| YouTube Channel

चक्रव्यूहः (cakravyUhaH)

 
शब्दकल्पद्रुमः
Sanskrit
चक्रव्यूहः,
पुं,
(चक्रवत् मण्डलाकारेण रचितो-व्यूहः रचनयाधिष्ठापितः सेनासमूह इतियावत् ।) युद्धार्थमण्डलाकारेण सैन्यरचना ।(एतस्य रचनालक्षणादिश्चक्रशब्दे द्रष्टव्यः
व्यूहोऽयमभिमन्युवधेप्सुना भगवता द्रोणाचाय्ये-णाभिकल्पितः यथा, महाभारते ३३ ।१२ -- २३ ।“चक्रव्यूहो महाराज ! आचार्य्येणाभिकल्पितः ।तत्र शक्रोपमाः सर्व्वे राजानो विनिवेशिताः
अवस्थानेषु विन्यस्ताः कुमाराः सूर्य्यवर्च्चसः ।सङ्घातो राजपुत्त्राणां सर्व्वेषामभवत्तदा
कृताभिसमयाः सर्व्वे सुवर्णविकृतध्वजाः ।रक्ताम्बरधराः सर्व्वे सर्व्वे रक्तविभूषणाः
सर्व्वे रक्तपताकाश्च सर्व्वे वै हेममालिनः ।चन्दनागुरुदिग्धाङ्गाः सग्विणः सूक्ष्मवाससः
सहिताः पर्य्यधावन्त कार्ष्णिं प्रति युयुत्सवः ।तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम्
पौत्त्रं तव पुरस्कृत्य लक्षणं प्रियदर्शनम् ।अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः
अन्योन्यं स्पर्द्धमानाश्चाप्यन्योन्यस्य हिते रताः ।दुर्य्योधनस्तु राजेन्द्र ! सैन्यमध्ये व्यवस्थितः
कर्णदुःशासनकृपैर्वृतो राजा महारथैः ।देवराजोपमः श्रीमान् श्वेतच्छत्त्राभिसंवृतः
चामरव्यजनाक्षेपैरुदयन्निव भास्करः ।प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायकः
सिन्धुराजस्तथाऽतिष्ठत् श्रीमान् मेरुरिवाचलः ।सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः
सुतास्तव महाराज ! त्रिंशत्त्रिदशसन्निभाः ।गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा ।पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः
”)