चक्रपुष्करिणी (cakrapuSkariNI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaचक्रपुष्करिणी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವಾರಾಣಸೀ ಕ್ಷೇತ್ರದಲ್ಲಿರುವ ಒಂದು ದೊಡ್ಡ ಸರೋವರ
Wordnet
Sanskrit चक्रपुष्करिणी
एकं सरः ।
"चक्रपुष्करिणी स्कन्दपुराणस्य काशीखण्डे उल्लिखिता दृश्यते"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritचक्रपुष्करिणी चक्रेण खननात् विष्णुना कृता पुष्करिणी ।काशीस्थे मणिकर्ण्णिकाख्ये पुष्करिणीभेदरूपे तीर्थे तत्-कथा काशीख० २६ अ० यथा“खनित्वा तत्र चक्रेण रम्यां पुष्करिणीं हरिः । निजा-ङ्गस्वेदसन्दोहसलिलैस्तामपूरयत् । समाः सहस्रं पञ्चा-शत् तपौग्रञ्चकारसः । चक्रपुष्करिणीतीर्थे तत्र स्थाणु-समाकृतिः” इत्युपक्रमे “त्वदोयचरणाम्भोजमकरन्दमधू-त्सुकः । मच्चेतोभ्रमरो भ्रान्तिं विहायास्त्वाशु निश्चलः ।त्वदीयस्यास्य तपसो महोपचयदर्शनात् । यन्मया लो-लितो मौलिरहिश्रवणभूषणः । तदान्दोलनतः कर्णात्पपात मणिकर्णिका । मणिभिः खचिता रम्या ततोऽस्तुमणिकर्णिका । चक्रपुष्करिणीतीर्थं पुरा ख्यातमिदंशुभम् । त्वया चक्रेण खननात् शङ्खचक्रगदाधर! ।मम कर्णात् पपातेयं यदा च मणिकर्णिका । ततः प्रभृतिलोकेऽत्र ख्यातास्तु मणिकर्णिका” । “अस्मिंस्तीर्थवरेशम्भो! मणिश्रवणभूषणे । सन्ध्या स्नानं जपं हीमंवेदाध्ययनमुत्तमम् । तर्पणं पिण्डदानञ्च देवतानाञ्च पूज-नम् । गोभूतिलहिरण्यानि दीपान्नाम्बरभूषणम् ।कन्यादानं प्रयत्नेन सप्ततन्तूननेकशः । व्रतोत्सर्गंवृषोत्सर्गं लिङ्गादिस्थापनं तथा । करोति यो महा-प्राज्ञो ज्ञात्वायुः क्षणगत्वरम् । विपत्ति विपुलाञ्चापिसम्पत्तिमतिभङ्गुराम् । अक्षया मुक्तिरेकाऽस्तु विपाकस्तस्यकर्म्मणः । अन्यच्चापि शुभं कर्म्म यद्दत्तं श्रद्धया हुतम् ।विनात्मघातमीशान! त्यक्त्वा प्रायोपवेशनम् । नैःश्रेयस्याःश्रियो हेतुस्तदस्तु जगदीश्वर! । नानुशोचति नाख्यातिकृत्वा कालान्तरेऽपि यत् । तदिहाक्षयमेवास्तु तस्येश! त्वदनुग्रहात् । तव प्रासादात्तस्येश! सर्वमक्षयमस्तु तत् ।यदस्ति यद् भविष्यञ्च यद्भूतञ्च सदाशिव । तस्मादेतच्चसर्वस्मात् क्षेत्रमस्तु शुमोदयम् यथा सदाशिव!त्वत्तो न किञ्चिदधिकं शिव! । तथाऽऽनन्दवनादस्मात्किञ्चनास्त्वधिकं क्वचित् । विना सांख्येन योगेन विनास्वात्मावलोकनम् । विना व्रततपोदानैः श्रेयोऽस्तु प्राणि-नामिह” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
