| YouTube Channel

चक्रमुषल (cakramuSala)

 
वाचस्पत्यम्
Sanskrit
चक्रमुषल
पु०
चक्रं मुषलञ्च साधनतया अत्रास्ति अच् ।चक्रमुषलनिष्पाद्ये युद्धभेदे “तत्र चक्रं हलञ्चैव गदांकौमोदकीन्तथा सौनन्दं मुषलञ्चैव वैष्णवान्यायुधानिच दर्शयिष्यर्त्ति संग्रामे पास्यन्ति महीक्षिताम् ।रुधिरं कालयुक्तानां वपुर्भिः कालसन्निभैः चकृ-मुषलो नाम संग्रामः कृष्ण! विश्रुतः दैवतैरिहनिर्द्दिष्टः कालः स्यादेष संज्ञितः” हरि० ९६ अ० चक्रेणनिर्वृत्तम् अण् चाक्र तन्निर्वृत्ते युद्धे “चाकं मौषल-मिद्येवं संग्रामं रणवित्तमाः कथयिष्यन्ति लोकेऽस्मिन्ये धरिष्यन्तिं पार्थिवाः” हरि० १० अ०