| YouTube Channel

चक्रवर्त्ती (cakravarttI)

 
शब्दकल्पद्रुमः
Sanskrit
चक्रवर्त्ती, [न्]
पुं,
(चक्रं पद्माकारशुभचिह्नंकरे वर्त्तते यस्य वृत् + णिनिः यद्वा चक्रंपृथ्वीचक्रं तेन वर्त्तते इति वृत + णिनिः ।)समुद्रपरिवृतायाः सर्व्वभूमेरीश्वरः तत्पर्य्यायः ।सार्व्वभौमः इत्यमरः
(यथा, शकुन्तलायां अङ्के ।“जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।पुत्त्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि
”)वास्तूकम् इति राजनिर्घण्टः
(श्रेष्ठः यथा, गीतगोविन्दे ।“वाग्देवताचरितचित्रितचित्तसद्मापद्मावतीचरणचारणचक्रवर्त्ती
”“चारणचक्रवर्त्ती नर्त्तकश्रेष्ठः ।” इति तट्टी-कायां चैतन्यदासः यद्वा पद्मावती महालक्ष्मीःराधा तस्याश्चरणचारर्णे परिचर्य्यायां यच्चक्रंमण्डलं तत्र वर्त्तते इति व्युत्पत्त्या वैष्णवसम्प्र-दाचिविशेषः
)