| YouTube Channel

चक्रमर्द्दः (cakramarddaH)

 
शब्दकल्पद्रुमः
Sanskrit
चक्रमर्द्दः,
पुं,
(चक्रं चक्राकारदद्रुरोगं मृद्नातीति ।मृद् + “कर्म्मण्यण् ।” इत्यण् ।)क्षुपविशेषः चाकुन्दिया इति भाषा
तत्-पर्य्यायः एडगजः अडगजः गजाख्यः ४मेषाह्वयः एडहस्ती व्यावर्त्तकः चक्र-गजः चक्री पुन्नाटः १० पुन्नाडः ११ विम-र्द्दकः १२ दद्रुघ्नः १३ तर्व्वटः १४ चक्राह्वः १५शुकनाशनः १६ दृढबीजः १७ प्रपुन्नाडः १८खर्ज्जुघ्नः १९ इति राजनिर्घण्टः
चक्र-मर्द्दकः २० पद्माटः २१ उरणाख्यः २२ इत्य-मरः १४७
प्रपुन्नडः २३ प्रपुनाडः २४उरणाक्षः २५ इति तट्टीका
अस्य गुणाः ।कटुत्वम् तीव्रत्वम् मेदोवातकफकण्डूकुष्ठदद्रु-पामादिदोषनाशित्वञ्च इति राजनिर्घण्टः
लघुत्वम् स्वादुत्वम् रूक्षत्वम् पित्तश्वास-कृमिनाशित्वम् हृद्यत्वम् हिमत्वञ्च तत्फलगुणाः उष्णताकुष्ठकण्डुदद्रुविषानिलगुल्म-कासकृमिश्वासनाशित्वम् कटुत्वञ्च इति भाव-प्रकाशः
(अस्य गुणाः पर्य्यायाश्च यथा, भाव-प्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ।“चक्रमर्द्दः प्रपुन्नाटो दद्रुघ्नो मेषलोचनः ।पद्माटः स्यादेडगजश्चक्री पुन्नाट इत्यपि
चक्रमर्द्दो लघुः स्वादू रूक्षः पित्तानिलापहः ।हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन् हरेत्
हन्त्युष्णन्तत्फलं कुष्ठकण्डूदद्रुविषानिलान् ।गुल्मकासक्रिमिश्वासनाशनं कटुकं स्मृतम्
”)