा तु सर्व्वभूतेषु दारु-ष्वग्निमिव स्थितम् प्रतिचक्षीत मां लोकः” भाग० ।वि + विशेषेण कथने विख्यातौ “विश्वं विचक्षते धीराःयोगराद्धेन चक्षुषा” भाग० ११ १७ विचक्षणः ।सम् + सम्यक्कथने “मेरोरप्यन्तरे पार्श्वे पूर्व्वं संचक्ष्वसञ्जय!” भा० भी० अ०