| YouTube Channel

चक्रवृद्वि (cakravRdvi)

 
वाचस्पत्यम्
Sanskrit
चक्रवृद्वि स्त्री चक्रमिव वृद्धिः “वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धि-रुदाहृता” इति नारदोक्ते वृद्धिभेदे तद्दानादिप्रकांरःमनुना दर्शितो यथा “नातिसांवत्सरीं वृद्धिं नवादृष्टांपुनर्हरेत् चक्त्रवृद्धिः कालवृद्धिः कारिता कायिका चथा ऋणं दातुमशक्तोयः कर्त्तुमिच्छेत् पुनः क्रियाम् ।स दत्त्वा निर्जितां वृद्धिं करणं परिवर्त्तयेत् अदर्शयित्वातत्रैव हिरण्यं परिवर्त्तयेत् यावती सम्भवेद् घृद्धिस्ता-वतीं दातुमर्हति” “ममैकस्मिन्मासि मासद्धये मासत्रयेवा गते तस्य वृद्धिः विगणय्य एकदा दातव्येत्येवं विधिनियमपूर्व्वकवृद्धिग्रहणमुत्तमर्णः संवत्सरपर्य्यन्तं कुर्य्यात्नातिक्रान्ते संवत्सरे वृद्धिं गृह्णीयात् शास्त्रोक्त-धर्म्यद्विकत्रिकशताद्यधिकां गृह्णीयात् अधर्म्यत्वबोध-नार्थो निषेधः चक्रवृद्ध्यादिचतुष्टयीं चाशास्त्रीयां नगृह्णीयात् तासां स्वरूपमाह वृहस्पतिः “कायिकाकायसंयुक्ता मासग्राह्या कालिका वृद्धेर्वृद्धिश्चक्रवृद्धिःकारिता ऋणिना कृता” तत्र चक्रवृद्धिः स्वरूपेणैवगर्हिता कालवृद्धिस्तु द्विगुणाधिकग्रहणन कायिकाचातिवाहदोहादिना कारिता ऋणिकेन या आपत्-काल एव उत्तमर्णपीडया कृता चतस्रोऽपि वृद्धीरशास्त्रीया गृह्णीयात् तथा वृहस्पतिः “भागोयद्द्विगुणादूर्द्ध्वं चक्रवृद्धिश्च गृह्यते पूर्णे सोदयपश्चात् वार्द्धुष्यं तद्विगर्हितम्” कात्यायनः “ऋणिकेनकृता वृद्धिरधिका सम्प्रकल्पिता आपत्कालकृता नित्यदातव्या कारिता तथा अन्यथा कारिता वृद्धिर्न्न दातव्याकथञ्चन” ऋणं दातुमिति अधमर्णो धनदानासामर्थ्यात्यदि पुनर्लेख्यादिक्रियां कर्त्तुमिच्छेत् निर्ज्जितांउक्तमार्गेण सत्यतया आत्मसात् कृतां वृद्धिं दत्त्वा करणंलेख्यं पुनः कुर्य्यात् अदर्शयित्वेति यदि देवगत्यावृद्धिहिरण्यमषि समग्रं दातुं शक्नोति तदा तद्गृहीत्वैव तत्रैव पुनः क्रियमाणे लेख्यादौ वृद्धिहिर-ण्यादिशेषमारोपयेत् यत्प्रमाणं चक्रवृद्धिधनं तदानींसम्भवति तद्दातुमर्हति” कुल्लू० ।चक्रमस्त्वस्य अच् चक्रं चक्रवच्छकटादि तन्निमित्ता वृद्धिः ।२ शकटादिभाटकरूपलाभे “चक्रवृद्धिं समारूढोदेशकालव्यवस्थितः अतिक्रामन् देशकालौ तत्फल-मवाप्नुयात्” मनुः “चक्रदृद्धिमिति चक्रवृद्धिशब्दे-नात्र चक्रवच्छकटादिभाटकरूपा वृद्धिरभिमता चक्र-वृद्धिमाश्रित उत्तमर्णो देशकालव्यवस्थितः यदि वारा-णसीपर्य्यन्तं लवणादि शकटेन वहामि तदा ममेय-द्धनं दातव्यमिति वेतने देशव्यवस्थितिः यदि मासंयावद्वहामि तदा ममेयद्धनं दातव्यमिति कालव्यवस्थितिःएवमभ्युपगतदेशकालौ नियमस्थौ दैवादपूरयन् शक-दादिनाऽवहन् लाभरूपफलं सकलं प्राप्नोति” कूल्लू०