| YouTube Channel

चक्रलिप्ता (cakraliptA)

 
वाचस्पत्यम्
Sanskrit
चक्रलिप्ता स्त्री त० राशिचक्रस्य कलांरूपे भागभेदेकलाश्च २१६०० मिताः तथाहि द्वादशराश्यात्मकचकस्यएकैकराशेस्त्रिंशांशत्मकत्वात् ३६० अंशात्मकं राशिचक्रम्अंशश्च ६० कलामितः तदङ्कस्य षष्ट्या गुणने २१६००कलाभवन्ति इति कलापर्य्यायलिप्तानां तावन्मितत्वम्